तस्मात्कार्यं हि तद्ध्यानं यावज्जीवं प्रतिज्ञया
यस्तु संतिष्ठते नित्यं विना सूर्यस्य पूजनात्
सूर्यं संपूज्य भुञ्जीत त्रिदशेशं दिवाकरम् मनुष्यचर्मणा नद्धः स रविर्नात्र संशयः
न हि अर्कार्चनादन्यत्पुण्यमप्यधिकं भवेत् 1.174.
सूर्यभक्तागमाश्चैव सूर्यार्चनपरायणाः
सर्वद्वन्द्वसहा वीरा नीतिविध्युक्तचेतसः
अमानिनो बुद्धिमन्तोऽव्यक्तस्पर्धा गतस्पृहाः
स्वल्पवाचः सुमनसः शूराः शास्त्रविशारदाः
दंभमत्सरनिर्मुक्तास्तृष्णालोभविवर्जिताः
विषयेष्वपि निर्लेपाः पद्मपत्रमिवांभसा
भवंति भावितात्मानः सुस्निग्धाः साधुसेविताः
चपलानि न कुर्वंति सर्वव्यासंगवर्जिताः
इत्याचारसमायुक्ता भवंति भुवि मानवाः
पूजनीयो रविर्नित्यं गुणेष्वेतेषु वर्तते पतन्तं त्रायते यस्मादतीव नरकार्णवात् ।। 1.174.
तस्य पात्रातिपात्रस्य माहात्म्यं दानमण्वपि
द्रव्येणापि हि यः कुर्यान्नरः कर्म तदालये
सर्वद्विजकदंबेषु कश्चिज्ज्ञानमवाप्नुयात्
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः
सूर्यस्यालेपनं पुण्यं द्विगुणं चन्दनस्य तु
कृष्णागुरौ विशेषेण द्विगुणं फलमिष्यते
सूर्ययज्ञोपकरणं कृत्वाल्पं यदि वा बहु
यदपीष्टमनिष्टं च न्यायेनोभयमागतम्
कर्मशाठ्येन यः कुर्याद्दुःखेनापि तदर्चनम्
सर्वमन्यत्परित्यज्य सूर्ये चैकमना सदा 1.174.
त्वरितं जीवितं याति त्वरितं यौवनं तथा
यावन्नाभ्येति मरणं यावन्नाक्रमते जरा !
न सूर्यार्चनतुल्योपि न धर्मोन्यो जगत्त्रये
ये भक्त्या देवदेवेशं सूर्यं शांतमजं प्रभुम्
गोपतिं पूजयित्वा तु प्रहृष्टेनांतरात्मना
देवमार्गप्रणेतारं प्रणतोऽस्मि रविं सदा