शाश्वतं शोभनं शुद्धं चित्रभानुं दिवस्पतिम्
सर्वदुःखहरं देवं सर्वदुःखहरं रविम्
वरेण्यं वरदं नित्यं प्रणतोऽस्मि विभावसुम्
देवेश्वरं देवरतं प्रणतोऽस्मि विभावसुम् स हि कीर्तिं परां प्राप्य पुनः सूर्यपुरं व्रजेत् ।। 1.174.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे सूर्यस्तुतिर्नाम चतुःसप्तत्युत्तरशततमोऽध्यायः
सूर्याग्निकर्मवर्णनम् ग्रहोपघातैर्विविधैरर्दिता ये च मानवाः
अरिभिः पीडिता ये च विनायकहताश्च ये
आदित्याराधनं मुक्त्वा नान्यच्छ्रेयस्करं परम्
तस्मादाराधयेन्नित्यं सर्वरोगविनाशनम्
शापेन ब्रह्मवादिन्याः पश्यांगं द्विजसत्तम
एवं मत्तस्य मे तात किं कार्यमवशिष्यते
तन्मे ब्रूहि खगश्रेष्ठ प्रपन्नस्य खगाधिप
सूर्याग्निकार्यं सततं शुद्धचित्तः समाचर
महाशांतिकरं ख्यातं सर्वोपद्रवनाशनम्
न चाग्निकार्यं शक्नोमि कर्तुं विकलतां गतः ।।1.175.१
तस्मान्मे कुरु शांत्यर्थमग्निकार्यं खगाधिप
अकल्पस्त्वं न शक्नोषि महाव्याधिप्रपीडितः
अहं करोमि ते पुत्र शांतये पावकार्चनम्
सर्वपापहरं पुण्यं महाविप्रविनाशनम्
अपमृत्युहरं वीर सर्वव्याधिहरं परम्
तृप्तिदं सर्वदेवानां भास्करप्रियमुत्तम्
देवालयस्य विधिवत्कुर्यादग्निप्रबोधनम्
भूर्भुवःस्वरिति स्वाहा प्रणवेन समन्वितम्
धराधराय शान्ताय सहस्राक्षिशिराय च
अधोमुखाय श्वेताय स्वाहा पूर्वाहुतिं सृजेत् । 1.175.
पद्मवर्णाय वेधाय कमण्डलुधराय च
हेमवर्णाय देहाय ऐरावतगताय च
देवाधिपाय चेन्द्राय विहस्ताय शुभाय च
दीप्ताय व्यक्तदेहाय ज्वालामालाकुलाय च
यमाय धर्मराजाय दक्षिणाशामुखाय च