बहुशः सर्वभूतात्मा स्वयं समभिजायते
तुष्टो दत्त्वा वरं वीर विरञ्चस्य महात्मनः
स स याति विनाशं वै तत्क्षणादेव भारत
जगाम कश्यपाभ्याशे शोकव्याकुलितेक्षणा
आद्यं देवगुरुं विप्रं दिव्यं त्रिषवणांबुभिः
न्यस्तदण्डश्रिया युक्तं बद्धकृष्णाजिनांबरम्
हुताशमिव दीव्यन्तं तपन्तमिव भास्करम् 1.158.
शोकगद्गदया वाचा इदं वचनमब्रवीत्
जातोजातो हि मे पुत्रः सद्य एव विनश्यति
चकार गमने बुद्धिं ब्रह्मलोकं प्रति प्रभो
तद्वाक्य मुक्तं तं सर्वं यदुक्तं तस्य जायया
पुत्र गच्छाम सदनं भानोः परमदुर्लभम्
वेधा जगाम भवनमादित्यस्य महात्मनः
ते मुहूर्तेन संप्राप्ताः सूर्यलोकं सुवर्चसम्
आदित्यं प्रष्टुमिच्छंति तेजसां राशिमुत्तमम्
षट्पदोद्गीतनिनदां साभगैस्तु समीरिताम्
तुष्टुवुः पुरुषव्याघ्रं विततेषु च कर्मसु 1.158.
घोषेण परमर्षीणां सर्वं तत्र निनादितम्
अष्टादशपुराणज्ञैः सर्वविद्याविशारदैः
लोकायतिकमुख्यैश्च तुष्टुवुः सूर्यमीरितम्
जपहोमपरान्योग्यान्ददृशुः कश्यपादयः
सुरासुरगुरुः श्रीमाञ्छुशुभे वीर मायया
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः
दिव्या आत्मांतरिक्षं च वायुस्तेजोबलं मही
प्रकृतिश्च विकाराश्च यच्चान्यत्कारणं महत्
लवाश्च ऋतवश्चैव संकल्पप्रणवास्तथा
अर्थो धर्मश्च कामश्च मोक्षश्च सविशेषतः 1.158.
वृको विष्णुसुतः पुत्रः पुष्पजो धिषणस्तथा
मारुतो विश्वकर्मा च अश्वि नावन्यवाहनौ
जगाम कश्यपो वीर सहादित्या स्वमाश्रमम्