ब्रह्मा विष्णुः सुरा ब्रह्मंस्तमाराध्य दिवाकरम्
कविष्णू कुरुशार्दूल जग्मतुस्तौ हिमाचलम्
गोपतेरंतिकं वीर प्रहृष्टौ विभुदर्शने
ददृशतुर्महात्मानं चंद्रार्धकृतशेखरम्
आर्च्योचतुर्महात्मानं कविष्णू तं त्रिलोचनम्
श्रुत्वोवाच तयोर्वाक्यं कंजजस्याच्युतस्य च
उवाच मधुरं वाक्यं शिक्षाक्षरसमन्वितम्
किमाराध्य रविं प्राप्तौ सर्वदेववरं विभुम्
दृष्टवंतौ परं किंचिद्रूपं देवस्य शंकरम् 1.160.१
निशम्य वचनं वीर शंकरस्य महात्मनः
न तत्पश्यावहे रूपं यत्तत्परममद्भुतम्
तस्मादाराधयामो हि एकीभूय विभावसुम्
श्रुत्वा तु वचनं वीर कंजजाच्युतयोर्हरः
अथ ते राजशार्दूल विविगोगतयो नृप
तमासाद्य नगं पुण्यं शृंगैस्त्रिभिरलंकृतम्
आराधनाय विधिवद्यत्नं चक्रुर्विभावसोः
दिव्यवर्षसहस्रांते तपंतः संस्थिता नगे
स्थाणुवत्संस्थितो भूमावूर्ध्वबाहुस्त्रिलोचनः
एवं वर्षसहस्रांते तपश्चक्रुः सुदारुणम् 1.160.
अथ ब्रह्मेशविष्णूनां कुर्वतां तप उत्तमम्
ब्रह्मञ्छंभो हरे ब्रूत मत्तः किमभिवांछथ
प्रणम्य शिरसा केशा इदं वचमब्रुवन्
कृतकृत्या वयं सर्वे प्रसादात्तव गोपते
उत्पत्तिस्थितिनाशानां वयं सर्वे दिवाकर
किं त्वेकं देवदेवेश वरमिच्छामहे विभो
तस्मादस्माज्जगन्नाथ रूपं दर्शय तेऽच्युतम्
तेषां तद्वचनं श्रुत्वा ब्रह्मविष्ण्वीशभाषितम्
अनेकवक्त्रशिरसमनेकाद्भुतदर्शनम्
भूः पादौ द्यौः शिरश्चापि तत्राग्नी लोचने मते 1.160.
विश्वे देवाः स्मृतास्तस्य जंघासंघाः सुरोत्तमाः