द्वादशादित्यसंकाशैर्महायानैर्नगोपमैः 1.166.
वर्षकोटिसहस्राणि वर्षकोटिशतानि च
ततः कर्मविशेषेण सर्वकामसमन्वितम्
ब्रह्मलोकात्परिभ्रष्टः श्रीमान्त्सुरसुपूजितः
लोकानिह चिरं भुक्त्वा सोमलोके महीयते
इंद्रलोकाच्च गंधर्वलोकं प्राप्य स मोदते
स्वकर्मभावनोद्योगात्पुनः प्रारभते शुभम्
यावन्नाप्नोति मरणं तावद्भ्रमति कर्मणा
ज्ञानात्प्रवर्तते योगो योगाद्दुःखांतमाप्नुयात्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे निक्षुभाव्रतवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः
निक्षुभार्कव्रतवर्णनम् वर्षमेकं न भुंक्ते या महाभागजिगीषया
वर्षांति प्रतिमां कृत्वा निक्षुभांकेति विश्रुताम् ।! स्नानाद्यं च विधिं कृत्वा पूर्वोक्तं लभते गुणम्
जांबूनदमयैर्यानैश्चतुर्द्वारैरलंकृते
सौरादिसर्वलोकेषु भोगान्भुक्त्वा यथेप्सितान्
या नार्युपवसेदेवं कृष्णामेकां तु सप्तमीम्
वर्षांते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् पूर्वोक्तमखिलं कृत्वा भास्कराय निवेदयेत्
सप्तभीमैर्महायानैर्दंतिचामीकरप्रभैः
सौरलोकादिलोकेषु भुक्त्वा भोगान्नराधिप सर्वलक्षणसंपन्नं धनधान्यसमन्वितम्
कृष्णपक्षे तु सप्तम्यां या नारी तु दृढव्रता
वर्षांते सर्वगंधाढ्यं निक्षुभार्कं निवेदयेत् 1.167.
सुविचित्रैर्महायानैर्दिव्यगंधर्वशोभितैः
यथेष्टं भानवे लोके भोगान्भुक्त्वा तु कृत्स्नशः
एवं या कुरुते राजन्व्रतं पापभयापहम्
वर्षमेकं महाबाहो श्रद्धया परयान्वितः
भोजयित्वा तु दांपत्यं भोगकानां महाबलैः
कृत्वा ताम्रमये पात्रे वज्रपूर्णैरलंकृतम्
निक्षुभा भोजिका ज्ञेया भोजकोऽर्कः प्रकीर्तितः
कामप्रदस्त्रीव्रतवर्णनम् क्षमाहिंसादिनियमैः संयता ब्रह्मचारिणी
गुडाज्यमिश्रं शाल्यन्नं भास्कराय निवेदयेत्
पुष्पाणां करवीराणां गुग्गुलं साज्यमादिशेत्