सकृदाढकेन पयसा यो भानुं स्नाप येन्नरः
स्नाप्य दध्ना सकृद्भानुं स त्रिलोके महीयते
उद्धृत्य शालिपिष्टेन वायुलोकेषु पूज्यते स गोपतिपुरं गच्छेत्सर्वकामसमन्वितः
फलोदकेन यो भानुं सकृत्स्नापयते नरः
श्रीखंडवारिणा स्नाप्य सकृद्भानुं नरा धिप 1.163.
वस्त्रपूतेन तोयेन यद्यर्कं स्नापयेत्सकृत्
आपो हिष्ठेति जप्येन गंगातोयेन भारत
कर्पूरागुरुतोयेन योऽर्कं स्नापयते सकृत् स कुलानेकविंशतिमुत्तार्य रविमाव्रजेत्
पितृनुद्दिश्य यो भानुं स्नापयेच्छीतवारिणा
भानुं शीतांबुना स्नाप्य धारोष्णपयसा सह
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भारत
मृत्कुम्भात्ताम्रकुम्भैस्तु स्नानं शतगुणं मतम् स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम्
इहामुत्र कृतं पापं घृतस्नानेन नश्यति
दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत्
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् 1.163.
स्नानं पलशतं ज्ञेयमभ्यंगः पञ्चविंशतिः
घृताभ्यंगं घृतस्नान भानोः कुर्य्याद्द्विजोत्तम
दशधेनुसहस्राणि यद्दत्त्वा लभते फलम्
अर्घ्यं पुष्पफलोपेतं यस्त्वर्काय निवेदयेत्
गंधतोयेन संमिश्रमुदकाद्द्वादशोत्तरम्
योष्टांगगर्भमापूर्य भानोर्मूर्ध्नि निवेदयेत्
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु
अष्टांग एष अर्घो वै ब्रह्मणा परिकीर्तितः
दातुर्वैणवपात्रेण दत्तेऽर्घ्ये यत्फलं भवेत्
ताम्रार्घ्यपात्रदानेन पुण्यं शतगुणं मतम् 1.163.
रौप्यपात्रेण विज्ञेयं लक्षार्घ्यं नात्र संशयः
एवं स्नानार्घ्यनैवेद्यबलिधूपादिषु क्रमात्
रौप्यपात्रप्रदानेन यत्पुण्यं वेदपारगे
फलं कोटिसुवर्णस्य यो दद्याद्वेदपारगे
सुवर्णपात्रं यो दद्याद्भास्कराय महीपते