कृष्णागुरुभवं धूपं तुषाग्निरिव कांचनम्
कपाटद्वारकुड्यादितिर्यगूर्ध्वं सवेदिकम् 1.164.
तस्य पुण्यं यथावत्तु युवयोर्वच्मि कृत्स्नशः
कल्पकोटिशतं दिव्यं तेजसा वह्निसन्निभः
तस्यांते धर्मशेषेण त्रैलोक्या धिपतिर्भवेत्
स सर्वशर्मसंयुक्तः सूर्यतुल्यपराक्रमः
तद्वच्छुक्लैश्च संवीतं पट्टसूत्रैर्विनिर्मितम्
वासांसि सुविचित्राणि सूरलोके महीयते
भास्करस्योत्तमांगेषु तस्य पुण्यं ब्रवीम्यहम्
एवं वित्तानुसारेण सर्वं ज्ञेयं समासतः
अर्कपत्रपुटं चूर्णं मधुपर्णसमन्वितम्
शालितंडुलप्रस्थस्य कुर्यादन्नं सुसंस्कतम् 1.164.
संयावं कृशरं पूपं पायसं यावकं तथा
यावंतस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया
गुडखंडकृतानां च भक्ष्याणां विनिवेदने
रसाल खाद्यकाद्यानां भक्ष्याणां फलमिष्यते
यथाकालोपलब्धानि भक्ष्याणि विविधानि च
प्रज्वाल्य घृतदीपं तु भास्करस्यालये शुभम्
यः कुर्यात्कार्तिके मासि शोभनां दीपमालिकाम्
भास्करायुतसंकाशस्तेजसा भासयन्दिशः
यावत्प्रदीपसंख्यानं घृतेनापूर्य बोधितम्
दीपवृक्षमथोद्बोध्य पर्वस्वायतनेषु वै 1.164.
दीपवृक्षं समुद्बोध्य भास्करायतनेषु भोः
शिरसा धारयेद्दीपं भास्करस्याग्रतो निशि
भास्करायुतसंकाशो विमानैरर्कसन्निभैः
अन्नदाता तु यो वीर वीरलोके मही यते
पर्यंके शोभितं कृत्वा श्वेतमाल्यैः सचन्दनैः कल्पायुतसहस्राणि सूरलोके महीयते
कृत्वा प्रदक्षिणं भक्त्या श्रद्दधानो रवेर्नरः
कृत्वा प्रदक्षिणं यस्तु नमस्कारं प्रयोजयेत्
नमस्कारः स्मृतो यज्ञः सर्वयज्ञो त्तमोत्तमः