स पुष्पकविमानेन पुष्पमालाकुलेन तु
अक्षयं मोदते कालमतिरस्कृतशासनः
सूर्यषष्ठीव्रतवर्णनम् शतानीक उवाच पुनस्त्वं देवदेवस्य भास्करस्य महौजसः
सुमंतुरुवाच शृणु त्वं हि महाराज सर्वदं लोकपूजितम्
सुखासीनं सुरज्येष्ठं मनोवत्यां चतुर्मुखम्
य एष भगवान्देवः सहस्रकिरणो रविः
तस्माच्छृणुतमेकाग्रौ गदतो निखिलं मम
स्वयमुत्पाद्य पुष्णाणि यः सूर्यं पूजयेत्स्वयम्
यस्त्वारामं रवेः कुर्यादाम्रबिल्वादिशोभितम्
पुन्नागनागबकुलैरशोकतिलचंपकैः
यावद्धि पत्रं कुसुमं बीजं सूतफलानि च
सघृतं गुग्गुलं दद्याद्राजन्वा कंदुरुं तथा 1.164.
कृष्णागुरुं च कर्पूरधूपं दद्याद्दिवाकरे
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
गुग्गुलुं घृतसंयु्क्तं यक्षो गृह्णाति शब्दकृत्
कृष्णांशौ कृष्ण सप्तम्यां यः साज्यं गुग्गुलुं दहेत्
देवदारुं नमेरुं च श्रीवासं कुंदुरुं तथा
एवं सौगधिकं रूपं षट्सहस्रगुणोत्तरम्
अनंतफलदं देवं सदा कुंदुरुकामुकम्
दग्ध्वार्धमविमिश्रस्य सूर्यतुल्यः प्रजायते
कृष्णागुरुभवं धूपं तुषाग्निरिव कांचनम्
कपाटद्वारकुड्यादितिर्यगूर्ध्वं सवेदिकम् 1.164.
तस्य पुण्यं यथावत्तु युवयोर्वच्मि कृत्स्नशः
कल्पकोटिशतं दिव्यं तेजसा वह्निसन्निभः
तस्यांते धर्मशेषेण त्रैलोक्या धिपतिर्भवेत्
स सर्वशर्मसंयुक्तः सूर्यतुल्यपराक्रमः
तद्वच्छुक्लैश्च संवीतं पट्टसूत्रैर्विनिर्मितम्
वासांसि सुविचित्राणि सूरलोके महीयते
भास्करस्योत्तमांगेषु तस्य पुण्यं ब्रवीम्यहम्
एवं वित्तानुसारेण सर्वं ज्ञेयं समासतः