श्रीदत्तस्तु गतो देशं वाणिज्यार्थं कुरुस्थलम्
जयलक्ष्मीस्तु कामेन पीडिता पितृमंदिरे
दूती मार्गेण तं प्राप्य व्ययं कृत्वा धनं बहु
त्रिमासान्ते च तत्स्वामी श्रीदत्तः श्वशुरालये
अर्धरात्रे तु तन्मात्रा प्रेषिता स्वपतिं प्रति
बहुमानेन स्वपतिस्नेहं कृत्वालयं ययौ
शून्यालये होमदत्तो दंशितो भुजगेन वै 3.2.4.
वेगेन रमयामास तं जारं विषमोहितम्
शवदेहं च संप्राप्य रमणीं तामरीरमत्
कफल्लो नाम चौरस्तु दृष्ट्वा तत्कारणं तदा
तदा तु जयलक्ष्मीश्च स्वपतिं प्राप्य दुर्भगा
नासाहीनां सुतां दृष्ट्वा सोमदत्तो महाधनः
नृपाज्ञया राजदूतास्तमुद्बंधनमादधुः
मत्वा तस्य वचः सत्यं जयलक्ष्मीं महाधमाम्
नगरात्प्रेषयामास वनं शार्दूलसेवितम्
इत्युक्त्वा स तु वैतालो विक्रमं प्राह नम्रधीः
तमो न पुंसकं ज्ञेयं त्रिलिंगैकं तदव्ययम् ।। 3.2.4.
अव्ययं ब्रह्मणो धाम माया लिंगस्वरूपिणी
क्लीबा स्त्री सर्वदा श्रेष्ठा स्त्रियास्तु पुरुषस्तथा
क्लीबमज्ञानमधिकं कथितं पूर्वकोविदैः
अतः पापाधिका नारी पुरुषो हीनकिल्बिषः
प्रसन्नात्मा वचः प्राह भूपतिं ज्ञानसंपदम्
उज्जयिन्यां महाराज महाबल इति श्रुतः
तस्य दूतो हरेर्दासः स्वामिकार्यकरः सदा
तस्यां जाता रूपवती कन्या कमललोचना
हरिदासं च सा प्राह शृणु तात वचो मम
तथेत्युक्त्वा पिता राजन्राज्ञाहूतो गतः सभाम्
तैलंगाधिपतिं गच्छ हरिश्चंद्रं महीपतिम्
इति श्रुत्वा द्विजः प्रागाद्धरिश्चंद्रं महामतिम्
श्रुत्वा प्रसन्नहृदयो हरिश्चंद्रो महीपतिः