सर्वेषामेव पात्राणां परं पात्रं विभावसुः
तस्य पात्रस्य माहात्म्यं ध्रुवमक्षयमादिशेत्
रवौ दत्तं हुतं जप्तं बलिं पूजां निवेदयेत्
भक्त्या वित्तानुसारेण यः कुर्यादालयं रवेः
महाविभवसारोपि यः कुर्याद्भक्तिवर्जितम्
वित्तशाठ्येन यः कुर्याद्वित्तवानपि मानवः
तस्मात्त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत्
भक्त्या प्रचोदितं कुर्यादल्पवित्तोऽपि यो नरः
सर्वस्वमपि यो दद्यादर्के भक्तिविवर्जितः
न तपोभिर्विभोरुग्रैर्न च सर्वैर्महामखैः 1.162.
रुचिरं शुभशैलोत्थं कुर्यायस्तु रवेर्गृहम्
यन्मया कोटिगुणितं कृतं स्यादिष्टकाम्यया
मृच्छैलेन समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः
शैलोत्थमिष्टकाभिर्वा दृढं दारुमयं शुभम् गैरिकं यानमारुह्य यः कुर्याद्धृतभूषणः
क्रीडमानोऽपि यः कुर्याद्बालभावेऽर्कमंदिरम्
पुष्पमालाकुलं दिव्यं धूपगंधादिवासितम्
तत्र रूढो महाराज वत्सरं वृन्दमुत्तमम्
क्रमादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः
पश्यन्परिहरञ्जंतून्मार्जन्या मृदुसूक्ष्मया
पुत्रार्थं देहजीर्णाया वन्ध्यायाश्च विशेषतः 1.162.
गृहीत्वा गोमयं स्वच्छं स्थाने च पतितं शुभे
वस्त्रपूतगोमयेन यः कुर्यादुपलेपनम्
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा
क्षरंति सर्वदानानि यज्ञहोमबलिक्रियाः
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम्
तस्यांते च चतुर्वेद सुरूपः प्रियदर्शनः
संपर्केणापि यः कुर्यान्नरः कर्म भगालये
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः
समासक्तं तथा चित्तं जन्तोर्विषयगोचरे
यः कुर्यात्कुट्टिमां भूमिं दर्पणोदरसन्निभाम् 1.162.