रुचिरं शुभशैलोत्थं कुर्यायस्तु रवेर्गृहम्
यन्मया कोटिगुणितं कृतं स्यादिष्टकाम्यया
मृच्छैलेन समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः
शैलोत्थमिष्टकाभिर्वा दृढं दारुमयं शुभम् गैरिकं यानमारुह्य यः कुर्याद्धृतभूषणः
क्रीडमानोऽपि यः कुर्याद्बालभावेऽर्कमंदिरम्
पुष्पमालाकुलं दिव्यं धूपगंधादिवासितम्
तत्र रूढो महाराज वत्सरं वृन्दमुत्तमम्
क्रमादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः
पश्यन्परिहरञ्जंतून्मार्जन्या मृदुसूक्ष्मया
पुत्रार्थं देहजीर्णाया वन्ध्यायाश्च विशेषतः 1.162.
गृहीत्वा गोमयं स्वच्छं स्थाने च पतितं शुभे
वस्त्रपूतगोमयेन यः कुर्यादुपलेपनम्
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा
क्षरंति सर्वदानानि यज्ञहोमबलिक्रियाः
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम्
तस्यांते च चतुर्वेद सुरूपः प्रियदर्शनः
संपर्केणापि यः कुर्यान्नरः कर्म भगालये
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः
समासक्तं तथा चित्तं जन्तोर्विषयगोचरे
यः कुर्यात्कुट्टिमां भूमिं दर्पणोदरसन्निभाम् 1.162.
क्वचित्कलशविन्यस्तां पंकजैरुपशोभिताम्
यावद्दंडा भवेद्भूमिः समंताच्च सुशोभना
कारयेच्चित्रशास्त्रज्ञैश्चित्रकर्मार्कमंदिरे
यावत्स देवरूपाणि ग्रहरूपाणि लेखयेत्
भवेद्भूमिः समंताच्च यः कुर्यादर्कमंदि रम्
सौरधर्मेषु पुष्पपूजावर्णनम् स्नानकाले प्रकुर्वीत जयशब्दादिमंग लम्
पद्मस्वस्तिकशंखं तु श्रीवत्सं द्विजसत्तम
नानावर्णकसंयुक्तैरक्षतैस्तिलतंदुलैः
द्रव्यपीठप्रदीपाश्च भूताश्वत्थादिपल्लवैः
सप्तम्यादिषु सर्वेषु षष्ठ्यादिषु विशेषतः