सूर्यार्चनपरो नित्यं शुक्रः शुक्लनिभस्तदा
नानारूपधरोव्यक्त अविज्ञातगतिश्च यः
एकचूलो द्विचूलश्च त्रिशिखः पंचचूलकः
सूर्यपुत्रोग्निपुत्रस्तु ब्रह्मविष्णुशिवात्मकः
एते ग्रहा महात्मानः सूर्यार्चनपराः सदा 1.175.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्याग्निकर्मणि पंचसप्तत्युत्तरशततमोऽध्यायः
सौरधर्मवर्णनम् कमण्डलुधरः श्रीमान्देवगंधर्वपूजितः
चतुर्मुखो देवपतिः सूर्यार्चनपरः सदा ब्रह्मशब्देन दिव्येन ब्रह्मा शांतिं करोतु ते
पीतांबरधरो देव आत्रेयीदयितः सदा
यज्ञदेहः क्रमो देव आत्रेयीदयितः सदा
सूर्यभक्तान्वितो नित्यं विगतिर्विगतत्रयः
शशिकुंदेंदुसंकाशो विश्रुताभरणैरिह
चतुर्मुखो भस्मधरः स्मशाननिलयः सदा
वरो वरेण्यो वरदो देवदेवो महेश्वरः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु षट्सप्तत्युत्तरशततमोऽध्यायः
अग्निकार्यविधिवर्णनम् अक्षमालार्पितकरा कमंडलुधरा शुभा
ब्रह्माणी सौम्यवदना आदित्याराधने रता
महाश्वेतेति विख्याता आदि त्यदयिता सदा
त्रिशूलहस्तावरणा विश्रुताभरणा सती वृषध्वजार्चनरता रुद्राणी शांतिदा भवेत्
मयूरवाहना देवी सिंदूरारुणविग्रहा
सूर्यभक्ता महावीर्या सूर्यार्चनरता सदा
गदाचक्रधरा श्यामा पीतांबरधरा खग
सूर्यार्चनपरा नित्यं सूर्यैकगतमानसा
ऐरावतगजारूढा वज्रहस्ता महा बला
सिद्धगंधर्वनमिता सर्वालंकारभूषिता 1.177.
वराहघोणा विकटा वराहवरवाहिनी
तेजयंतीति निमिषान्पूजयंती सदा रविम्
अर्धकोशा कटीक्षामा निर्मांसा स्नायुबंधनात्
कपालमालिनी क्रूरा खट्वांगवरधारिणी
गोश्रुताभरणा देवी प्रेतस्थाननिवासिनी चामुंडा चंडरूपेण सदा शांतिं करोतु ते