हरिदासं स पप्रच्छ कलेरागमनं कदा 3.2.5.
यदा राज्यं कृतं तेन कलेरागममनं तदा
द्वितीयास्याच्च विविधा भाषा लोक विमोहिनी
यदा धर्मं च वेदोक्तं विपरीतं हि दृश्यते
कलिनाऽधर्ममित्रेण सर्वे देवा निराकृताः
दुर्गतिस्तस्य चार्धांगी गेहेगेहे तदा भवेत्
लोभवश्यास्तु धनिनो महत्त्वं शूद्रका गताः
निष्फला तु मही जाता कलौ प्राप्ते हि दृश्यते
इति श्रुत्वा हरिश्चंद्रो दत्त्वा तस्मै सुदक्षिणाम्
एतस्मिन्नंतरे तत्र ब्राह्मणो बुद्धिकोविदः
विमानं शीघ्रगं नाम देव्या दत्तं महोत्तमम् 3.2.5.
तस्मिन्ददर्श कन्यार्थे तदा विप्रो विमोहितः
हरिदासस्य तनयो मुकुंदो नाम कोविदः
गुरुराह च शिष्यं तं शृणु वाचं मुकुंद मे
तथेत्युक्त्वा मुकुंदस्तु स्वगेहं शीघ्रमाययौ
वामनं वरयामास तं विप्रं शब्दवेधिनम्
त्रयस्ते ब्राह्मणाः प्राप्ताः सुतार्थे गुणकोविदाः
महादेवीं जहाराशु प्राप्तो विंध्याचले गिरौ
धीमान्नाम द्विजो विद्वांस्तान्प्राह गणकोत्तमः
स्वविमाने समारोप्य तौ द्विजौ बुद्धिकोविदः
समारोप्य शरेणैव जघानाशु स राक्षसम् 3.2.5.
मिथो विवादवंतस्ते दृष्ट्वा कन्यां स्मरानुगाः
प्रश्रयावनतः प्राह वैतालं रुद्रकिंकरम्
विदित्वा योऽवदत्कन्यां पितृतुल्यो द्विजो हि सः
हत्वा यो राक्षसं वीरं कन्यायोग्यो हि सोऽभवत्
ग्रामे धर्मपुरं रम्ये नानाजननिषेविते
तत्राभवन्महीपालो धर्मशीलो महोत्तमः
अंधको नाम तन्मंत्री न्यायशास्त्रविशारदः
धर्मशीलेन रचितं तत्र दुर्गा प्रतिष्ठिता
अर्द्धरात्रे महागौरी नृपं प्राह वृणीष्व भोः स्तुतिं चकार नम्रात्मा येन दुर्गा प्रसीदति