इंद्रनीलप्रतीकाशैर्विमानैः सार्वकामिकैः
तथा च सर्वलोकेषु भोगमासाद्य यत्नतः
इत्येवं सर्वयज्ञेषु विधिस्तुल्यः प्रकीर्तितः
क्षमा सत्यं दया दानं शौचमिंद्रियनिग्रहः
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः
मार्गशीर्षे शुभे मासि व्योमपृष्ठे विनिर्मितम्
ताम्रपात्रादिकैश्चैवाप्यप्सरोगणसेवितैः 1.168.
सर्वदेवकदंबेषु संप्राप्य विमलां श्रियम् पुष्पैरमुमलंकृत्य भानवे विनिवेदयेत्
गंधमाल्यैरलंकृत्य शुभाननमनौप मम्
महापुष्पकयानेन दिव्यगंधप्रवाहिना
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेषु भारत
माघे रथमश्वयुजं दीपमाल्यविभूषितम्
महारथोपमैर्यानैः श्वेताश्ववरसंयुतैः
सर्वामराणां लोकेषु प्राप्य भोगान्यथेप्सितान्
प्रतिमां फाल्गुने मासि कृत्वा पिष्टमयी रवेः
यानैरप्रतिमैर्दिव्यैर्गीतनादसमाकुलैः
सर्वाभिमतलोकेऽस्मिन्प्राप्य भोगान्यथेप्सितान् 1.168.
कृत्वारुणं तथा चैत्रे गंधमाल्योपशोभितम्
शरदिंदुप्रतीकाशैर्विमानैः सार्वकामिकैः
कर्मक्षयादिहागत्य पुत्रपौत्रसमन्वितम्
तंडुलाढकपिष्टेन कृत्वा वै मेरुपर्वतम् २४ नानालंकारसंपन्नं नानामाल्यविभूषितम्
महद्व्योमव्रतं ह्येतद्वैशाखे यः समाचरेत्
सौरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः
द्वितीयं च तथा पद्ममाषाढे पिष्टमुत्तमम् नानाकेशरगंधाढयं सर्वरत्नविभूषितम्
एतैर्वा हैमभिर्यानैः सर्वभोगान्वितैर्नृप
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् 1.168.
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम्
स्वच्छंदगामिभिर्यानैर्नाना वर्णविभूषितैः
संप्राप्य विविधान्भोगान्बह्वाश्चर्यसमन्वितान्
कृत्वा भाद्रपदे मासि व्योम शालिमयं नृप