ब्रह्मञ्छंभो हरे ब्रूत मत्तः किमभिवांछथ
प्रणम्य शिरसा केशा इदं वचमब्रुवन्
कृतकृत्या वयं सर्वे प्रसादात्तव गोपते
उत्पत्तिस्थितिनाशानां वयं सर्वे दिवाकर
किं त्वेकं देवदेवेश वरमिच्छामहे विभो
तस्मादस्माज्जगन्नाथ रूपं दर्शय तेऽच्युतम्
तेषां तद्वचनं श्रुत्वा ब्रह्मविष्ण्वीशभाषितम्
अनेकवक्त्रशिरसमनेकाद्भुतदर्शनम्
भूः पादौ द्यौः शिरश्चापि तत्राग्नी लोचने मते 1.160.
विश्वे देवाः स्मृतास्तस्य जंघासंघाः सुरोत्तमाः
दृष्टिधृष्ट्यश्च विपुलाः केशा वीरांशवः स्मृताः
बाहवो विदिशस्तस्य दिशः श्रोत्रे नराधिप
प्रसादश्च क्षमा चैव मनो धर्मस्तथैव च
ग्रीवादितिर्महादेवी तालू रुद्रश्च वीर्यवान्
मुखं वैश्वानरश्चास्य वृषणौ च भगस्तदा
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु
प्राणो रुद्रो महादेवः कुक्षौ चास्य महार्णवाः
लक्ष्मीर्मेधा धृतिः कांतिः सर्वा विद्याश्च वै कटौ
सर्वज्योतींषि जानीहि तपश्चक्रश्च देव राट् 1.160.
स्तनौ कुक्षौ च वेदाश्च तेष्टौ चास्य मखाः स्मृताः
सर्वदेवमयं दृष्ट्वा रूपमर्कस्य ते नृप
प्रणम्य शिरसा देवं वेपमाना धरां गताः
समीक्ष्य रूपं ते देव भीमं ज्वालासमाकुलम्
दिग्ज्ञानं हृतमस्माकं तत्प्रसीद जगत्पते
इति तेषां वचः श्रुत्वा देवदेवो दिवाकरः
दृष्टं भवद्भिर्देवेंद्रा मम सर्वजगन्मयम्
एतन्मया प्रसन्नेन युष्माकं श्रेयसेऽनघाः
योगिनामपि देवेश दर्शनं ह्यस्य दुर्लभम्
त्वामाराध्य जगन्नाथं नाप्राप्यमिह विद्यते 1.160.
एवमुक्त्वाऽदितेः पुत्रो जगामादर्शनं रविः