योब्दमेकं तु कुर्वीत नक्तं भगदिने नरः अयाचितात्परं नक्तं तस्मन्नाक्तेन वर्तयेत्
देवैस्तु भुक्तं मध्याह्ने पूर्वाह्णे ऋषिभिस्तथा 1.164.
सर्वा वेला ह्यतिक्रम्य सौराणां भोजनं परम्
भगलोकमवाप्नोति सुमनाः सुमनोव्रतः
हविष्यभोजनं स्नानमाहारस्य च लाघवम्
कृष्णषष्ठ्यां प्रयत्नेन कृत्वा नक्तं विधानतः
विधिवत्प्राश्य गोमूत्रमनाहारो निशि स्वपेत्
पुष्येप्येवं सहस्रांशुं भानुमंतमुशंति च
माघे दिवाकरं नाम कृष्णषष्ठ्यां नरोत्तम
मार्तंडं फाल्गुने मासि पूजयित्वा गवां पयः
चैत्रे मासि विवस्वंतं पूजयित्वा सुभक्तिमान्
वैशाखे चण्डकिरणं पूजयेच्च पयोव्रतः 1.164.
ज्येष्ठे दिवस्पतिं पूज्य गवां शृंगोदकं पिबेत्
आषाढे त्वर्कनामानमिष्ट्वा प्राश्य च गोमयम्
श्रावणेऽर्यमनामानं पूजयित्वा पयः पिबेत्
मासि भाद्रपदे षष्ठ्यां भास्करं नाम पूजयेत्
मासि चाश्वयुजे षष्ठ्यां भगाख्यं नाम पूजयेत्
मासे तु कार्तिके षष्ठ्यां शक्राख्यं नाम पूजयेत्
वर्षांते भोजयेद्विप्रान्सूर्यभक्तिपरायणान्
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत्
वर्षमेकं च देवे वै नैरंतर्येण यो नयेत्
सर्वपापविनिर्मुक्तः सर्वकामसमन्वितः 1.164.
पुण्येष्वहःसु सर्वेषु विषुवद्ग्रहणादिषु
कृष्णषष्ठीव्रतं पुण्यं सर्वपापभयापहम्
कृत्वेदं पुरुषो भक्त्या भास्करस्य महात्मनः
इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सूर्यषष्ठीव्रतवर्णनं नाम चतुःषष्ट्युत्तरशततमोध्यायः
उभयसप्तमीवर्णनम् धर्मकामार्थमोक्षाणां प्रतिपादनमुत्तमम्
पौषमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम्
पक्षयोः सप्तमीं यत्नादुपवासेन यापयेत्
अधःशायी भवेन्नित्यं सर्वभोगविव र्जितः