न हीदृक्स्वर्गयानाय यथा लोके प्रियं वचः
अमृतस्यंदिनी वाचं चंदनस्पर्शशीतलाम्
अलं दानेन राजेंद्र पूजयाध्यापनेन वा 1.171.
पूजाभिभाषणं दृष्टिः प्रत्येकं स्वर्गहेतवः
गमने तस्य वक्तव्यं पंथानः संतु ते शिवाः
आशीर्वादमिदं वाक्यं सर्वकालेषु सर्वदा
शिवं भवतु ते नित्यं तं ब्रूयात्सर्वकर्मसु
अशेषपाप निर्मुक्तः सूर्यलोके महीयते सूर्ये भक्तिसमा नित्यं भक्ते भक्तिरनुष्ठिता
आक्रुष्टे ताडिते वापि यो नाक्रोशेन्न ताडयेत्
सर्वेषामेव तीर्थानां क्षांतिः परमपूजिता
ज्ञानयोगतपो यस्य यज्ञदानानि सत्क्रिया
मर्मास्थिप्राणहृदयं निर्दहेदप्रियंवचः
क्षमा दानं त्विषः सत्यं क्षमाहिंसार्कसंभवाः 1.171.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भोजकभोजनानु ष्ठानवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः
सौरधर्मवर्णनम् सौरप्रियं सदा सौरं पवित्रं पापनाशनम्
क्वचिद्गच्छन्यदा पश्येत्सूर्यार्चासंप्रपूजनम्
स्नाननैवेद्यवस्त्रैश्च नानालंकारभूषणैः
दृष्ट्वायतनमाक्रम्य नमस्कृत्य रविं व्रजेत्
उपश्रुत्यावनिं गत्वा भोजकं पूजयेद्बुधः मगानां भोजनं भक्त्या शक्त्या दानं प्रकल्पयेत्
दशपूर्वान्दश परानात्मना सह भारत
दैवपर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च
पितरः सर्वदेवानां सूर्यमाश्रित्य संस्थिताः
यदा च श्रद्धया युक्तं प्रसक्तं रविपूजनम्
भोजकस्य महाराज दिवसेनापि यत्फलम् 1.172.
यः पश्यति प्रसन्नात्मा यो न द्वेष्टि न कांक्षति
ज्ञानविज्ञानसम्पन्नः सूर्यभक्त्या समन्वितः
सूर्यधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः
सूर्ययोगाच्च सर्वज्ञः परिपूर्णः सुनिर्वृतः
सर्वेषामेव भूतानामुत्तमः पुरुषः स्मृतः
ग्रन्थिभ्यो वेदविद्वांसस्तेभ्यस्त त्त्वार्थचिंतकाः