संज्ञादेवीसमायुक्तं पैष्टाशाढ्यं निवेदयेत्
संपूज्य गंधपुष्पाद्यैर्वस्त्रालंकारचामरैः
तदूर्णातूलवस्त्राणां परिसंख्या तु यावती
सुरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः
दश गोभिः सह वृषं ता वृषैकादशाः स्मृताः
द्वादशादित्यतुल्यात्मा अणिमादिगुणैर्युतः
गोदानवर्णनम् त्रिःसप्तकुलजैः सार्धं शृणु यत्फलमाप्नुयात्
वरकोटिप्रतीकाशैः सर्वकामसमन्वितैः
द्वादशादित्यसंकाशो दिवाकर इवापरः
भुक्त्वा तु विपुलान्भोगान्प्रलये सर्वदेहिनाम्
सर्वज्ञः सूरपरमः शुद्धः स्वात्मन्यवस्थितः
यो दद्यादुभयमुखीं सौरभेयीं दिवाकरे पादद्वयं शिरोऽर्धं च सशैलवनकानना
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गोदानवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः
भोजकभोजनानुष्ठानवर्णनम् फलं च किं भवेद्ब्रह्मन्मगधर्मनिषेवणात्
मगधर्मः स एवोक्तः सर्वपापभयापहः
सर्वेषामेव वर्णानां मगधर्मनिषेवणम्
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रो वा मगाश्रमी
त्रिसंध्यमर्चयेद्भानुमग्निकार्यं च शक्तितः
त्रिसंध्यमेककालं वा पूजयेच्छद्धया रविम्
एष धर्मः परो ज्ञेयः शेषो भवति मानवः
देवं समाश्रितैः पूजा कर्तव्येयं त्रिभिः सदा
देवार्थपुष्पहिंसायां न भवेत्तस्य हिंसकः
मगश्चाग्निपरो नित्यं तद्भक्तोऽतिथिपूजकः 1.171.
देवाग्निस्वतिथौ भक्तं पचते चात्मकारणात्
देवार्थे पचनं येषां संतानार्थं तु मैथुनम्
जीवतृतीयभागेपि न प्रकुर्वीत वार्चनम्
न्यायोपार्जितवित्तः स्यादन्यायं परि वर्जयेत्
वाचोर्थे ब्रह्मचारी यः सूर्यपूजाग्नितत्परः
सर्वगंधविनिर्मुक्तः कंदमूलफलाशनः
निवृत्तः संगमेभ्यस्तु सूर्यध्यान रतः सदा