चंडमुंडकरा देवी मुंडदेहगता सती
आकाशमातरो देव्यस्तथान्या लोकमातरः
वृद्धिश्राद्धेषु पूज्यंते यास्तु देव्यो मनीषिभिः
पितामही तु तन्माता वृद्धा या च पितामही
सर्वा मातृमहादेव्यः स्वायुधाव्यग्रपाणयः 1.177.
शांतिं कुर्वंतु ता नित्यमादित्याराधने रताः
सर्वावयवमुख्येन गात्रेण च सुमध्यमा !। पीतश्यामाति सौम्येन स्निग्धवर्णेन शोभना
ललाटतिलकोपेता चंद्ररेखार्धधारिणी
वरा स्त्रीमयरूपाणां शोभा गुणसुसम्पदा
साक्षादागत्य रूपेण शांतेनामिततेजसा
सौरधर्मवर्णनम् पूर्वेण वदनः श्रीमांस्त्रिशिखः शक्तिसंयुतः
कृत्तिकायाश्च रुद्रस्य चांगोद्भूतः सुरार्चितः शांतिं करोतु ते नित्यं बलं सौख्यं च तेजसा
आत्रेयीबलवान्देव आरोग्यं च खगाधिप
शूलहस्तो महाप्राज्ञो नदीशो रविभावितः
धर्मेतरावुभौ नित्यमचलः संप्रयच्छतु
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः
सर्वार्थसंपदोद्धारो गणाध्यक्षो वरप्रदः करोतु ते महाशांतिं भास्करार्चनतत्परः
इंद्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः
पापापनोदमतुलमलक्ष्यो मलनाशनः
वरांबरधरा कन्या नानालंकारभूषिता 1.178.
सर्वसिद्धिकरा देवी प्रसादपरमास्पदा
स्निग्धश्यामेन वर्णेन महामहिषमर्दनी
आतर्जन्यायतकरा सर्वोपद्रवनाशिनी
अतिसूक्ष्मो ह्यतिक्रोधस्त्र्यक्षो भृंगिरिटिर्महान् सूर्यभक्तिकरो नित्यं शिवं ते संप्रयच्छतु
प्रचंडगणसैन्येशो महाघंटाक्षधारकः
चंडपापहरो नित्यं ब्रह्महत्या विनाशनः करोति च महायोगी कल्याणानां परंपराम्
आकाशमातरो दिव्यास्तथान्या देवमातरः शांतिं कुर्वंतु मे नित्यं मातरः सुरपूजिताः
ये रुद्रा रौद्रकर्माणो रौद्र स्थाननिवासिनः
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः सिद्धिं कुर्वंतु ते नित्यं भयेभ्यः पांतु सर्वतः
ऐंद्रादयो गणा ये तु वज्रहस्ता महाबलाः 1.178.