दद्याद्गां पद्मवर्णाभां ,भानवेऽमिततेजसे
स्वस्तिमौक्तिकसंकाशैरिंद्रनीलोपशोभितैः गच्छेद्भानुसलोकत्वं भुञ्जानः स जितेन्द्रियः
दिवाकराय गां दद्याज्वलनार्कसमप्रभाम्
कालानलशिखप्रख्यैर्महायानैर्नगोपमैः
मार्गशीर्षे शुभे मासि यः कुर्यान्नक्तभोजनम्
प्रयच्छेद्गां तथा रक्तां नानालंकारभूषिताम् 1.165.
सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः
अहिंसासत्यवचनमस्तेयं क्षांतिरार्जवम्
पक्षयोरुभयोर्मार्गे सप्तम्यां कुरुनंदन
सप्तम्योभयविख्यातं सर्वपापभयापहम्
इत्येवमादीन्नियमांश्चरेत्सूर्यव्रती सदा
सौरधर्मे निक्षुभाव्रतवर्णनम् सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्
निक्षुभार्काख्यमाख्यातं सदा प्रीतिविवर्धनम्
सप्तम्यामथ षष्ठ्यां वा संक्रांतौ च रवेर्दिने
निक्षुभां कांस्यनिष्पन्नां कृत्वा स्वर्णमयीं शुभाम्
गंधमाल्यैरलंकृत्य वस्त्रयु ग्मैश्च शोभनैः
भोजयेत्सूर्यभक्तांश्च शुक्लवस्त्रावगुण्ठितान्
कृत्वा शिरसि तत्पात्रं वितानच्छत्रशोभितम्
निक्षुभार्कदिनेशस्य व्रतमेतन्निवेदयेत्
प्रदक्षिणीकृत्य रविं प्रणिपत्य क्षमापयेत्
द्वादशादित्यसंकाशैर्महायानैर्नगोपमैः 1.166.
वर्षकोटिसहस्राणि वर्षकोटिशतानि च
ततः कर्मविशेषेण सर्वकामसमन्वितम्
ब्रह्मलोकात्परिभ्रष्टः श्रीमान्त्सुरसुपूजितः
लोकानिह चिरं भुक्त्वा सोमलोके महीयते
इंद्रलोकाच्च गंधर्वलोकं प्राप्य स मोदते
स्वकर्मभावनोद्योगात्पुनः प्रारभते शुभम्
यावन्नाप्नोति मरणं तावद्भ्रमति कर्मणा
ज्ञानात्प्रवर्तते योगो योगाद्दुःखांतमाप्नुयात्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे निक्षुभाव्रतवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः