श्वेतमंदारकुसुमं सितपुष्पं च तत्समम्
गंधवंत्यपवित्राणि कुसुमानि विवर्जयेत्
सात्त्विकं तद्धि कुसुममपवित्रं च तामसम्
दिवाशेषाणि पुष्पाणि त्यजेदुपहतानि च
फलं क्वथितविद्धं च यत्नात्पक्वमपि त्यजेत् 1.163.
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत्
ओषधीनामभावे तु भक्त्या भवति पूजितः
यः सुगन्धैर्मुक्तपुष्पैः सम्यग्भानुं प्रपूजयेत्
करवीरैर्महाराज संयतो भानुमर्चयेत्
अगस्त्यकुसुमैर्भक्त्या यः सकृद्भानुमर्चयेत्
मल्लिकोत्पलपद्मैश्च जातीपुन्नागचंपकैः
करवीरार्ककह्लारशमीतगरकेशरैः
पुष्पैरेतैर्यथालाभं यो नरः पूजयेद्रविम्
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिभिः
तंत्रीमधुरवाद्यैश्च स्वच्छंदगमनैर्नृप 1.163.
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः
यैस्तैश्च वापिकुसुमैर्जलजैः स्थलजैर्नृप
सूर्यस्योपरि यः कुर्याच्छोभनं पुष्पमंडलम्
अत्याश्चर्यमहायानैर्दिव्यपुष्पोपशोभितः
अनेकरागविन्यस्तैः सुगन्धैः कुसुमैर्गृहम्
स पुष्पकविमानेन पुष्पमालाकुलेन तु
अक्षयं मोदते कालमतिरस्कृतशासनः
सूर्यषष्ठीव्रतवर्णनम् शतानीक उवाच पुनस्त्वं देवदेवस्य भास्करस्य महौजसः
सुमंतुरुवाच शृणु त्वं हि महाराज सर्वदं लोकपूजितम्
सुखासीनं सुरज्येष्ठं मनोवत्यां चतुर्मुखम्
य एष भगवान्देवः सहस्रकिरणो रविः
तस्माच्छृणुतमेकाग्रौ गदतो निखिलं मम
स्वयमुत्पाद्य पुष्णाणि यः सूर्यं पूजयेत्स्वयम्
यस्त्वारामं रवेः कुर्यादाम्रबिल्वादिशोभितम्
पुन्नागनागबकुलैरशोकतिलचंपकैः