प्रणम्य दंडवद्भूमौ नमस्कारेण योऽर्चयेत्
सर्वयज्ञोपवासेपु सर्वतीर्थेषु यत्फलम् 1.164.
श्वेतं महाध्वजं कृत्वा कृत्वा चापं च रंगकम् यस्त्वर्यम्णे नरो दद्याच्छ्रद्धया परयान्वितः
स शतेन विमानानां सर्वदेव नमस्कृतः
ध्वजमालाकुलं कुर्याद्यः प्रांतेषु भगालयम्
स विमानसहस्रेण ध्वजमालाकुलेन तु
शतचन्द्रांशुविमलं मुक्तादामोपशोभितम्
स धार्यमाणच्छत्रेण हेमदंडोपशोभिना
ततस्तस्माच्च्युतो लोकान्निसर्गाद्भुवमागतः
यः शृंखलासमायुक्तां महाघण्टां महास्वनाम्
शोभनः स्यान्नरः श्रीमान्भगस्यातीव वल्लभः
भेरीमृदंगपटहझर्झरीमर्दलादिकम् 1.164.
स विमानैर्महाभागेर्वंशवीणायुतस्वनैः
सुसंगीतकदानेन सवाद्येन विशेषतः
महामहास्वनं दत्त्वा शंखयुग्मं भगालये
विमानं बहुवर्णाभं मध्ये पंकजभूषितम्
किंकिणीजालसंपन्नं वर्णकैश्चोपशोभितम्
भगस्योपरि यो दद्यात्सर्वरत्नोपशोभितम्
पट्टादिवस्त्रतंतूनां परिसंख्या तु या भवेत्
भगाहुत्या जगत्सर्वं सृष्टिद्वारेण धार्यते
यस्त्वग्निकार्यं(य?) विधिवत्कुर्यान्नित्यं भगालये
सर्वान्नं यावकोपेतं यस्तु नित्यविधिं हरेत् 1.164.
महाश्वेतादिमातॄणां त्रिकल्पानां च सर्वशः स नरश्च सहस्राणि शांडिलेयपुरे वसेत्
सौरसंध्याबलिं कृत्वा दिनांते सततं रवेः
दध्योदनपयोभिर्यः पूरितं पात्रमावृतम्
शिरसा धारयेत्पात्रं शनैर्गच्छेत्प्रदक्षिणम्
दर्पणैर्धूपमालाभिर्गेयनृत्यादिशोभितम्
दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा
भगभक्तिप्रसन्नात्मा यद्यपि स्यात्स पापकृत्
कृष्णां तु षष्ठीं नक्तेन यश्च कृष्णां च सप्तमीम्