दैवपर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च
पितरः सर्वदेवानां सूर्यमाश्रित्य संस्थिताः
यदा च श्रद्धया युक्तं प्रसक्तं रविपूजनम्
भोजकस्य महाराज दिवसेनापि यत्फलम् 1.172.
यः पश्यति प्रसन्नात्मा यो न द्वेष्टि न कांक्षति
ज्ञानविज्ञानसम्पन्नः सूर्यभक्त्या समन्वितः
सूर्यधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः
सूर्ययोगाच्च सर्वज्ञः परिपूर्णः सुनिर्वृतः
सर्वेषामेव भूतानामुत्तमः पुरुषः स्मृतः
ग्रन्थिभ्यो वेदविद्वांसस्तेभ्यस्त त्त्वार्थचिंतकाः
ज्ञानार्थकोटिकोटिभ्यो वरिष्ठा योगिनो मताः
योगज्ञा योगनिष्ठाश्च पितरो योगसंभवाः
सर्वज्ञानतपोदानैः कृतैर्दत्तैश्च यत्फलम्
यश्च द्रव्यकलापात्मा दक्षिणा हविर्ऋत्विजः 1.172.
ब्रह्मचर्यं तपो मौनं क्षांतिराहारलाघवम्
यच्च दिष्टं विशिष्टं च न्यायप्राप्तं च यद्भवेत
विवर्धनीं सहस्राणां सर्वसस्यप्ररोहिणीम्
एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत्
कन्यामलंकृतां दद्यादधनाय नराधिपा। द्विजाय वेदविदुषे कन्यादानं तदुच्यते
सर्वदोषविनिर्मुक्तां कुलयोग्यामलंकृताम्
एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् अहोरात्रं न भुञ्जीत ह्युपवासस्य लक्षणम्
चत्वारिंशत्समायुक्तं पिंडानां हि शतद्वयम्
ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेंद्रियैः
सूर्यावांतरस्थानानि पुण्यक्षेत्राणि निर्दिशेत् 1.172.
दानान्यावसथं कुर्यादुद्यानं देव तागृहम्
क्षान्तिः स्पृहा तथा सत्यं दानं शीलं तपः श्रुतम्
यज्ञोपवासदानानि तपस्तीर्थर्फलानि च
सूरे भक्तिः क्षमा सत्यं दशेंद्रियविनिग्रहः
सूर्यभक्तं द्विजं भक्त्या यः श्राद्धेषु च भोजयेत्
बहुनात्र किमुक्तेन सूर्यभक्तं तु भोजयेत्