तंडुलाढकपिष्टेन कृत्वा भानुं नराधिप
तं रात्रौ राजमार्गेण शंखभेर्यादिनिस्वनैः
तत्र जागरपूजाभिः प्रदीपावलिशोभितैः
प्रभाते स्नपनं कृत्वा मधुक्षीरघृतेन च
रथं संवाहनोपेतं भास्कराय निवेदयेत्
सर्वव्रतानां प्रवरं मंत्रधर्मान्वितः सदा 1.169.
सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात्
पंचबलिसमायुक्तं मृदु षड्वास्तुकल्पितम्
संज्ञादेवीसमायुक्तं पैष्टाशाढ्यं निवेदयेत्
संपूज्य गंधपुष्पाद्यैर्वस्त्रालंकारचामरैः
तदूर्णातूलवस्त्राणां परिसंख्या तु यावती
सुरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः
दश गोभिः सह वृषं ता वृषैकादशाः स्मृताः
द्वादशादित्यतुल्यात्मा अणिमादिगुणैर्युतः
गोदानवर्णनम् त्रिःसप्तकुलजैः सार्धं शृणु यत्फलमाप्नुयात्
वरकोटिप्रतीकाशैः सर्वकामसमन्वितैः
द्वादशादित्यसंकाशो दिवाकर इवापरः
भुक्त्वा तु विपुलान्भोगान्प्रलये सर्वदेहिनाम्
सर्वज्ञः सूरपरमः शुद्धः स्वात्मन्यवस्थितः
यो दद्यादुभयमुखीं सौरभेयीं दिवाकरे पादद्वयं शिरोऽर्धं च सशैलवनकानना
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गोदानवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः
भोजकभोजनानुष्ठानवर्णनम् फलं च किं भवेद्ब्रह्मन्मगधर्मनिषेवणात्
मगधर्मः स एवोक्तः सर्वपापभयापहः
सर्वेषामेव वर्णानां मगधर्मनिषेवणम्
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रो वा मगाश्रमी
त्रिसंध्यमर्चयेद्भानुमग्निकार्यं च शक्तितः
त्रिसंध्यमेककालं वा पूजयेच्छद्धया रविम्
एष धर्मः परो ज्ञेयः शेषो भवति मानवः