कृत्वा स्नानं महापूजां सूर्यदेवस्य भास्त
भोजयेच्च द्विजानष्टौ भगार्चा शुभलक्षणाम्
य एवं कुरुते पुण्यं सूर्यस्य व्रतमुत्तमम्
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः
संगीतनृत्यवाद्याद्यैर्गंधर्वगणशोभितैः
सहस्रकिरणाभासः सौरैः सूर्यसमन्वितैः 1.165.
रोमसंख्या तु या तस्यास्तत्प्रसूतिः कुलेषु च
त्रिःसप्तकुलजैः सार्धं भोगान्भुक्त्वा यथेप्सितान्
योगाद्दुःखांतमाप्नोति ज्ञानयोगं प्रवर्तते
इत्येवं ते समाख्यातं भवार्णवव्यपोहनम्
माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम्
सोपवासश्च सप्तम्यां भवेदुभयपक्षयोः गां च दयाद्दिनेशाय तरुणीं नीलसंनिभाम्
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुतैः
राजेंद्र फाल्गुने मासि यः कुर्यान्नक्तभोजनम्
षष्ठ्यां वाप्यथ सप्तम्यामुपवासपरो नरः
वल्मीकजादिमृद्भिश्च गोमूत्रशकृदादिभिः 1.165.
सौरभेयीं ततो दद्याद्रक्ताभां रक्तमालिने गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः
मासि चैत्रे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् भानवे पाटलां दद्याद्वैष्णवीं तरुणीं नृप
पुष्पराग प्रभैर्यानैर्नानाहंसादियायिभिः
वैशाखे वीरमासे तु यः कुर्यान्नक्तभोजनम्
गां च दद्यान्महाराज भास्कराय शुभानन
शुद्धस्फटिकसंकाशैर्यानैर्बर्हिणवाहनैः
संप्राप्ते श्रावणे मासि यः कुर्यान्नक्तभोजनम्
पीतवर्णां च गां दद्याद्भास्कराय महात्मने
स विचित्रैर्महायानैर्हंससारसगामिभिः
वीर भाद्रपदे मासि यः कुर्यान्नक्तभोजनम् 1.165.
स्वप्यादायतने रात्रौ सर्वभूतानुकम्पकः
निशाकरकरप्रख्यैर्वज्रवैदूर्यसन्निभैः
गत्वादित्यपुरं रम्यं सुरासुरसुवन्दितम्
श्रीमानाश्वयुजे मासि यः कुर्यान्नक्तभोजनम्