एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् अहोरात्रं न भुञ्जीत ह्युपवासस्य लक्षणम्
चत्वारिंशत्समायुक्तं पिंडानां हि शतद्वयम्
ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेंद्रियैः
सूर्यावांतरस्थानानि पुण्यक्षेत्राणि निर्दिशेत् 1.172.
दानान्यावसथं कुर्यादुद्यानं देव तागृहम्
क्षान्तिः स्पृहा तथा सत्यं दानं शीलं तपः श्रुतम्
यज्ञोपवासदानानि तपस्तीर्थर्फलानि च
सूरे भक्तिः क्षमा सत्यं दशेंद्रियविनिग्रहः
सूर्यभक्तं द्विजं भक्त्या यः श्राद्धेषु च भोजयेत्
बहुनात्र किमुक्तेन सूर्यभक्तं तु भोजयेत्
न वेदविदुषां कोट्या लभ्यते चेह तत्फलम्
तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च
असंयतः संयतो वा सर्वावस्थां गतोपि वा
संसर्गाद्वापि वा लोभाद्भोजकं यस्तु भोजयेत् 1.172.
तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा
नाममात्रप्रयत्नोऽपि यदि स्याद्भोजको रवेः
गृहे श्राद्धस्य यत्पुण्यमरण्ये तच्छताधिकम्
दत्त्वा तु भोजके सौम्यं ह्यासनं सपरिच्छदम्
विमले वाससी दत्त्वा भोजकाय महीपते
दत्त्वा तु लोमशां राजन्भोजकाय शुभां बृहत्
शंखं ददाति यो भक्त्या तथा दिव्ये च पादुके
लिखापयति यो भक्त्या पुराणेन तु पुस्तकम्
भवेदिहागतः श्रीमान्सुखाढ्यो वेदपारगः
तत्सूर्यो भोजकः सोत्र भोजकः सूर्य एव हि 1.172.
यद्यद्यस्योपयुज्येत देयं तत्तस्य यत्नतः
व्याख्याने सौरधर्मस्य कृत्वा आमलकं महत्
शोभितं माल्यगन्धैस्तु सूर्यस्य साधनं महत् सूर्यवत्सौरधर्मे च तुल्यमेतद्द्वयं वचः
य एवं न्यायतो वक्ति सौरधर्मं शृणोति च वदंत्यन्ये पिबंत्यन्ये सर्वे ते फलभागिनः
तस्मादेवंविधो धर्मो वाचकैश्च विदुर्बुधाः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे द्विसप्तत्युत्तरशततमोऽध्यायः