प्रणामत्रयपूर्वेण योगेन रमते च यः
यो गतिर्वृषयुक्तानां गतिर्योऽपापकर्मणाम्
धातुवैद्यस्य यो वेत्ता चतुराश्रमसंश्रयः
अग्नीषोमात्मकं ज्योतिर्योगीशः क्षणदांतकः 1.157.
यं परं परमं प्राहुः परमात्मानमच्युतम्
युगांतेष्वतंको यस्तु यश्च लोकांतकोत्तमः
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभविष्णुनाम्
मानुषाणां मनोभूतस्तपोभूतस्तपस्विनाम्
विग्रहो विग्रहाणां च गतिर्गतिमतामपि देवाहुतिप्रदानोद्यत्प्राणाग्निस्तमनाशनः
रसाद्धि शोणितं भवति शोणितान्मांसमुच्यते
अस्थिमज्ज्ञः समभवत्ततो वै शुक्रमादिशेत् तत्रापः प्रथमो भागः स सौम्यो राशिरुच्यते
ततः क्ष्मासंभवो ज्ञेयो द्वितीयो राशिरुच्यते
भवो रसात्मकस्तेषां वीर्यं च शशिपावकम्
कफस्य पृथिवी स्थानं पित्तं नाभौ प्रतिष्ठितम् नाभिकोष्ठांतरस्थं तु तत्र देवो दिवाकरः ।।1.157.
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते
एवं प्रवर्तिते गर्भे वर्धितेंऽबुदसन्निभे
ततोंऽगानि विसृजते बिभर्ति परिवर्तयन्
प्राणोस्य प्रथमं स्थानं वर्धयन्परिवर्तते व्यानोऽथ व्यापको देहे समानः सन्निवर्तते
भूतावाप्तिस्ततस्तस्य जायतींद्रियगोचरा
तस्येंद्रियाणि पिष्टानि स्वंस्वं योगं प्रचक्रमुः
निद्रा ह्याकाशयोनिश्च जलाश्रये प्रवर्तते
ग्रामाश्च विषयाश्चैव यस्य वीर्यं प्रवर्तितम्
स कथं देवदेवेशो गर्भमेष्यति चांशुमान्
एवं मे संशयो ब्रह्मन्नेष मे विस्मयो महान् 1.157.
आश्चर्यं परमं पृच्छे त्वामहं भास्करस्य वै
एतदाश्चर्यमाख्यानं कथयस्व महामुने
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यावतारकथाप्रस्ताववर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः
सौरधर्मेषु सूर्योत्पत्तिवर्णनम् सुमंतुरुवाच प्रश्नभारो महांस्तात त्वयोक्तो रश्मिमालिनि
भानोः प्रभावश्रवणे यस्य ते मतिरुत्थिता
सहस्रास्यं सहस्राक्षं सहस्रकिरणं च यम्