तृप्तिदं सर्वदेवानां भास्करप्रियमुत्तम्
देवालयस्य विधिवत्कुर्यादग्निप्रबोधनम्
भूर्भुवःस्वरिति स्वाहा प्रणवेन समन्वितम्
धराधराय शान्ताय सहस्राक्षिशिराय च
अधोमुखाय श्वेताय स्वाहा पूर्वाहुतिं सृजेत् । 1.175.
पद्मवर्णाय वेधाय कमण्डलुधराय च
हेमवर्णाय देहाय ऐरावतगताय च
देवाधिपाय चेन्द्राय विहस्ताय शुभाय च
दीप्ताय व्यक्तदेहाय ज्वालामालाकुलाय च
यमाय धर्मराजाय दक्षिणाशामुखाय च
नीलजीमूतवर्णाय रक्तांबरधराय च
शुक्लवस्त्राय पीताय दिव्यपाशधराय च
कृष्णपिंगलनेत्राय वायव्याभिमुखाय च
स्वाहेति पवनायेह आहुतिं चोत्सृजेद्बुधः
महोदराय शांताय स्वाहाधिपतये तथा 1.175.
श्वेताय श्वेतवर्णाय चित्राक्षाय महात्मने
ईशानाभिमुखायेह दद्यादीशाय चाहुतिम्
एवं देवं महात्मानं पावकं विधिवत्खग
लक्षहोमं च विधिवत्कृत्वा शांतिकमाचरेत्
महाहोमे च वै सौर एष एव विधिः परः
शांत्यर्थं सर्वलोकानां ततः शांतिकमाचरेत्
सहस्रकिरणो देवः सप्ताश्वरथवाहनः
करोतु ते महाशांतिं ग्रहपीडानिवारिणीम्
दशाश्ववाहनो देव आत्रेय श्चामृतस्रवः सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु
पद्मरागनिभो भौमो मधुपिंगल लोचनः 1.175.
पुष्परागनिभेनेह देहेन परिपिंगलः
तप्तगैरिकसंकाशः सर्वशास्त्रविशारदः
बृहस्पतिरिति ख्यात अर्थशास्त्रपरश्च यः
ग्रहपीडां विनिर्जित्य करोतु तव शांतिकम्
हिमकुंदेंदुवर्णाभो दैत्यदानवपूजितः