सुचिरं संभ्रमत्यस्मिन्दुःखदे च भवार्णवे
मानुष्यं दुर्लभं प्राप्य येऽर्चयंति दिवाकरम्
सूर्यभक्तिपरा ये च ये च तद्गतमानसाः
विविधानि मनोज्ञानि विविधाभरणाः स्त्रियः
ये वांछन्ति महाभोगान्राज्यं वा त्रिदशा लये
सौन्दर्यं जगतः ख्यातिः कीर्तिर्धर्मादयः स्मृताः
तस्मात्संपूजयेत्सूर्यं सर्वदेवगणार्चितम्
दानं च दुर्लभं तस्मै तद्धोमश्च सुदुर्लभः
सुदुर्लभतरं ज्ञेयं तदाराधनमुत्तमम्
येषामिहेश्वरे भानौ नित्यं सूर्ये गतं मनः 1.173.
जिह्वाग्रे वर्तते यस्य सकलं तस्य जीवितम् ।। य एवं पूजयेद्भानुं श्रद्धया परयान्वितः। मुच्यते सर्वपापेभ्यः स नरो नात्र संशयः
डाकिन्यो विविधाकारा राक्षसाः सपिशाचकाः
शत्रवो नाशमायांति संग्रामे जयमाप्नुयात्
धनमायुर्यशो विद्या प्रभावो ह्यतुलं तथा
सूर्यस्तुतिवर्णनम् अरुण उवाच पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः
शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम्
सहस्राक्षोपि देवेश इन्द्रो भानुं तमोपहम्
मातरो देवगंधर्वाः पिशाचोरगराक्षसाः
सर्वमेतज्जगन्नित्यं भानौ देवे प्रतिष्ठितम्
यो न पूजयते सूर्यं भास्करं तमसूदनम्
तस्मात्कार्यं हि तद्ध्यानं यावज्जीवं प्रतिज्ञया
यस्तु संतिष्ठते नित्यं विना सूर्यस्य पूजनात्
सूर्यं संपूज्य भुञ्जीत त्रिदशेशं दिवाकरम् मनुष्यचर्मणा नद्धः स रविर्नात्र संशयः
न हि अर्कार्चनादन्यत्पुण्यमप्यधिकं भवेत् 1.174.
सूर्यभक्तागमाश्चैव सूर्यार्चनपरायणाः
सर्वद्वन्द्वसहा वीरा नीतिविध्युक्तचेतसः
अमानिनो बुद्धिमन्तोऽव्यक्तस्पर्धा गतस्पृहाः
स्वल्पवाचः सुमनसः शूराः शास्त्रविशारदाः
दंभमत्सरनिर्मुक्तास्तृष्णालोभविवर्जिताः
विषयेष्वपि निर्लेपाः पद्मपत्रमिवांभसा