सहस्रजिह्वं भास्वंतं सहस्रमुकुटं प्रभुम्
सवनं भवनं चैव हव्यं होतारमेव च
श्रोत्रियं शूर्पमुसलं प्रोक्षणं दक्षिणायनम्
यूपं समित्स्रुवं दर्वीं मुसलोलूखलानि च
रहस्यानि प्रमाणानि स्थावराणि चराणि च
मंत्रयज्ञवहं वह्निभागं भार्गवमेव च
आयुर्वेदविदो विप्रा यजंते शाश्वतं विभुम् 1.158.
प्राहुर्भावसहस्राणि समतीतान्यनेकशः
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम्
तामहं त्वं प्रवक्ष्यामि शृणु सर्वमशेषतः
बहुशः सर्वभूतात्मा स्वयं समभिजायते
तुष्टो दत्त्वा वरं वीर विरञ्चस्य महात्मनः
स स याति विनाशं वै तत्क्षणादेव भारत
जगाम कश्यपाभ्याशे शोकव्याकुलितेक्षणा
आद्यं देवगुरुं विप्रं दिव्यं त्रिषवणांबुभिः
न्यस्तदण्डश्रिया युक्तं बद्धकृष्णाजिनांबरम्
हुताशमिव दीव्यन्तं तपन्तमिव भास्करम् 1.158.
शोकगद्गदया वाचा इदं वचनमब्रवीत्
जातोजातो हि मे पुत्रः सद्य एव विनश्यति
चकार गमने बुद्धिं ब्रह्मलोकं प्रति प्रभो
तद्वाक्य मुक्तं तं सर्वं यदुक्तं तस्य जायया
पुत्र गच्छाम सदनं भानोः परमदुर्लभम्
वेधा जगाम भवनमादित्यस्य महात्मनः
ते मुहूर्तेन संप्राप्ताः सूर्यलोकं सुवर्चसम्
आदित्यं प्रष्टुमिच्छंति तेजसां राशिमुत्तमम्
षट्पदोद्गीतनिनदां साभगैस्तु समीरिताम्
तुष्टुवुः पुरुषव्याघ्रं विततेषु च कर्मसु 1.158.
घोषेण परमर्षीणां सर्वं तत्र निनादितम्
अष्टादशपुराणज्ञैः सर्वविद्याविशारदैः
लोकायतिकमुख्यैश्च तुष्टुवुः सूर्यमीरितम्