शंखं ददाति यो भक्त्या तथा दिव्ये च पादुके
लिखापयति यो भक्त्या पुराणेन तु पुस्तकम्
भवेदिहागतः श्रीमान्सुखाढ्यो वेदपारगः
तत्सूर्यो भोजकः सोत्र भोजकः सूर्य एव हि 1.172.
यद्यद्यस्योपयुज्येत देयं तत्तस्य यत्नतः
व्याख्याने सौरधर्मस्य कृत्वा आमलकं महत्
शोभितं माल्यगन्धैस्तु सूर्यस्य साधनं महत् सूर्यवत्सौरधर्मे च तुल्यमेतद्द्वयं वचः
य एवं न्यायतो वक्ति सौरधर्मं शृणोति च वदंत्यन्ये पिबंत्यन्ये सर्वे ते फलभागिनः
तस्मादेवंविधो धर्मो वाचकैश्च विदुर्बुधाः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे द्विसप्तत्युत्तरशततमोऽध्यायः
सौरधर्मवर्णनम् समासात्कथितं ब्रह्मन्विस्तरेण प्रकीर्तय
त्वत्समो नास्ति लोकेऽस्मिन्सौरः पार्थिवसत्तम
कीर्तयाम्यथ तं पुण्यं संवादं पापनाशनम्
सुखासीनं पुरा राजन्नरुणं सूर्यसारथिम्
धर्माणामुत्तमं धर्मं सर्वपापप्रणाशनम्
श्रोतुकामोऽसि यत्पुत्र सौरधर्ममनुत्तमम्
शृणु त्वं कीर्तयाम्येष सुखोपायं महत्फलम्
अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम्
ये स्मरंति रविं भक्त्या कीर्तयंति च ये खग
आत्मद्रोहः कृतस्तेन जातेनेह खगाधिप 1.173.
सुचिरं संभ्रमत्यस्मिन्दुःखदे च भवार्णवे
मानुष्यं दुर्लभं प्राप्य येऽर्चयंति दिवाकरम्
सूर्यभक्तिपरा ये च ये च तद्गतमानसाः
विविधानि मनोज्ञानि विविधाभरणाः स्त्रियः
ये वांछन्ति महाभोगान्राज्यं वा त्रिदशा लये
सौन्दर्यं जगतः ख्यातिः कीर्तिर्धर्मादयः स्मृताः
तस्मात्संपूजयेत्सूर्यं सर्वदेवगणार्चितम्
दानं च दुर्लभं तस्मै तद्धोमश्च सुदुर्लभः
सुदुर्लभतरं ज्ञेयं तदाराधनमुत्तमम्
येषामिहेश्वरे भानौ नित्यं सूर्ये गतं मनः 1.173.