माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम्
सोपवासश्च सप्तम्यां भवेदुभयपक्षयोः गां च दयाद्दिनेशाय तरुणीं नीलसंनिभाम्
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुतैः
राजेंद्र फाल्गुने मासि यः कुर्यान्नक्तभोजनम्
षष्ठ्यां वाप्यथ सप्तम्यामुपवासपरो नरः
वल्मीकजादिमृद्भिश्च गोमूत्रशकृदादिभिः 1.165.
सौरभेयीं ततो दद्याद्रक्ताभां रक्तमालिने गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः
मासि चैत्रे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् भानवे पाटलां दद्याद्वैष्णवीं तरुणीं नृप
पुष्पराग प्रभैर्यानैर्नानाहंसादियायिभिः
वैशाखे वीरमासे तु यः कुर्यान्नक्तभोजनम्
गां च दद्यान्महाराज भास्कराय शुभानन
शुद्धस्फटिकसंकाशैर्यानैर्बर्हिणवाहनैः
संप्राप्ते श्रावणे मासि यः कुर्यान्नक्तभोजनम्
पीतवर्णां च गां दद्याद्भास्कराय महात्मने
स विचित्रैर्महायानैर्हंससारसगामिभिः
वीर भाद्रपदे मासि यः कुर्यान्नक्तभोजनम् 1.165.
स्वप्यादायतने रात्रौ सर्वभूतानुकम्पकः
निशाकरकरप्रख्यैर्वज्रवैदूर्यसन्निभैः
गत्वादित्यपुरं रम्यं सुरासुरसुवन्दितम्
श्रीमानाश्वयुजे मासि यः कुर्यान्नक्तभोजनम्
दद्याद्गां पद्मवर्णाभां ,भानवेऽमिततेजसे
स्वस्तिमौक्तिकसंकाशैरिंद्रनीलोपशोभितैः गच्छेद्भानुसलोकत्वं भुञ्जानः स जितेन्द्रियः
दिवाकराय गां दद्याज्वलनार्कसमप्रभाम्
कालानलशिखप्रख्यैर्महायानैर्नगोपमैः
मार्गशीर्षे शुभे मासि यः कुर्यान्नक्तभोजनम्
प्रयच्छेद्गां तथा रक्तां नानालंकारभूषिताम् 1.165.
सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः
अहिंसासत्यवचनमस्तेयं क्षांतिरार्जवम्
पक्षयोरुभयोर्मार्गे सप्तम्यां कुरुनंदन
सप्तम्योभयविख्यातं सर्वपापभयापहम्