गृहीत्वा गोमयं स्वच्छं स्थाने च पतितं शुभे
वस्त्रपूतगोमयेन यः कुर्यादुपलेपनम्
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा
क्षरंति सर्वदानानि यज्ञहोमबलिक्रियाः
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम्
तस्यांते च चतुर्वेद सुरूपः प्रियदर्शनः
संपर्केणापि यः कुर्यान्नरः कर्म भगालये
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः
समासक्तं तथा चित्तं जन्तोर्विषयगोचरे
यः कुर्यात्कुट्टिमां भूमिं दर्पणोदरसन्निभाम् 1.162.
क्वचित्कलशविन्यस्तां पंकजैरुपशोभिताम्
यावद्दंडा भवेद्भूमिः समंताच्च सुशोभना
कारयेच्चित्रशास्त्रज्ञैश्चित्रकर्मार्कमंदिरे
यावत्स देवरूपाणि ग्रहरूपाणि लेखयेत्
भवेद्भूमिः समंताच्च यः कुर्यादर्कमंदि रम्
सौरधर्मेषु पुष्पपूजावर्णनम् स्नानकाले प्रकुर्वीत जयशब्दादिमंग लम्
पद्मस्वस्तिकशंखं तु श्रीवत्सं द्विजसत्तम
नानावर्णकसंयुक्तैरक्षतैस्तिलतंदुलैः
द्रव्यपीठप्रदीपाश्च भूताश्वत्थादिपल्लवैः
सप्तम्यादिषु सर्वेषु षष्ठ्यादिषु विशेषतः
त्रिसन्ध्यं वेदनिर्घोषं कुर्वीत फलमुत्तमम्
यावन्नीराजनं कुर्यात्पर्वाणि विधिवद्रवौ
कपिलापञ्चगव्येन कुशवारियुतेन वै
यस्त्वेकमपि सर्वेब्दे ब्रह्मस्नानं प्रयच्छति
कपिलापञ्चगव्येन दधिक्षीरयुतेन च 1.163.
ऋभवो वीरमुद्दिश्य देहशुद्धिं च शाश्वतीम्
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम्
वर्षकोटिसहस्रेण यत्पापं समुपार्जितम्
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम्
सप्तम्यां च कृतस्नानो यजेत्सूर्यं सकृन्नरः वसुहेमादियुक्तं च क्षीरस्नानस्य तत्समम्