एवं मत्तस्य मे तात किं कार्यमवशिष्यते
तन्मे ब्रूहि खगश्रेष्ठ प्रपन्नस्य खगाधिप
सूर्याग्निकार्यं सततं शुद्धचित्तः समाचर
महाशांतिकरं ख्यातं सर्वोपद्रवनाशनम्
न चाग्निकार्यं शक्नोमि कर्तुं विकलतां गतः ।।1.175.१
तस्मान्मे कुरु शांत्यर्थमग्निकार्यं खगाधिप
अकल्पस्त्वं न शक्नोषि महाव्याधिप्रपीडितः
अहं करोमि ते पुत्र शांतये पावकार्चनम्
सर्वपापहरं पुण्यं महाविप्रविनाशनम्
अपमृत्युहरं वीर सर्वव्याधिहरं परम्
तृप्तिदं सर्वदेवानां भास्करप्रियमुत्तम्
देवालयस्य विधिवत्कुर्यादग्निप्रबोधनम्
भूर्भुवःस्वरिति स्वाहा प्रणवेन समन्वितम्
धराधराय शान्ताय सहस्राक्षिशिराय च
अधोमुखाय श्वेताय स्वाहा पूर्वाहुतिं सृजेत् । 1.175.
पद्मवर्णाय वेधाय कमण्डलुधराय च
हेमवर्णाय देहाय ऐरावतगताय च
देवाधिपाय चेन्द्राय विहस्ताय शुभाय च
दीप्ताय व्यक्तदेहाय ज्वालामालाकुलाय च
यमाय धर्मराजाय दक्षिणाशामुखाय च
नीलजीमूतवर्णाय रक्तांबरधराय च
शुक्लवस्त्राय पीताय दिव्यपाशधराय च
कृष्णपिंगलनेत्राय वायव्याभिमुखाय च
स्वाहेति पवनायेह आहुतिं चोत्सृजेद्बुधः
महोदराय शांताय स्वाहाधिपतये तथा 1.175.
श्वेताय श्वेतवर्णाय चित्राक्षाय महात्मने
ईशानाभिमुखायेह दद्यादीशाय चाहुतिम्
एवं देवं महात्मानं पावकं विधिवत्खग
लक्षहोमं च विधिवत्कृत्वा शांतिकमाचरेत्
महाहोमे च वै सौर एष एव विधिः परः