मुंडोपनयनो व्यंगी शुक्लवासः समन्वितः
अथाव्यंगो महाराज धारयेद्यस्तु भोजकः
ध्वंसनं सर्वदुष्टानां सर्वपाप भयापहम् 1.171.
गंधलेपविहीनोऽपि भावशुद्धो न दुष्यति
दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत्
सर्व एवाश्रमा ज्ञेया भास्करांगसमुद्भवाः
सर्वव्रतानां परमं धर्मालयमनुत्तमम्
संतोषः सत्यमस्तेयं ब्रह्मचर्यं तथाष्टमम्
सौरभक्तिः सदा कार्या भोजकेषु विशेषतः
भयदारिद्र्यरोगेभ्यस्तेषां कुर्यात्प्रियाणि वै
यत्कृतं भोजकानां वै तत्कृतं स्याद्रवेर्नृप
स च प्रयत्नाद्द्रष्टव्यस्तत्र संनिहितो रविः
आज्ञां कृत्वा यथान्यायमश्वमेधफलं लभेत् 1.171.
स्वागतासनपाद्यार्घ्यमधुपर्काद्यनुक्रमात्
प्रतिश्रयप्रदानेन राजा भवति भारत
श्वेतबिंदुपरीतांगं ध्यानश्रमविकर्शितम्
क्षुत्पिपासातुरं श्रांतं मलिनं रोगिणं तथा
पतिताशस्तसंकीर्णचंडालादीनां पक्षिणाम्
अत्यल्पमपि कारुण्याद्दत्तं भवति चाक्षयम्
अभावे तृणभूम्यन्नं पत्रं धनफलानि च
न हीदृक्स्वर्गयानाय यथा लोके प्रियं वचः
अमृतस्यंदिनी वाचं चंदनस्पर्शशीतलाम्
अलं दानेन राजेंद्र पूजयाध्यापनेन वा 1.171.
पूजाभिभाषणं दृष्टिः प्रत्येकं स्वर्गहेतवः
गमने तस्य वक्तव्यं पंथानः संतु ते शिवाः
आशीर्वादमिदं वाक्यं सर्वकालेषु सर्वदा
शिवं भवतु ते नित्यं तं ब्रूयात्सर्वकर्मसु
अशेषपाप निर्मुक्तः सूर्यलोके महीयते सूर्ये भक्तिसमा नित्यं भक्ते भक्तिरनुष्ठिता
आक्रुष्टे ताडिते वापि यो नाक्रोशेन्न ताडयेत्
सर्वेषामेव तीर्थानां क्षांतिः परमपूजिता