भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम्
सुराणां शरणं देवश्चासुराणां विनाशनः
आददानस्तु तेजांसि त्रैलोक्यस्य नराधिप
प्रहत्य दैत्यसंघांश्च सुराणां नादवर्धने
सूर्यावतारवर्णनम् सुमंतुरुवाच दक्षः प्रजापतिश्चैव नमस्कारं चकार ह
उपातिष्ठत देवेशं भानुं चर्षिगणैः सह बहुभिः सह गंधर्वैः प्रगायत्सु महीपते
एवं ते देवगंधर्वा उपागायंत भक्तितः
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा इत्येकादश एवैते द्वादशो विष्णुरुच्यते
एवं द्वादशधा जातमंशुमंतं महाद्भुतम्
मृगव्याधश्च शर्वश्च मृगांकांको महायशाः
दमनश्चेश्वरश्चैव कपाली च विशांपते
अश्विनौ वसवश्चाष्टौ गरुडश्च महाबलः
नागराजो महाराज वासुकिः प्रांजलिः स्थितः
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः 1.159.
पितामहश्च भगवान्स्वयमागम्य लोककृत्
यस्मात्प्रेक्षयते सर्वं प्रभविष्णुः सनातनः
देवदानवयक्षाणां गंधर्वोरगरक्षसाम्
एवमुक्त्वा तु भगवान्सार्धं देवर्षिभिः प्रभुः
या गतिर्यज्ञशीलानां या गतिः पुण्यकर्मणाम्
यस्याष्टगुणमैश्वर्यं समभूद्देवसत्तमम्.
वालखिल्यादयो ये च सर्वाश्रमनिवासिनः
यो यज्ञ इति विप्रेंद्रैरर्च्यते सुखमीप्सुभिः
यं वेदविदो गायंति वेत्तारं यज्ञदायि नम् 1.159.
मुदं लेभे सहादित्या सुखं च परमं विभो
मधुपिंगलो महाबाहुः कंबुग्रीवो हसन्निव
स उवाच महातेजाः कश्यपं चर्षिसत्त मम्
दत्त्वा वरं पुरा विप्र विरंचस्य महात्मनः
एवमाराध्य देवेशं ब्रह्मा सृष्टिमवाप्तवान्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे उभयसप्तमीमहात्म्ये सूर्यावतारवर्णनं नामैकोनषष्ट्युत्तरशतमोऽध्यायः
सूर्यावतारवर्णनम् ब्रह्मादयोऽपि यं नित्यं पूजयंति विधानतः