आत्मारामभवैश्चैव पुष्पैः संपूजयेद्रविम्
तपःशीलगुणोपेत इति हासविदि द्विजे
करवीरस्य कुसुममर्काय विनिवेदयेत् एवं पुष्पविशेषेण फलं तदधिकं भवेत्
सदा पुष्पसहस्रेभ्यः करवीरं विशिष्यते
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते 1.163.
कुशपुष्पसहस्रेभ्यः शमीपत्रं विशिष्यते सर्वासां पुष्पजातीनां प्रवरं नीलमुत्पलम्
रक्तोत्पलसहस्रेण नीलोत्पलशतेन च
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम्
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते
श्वेतमंदारकुसुमं सितपुष्पं च तत्समम्
गंधवंत्यपवित्राणि कुसुमानि विवर्जयेत्
सात्त्विकं तद्धि कुसुममपवित्रं च तामसम्
दिवाशेषाणि पुष्पाणि त्यजेदुपहतानि च
फलं क्वथितविद्धं च यत्नात्पक्वमपि त्यजेत् 1.163.
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत्
ओषधीनामभावे तु भक्त्या भवति पूजितः
यः सुगन्धैर्मुक्तपुष्पैः सम्यग्भानुं प्रपूजयेत्
करवीरैर्महाराज संयतो भानुमर्चयेत्
अगस्त्यकुसुमैर्भक्त्या यः सकृद्भानुमर्चयेत्
मल्लिकोत्पलपद्मैश्च जातीपुन्नागचंपकैः
करवीरार्ककह्लारशमीतगरकेशरैः
पुष्पैरेतैर्यथालाभं यो नरः पूजयेद्रविम्
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिभिः
तंत्रीमधुरवाद्यैश्च स्वच्छंदगमनैर्नृप 1.163.
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः
यैस्तैश्च वापिकुसुमैर्जलजैः स्थलजैर्नृप
सूर्यस्योपरि यः कुर्याच्छोभनं पुष्पमंडलम्
अत्याश्चर्यमहायानैर्दिव्यपुष्पोपशोभितः
अनेकरागविन्यस्तैः सुगन्धैः कुसुमैर्गृहम्