त्रेतायुगभूपाख्यानवर्णनम् सुदर्शनो जनैः सार्द्धमयोध्यामगमत्पुनः
मायादेवीप्रभावेण पुरं सर्वं मनोहरम्
दशवर्ष सहस्राणि राज्यं कृत्वा सुदर्शनः
नन्दिनीवरदानेन तत्पुत्रो रघुरुत्तमः
राज्यं कृतं च रघुणा दिलीपान्ते पितुस्समम्
विप्रस्य वरदानेन तत्पुत्रोऽज इति स्मृतः
पितुस्तुल्यं कृतं राज्यं तस्माद्रामो हरिः स्वयम्
तस्य पुत्रः कुशो नाम राज्यं दशसहस्रकम्
निबन्धो नाम तत्पुत्रः कृतं राज्यं पितुस्समम्
पितुस्तुल्यं कृतं राज्यं तस्मान्नाभः सुतोऽभवत् 3.1.2.
पितुस्तुल्यं कृतं राज्यं क्षेमधन्वा तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनजः
कुरुक्षेत्रं कृतं तेन त्रेतायां शतयो जनम्
पितुस्तुल्यं कृतं राज्यं पारियात्रः सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं छद्मकारी तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं वज्रनाभिस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं व्युत्थनाभिस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं स्वर्णनाभिस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं ध्रुवसंधिस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं शीघ्रगन्ता तु तत्सुतः 3.1.2.
पितुस्तुल्यं कृत राज्यं प्रसूवश्रुत उच्यते त्रेतापादः समाप्तोऽयं प्रथमो भारतेंतरे
उदयादुदयं यावद्राज्ञा तत्र सुसंधिना
पितुस्तुल्यं कृतं राज्यं महाऽश्वस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं बृहदैशान एव तत्
पितुस्तुल्यं कृतं राज्यं वत्सपालस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं प्रतिव्योमा ततो नृपः
पितुस्तुल्यं कृतं राज्यं सहदेवस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं भानुरत्नस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं मरुदेवस्सुतस्ततः
पितुस्तुल्यं कृतं राज्यं सुतः केशीनरस्ततः 3.1.2.