दृष्टिधृष्ट्यश्च विपुलाः केशा वीरांशवः स्मृताः
बाहवो विदिशस्तस्य दिशः श्रोत्रे नराधिप
प्रसादश्च क्षमा चैव मनो धर्मस्तथैव च
ग्रीवादितिर्महादेवी तालू रुद्रश्च वीर्यवान्
मुखं वैश्वानरश्चास्य वृषणौ च भगस्तदा
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु
प्राणो रुद्रो महादेवः कुक्षौ चास्य महार्णवाः
लक्ष्मीर्मेधा धृतिः कांतिः सर्वा विद्याश्च वै कटौ
सर्वज्योतींषि जानीहि तपश्चक्रश्च देव राट् 1.160.
स्तनौ कुक्षौ च वेदाश्च तेष्टौ चास्य मखाः स्मृताः
सर्वदेवमयं दृष्ट्वा रूपमर्कस्य ते नृप
प्रणम्य शिरसा देवं वेपमाना धरां गताः
समीक्ष्य रूपं ते देव भीमं ज्वालासमाकुलम्
दिग्ज्ञानं हृतमस्माकं तत्प्रसीद जगत्पते
इति तेषां वचः श्रुत्वा देवदेवो दिवाकरः
दृष्टं भवद्भिर्देवेंद्रा मम सर्वजगन्मयम्
एतन्मया प्रसन्नेन युष्माकं श्रेयसेऽनघाः
योगिनामपि देवेश दर्शनं ह्यस्य दुर्लभम्
त्वामाराध्य जगन्नाथं नाप्राप्यमिह विद्यते 1.160.
एवमुक्त्वाऽदितेः पुत्रो जगामादर्शनं रविः
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम्
सूर्यपूजाफलप्रश्नवर्णनम् नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः
रुद्रेंद्रोपेंद्रकेंद्राणां विप्रेंद्र त्रिदिवौकसाम्
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः
ततः संजायते सर्वं तत्रैव प्रविलीयते
जगज्ज्येष्ठो ग्रहो विप्र प्रदीप्तः प्रभवो रविः
क्षणा मुहूर्ता दिवसा रात्रिपक्षाश्च कृत्स्नशः
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः
तस्मादस्य द्विजश्रेष्ठ पूजने यत्फलं भवेत्