एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भारत
मृत्कुम्भात्ताम्रकुम्भैस्तु स्नानं शतगुणं मतम् स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम्
इहामुत्र कृतं पापं घृतस्नानेन नश्यति
दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत्
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् 1.163.
स्नानं पलशतं ज्ञेयमभ्यंगः पञ्चविंशतिः
घृताभ्यंगं घृतस्नान भानोः कुर्य्याद्द्विजोत्तम
दशधेनुसहस्राणि यद्दत्त्वा लभते फलम्
अर्घ्यं पुष्पफलोपेतं यस्त्वर्काय निवेदयेत्
गंधतोयेन संमिश्रमुदकाद्द्वादशोत्तरम्
योष्टांगगर्भमापूर्य भानोर्मूर्ध्नि निवेदयेत्
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु
अष्टांग एष अर्घो वै ब्रह्मणा परिकीर्तितः
दातुर्वैणवपात्रेण दत्तेऽर्घ्ये यत्फलं भवेत्
ताम्रार्घ्यपात्रदानेन पुण्यं शतगुणं मतम् 1.163.
रौप्यपात्रेण विज्ञेयं लक्षार्घ्यं नात्र संशयः
एवं स्नानार्घ्यनैवेद्यबलिधूपादिषु क्रमात्
रौप्यपात्रप्रदानेन यत्पुण्यं वेदपारगे
फलं कोटिसुवर्णस्य यो दद्याद्वेदपारगे
सुवर्णपात्रं यो दद्याद्भास्कराय महीपते
तुल्यमेव फलं प्रोक्तं सर्वमाढ्यदरिद्रयोः
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम्
तस्मान्मन्त्रैः फलैस्तोयैश्चन्दनाद्यैश्च यत्नतः
वर्षकोटिशतं दिव्यं सूर्यलोके महीयते
गंधाच्चतुर्गुणं ज्ञेयं पुष्पमष्टगुणं नृप तस्माच्छतगुणं पुण्यं कुंकुमस्य विधीयते ।। 1.163.
भानुं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि
स दीव्येत्सुरवृन्देन पुण्यगंधैः प्रलेपितः
भक्त्या निवेद्य अर्काय तालवृंतं नराधिप
मायूरं व्यजनं दत्त्वा सूर्यायातीव शोभनम्
पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसम्भवैः