पूर्वा दिशं गतो नित्यमुदयाचलमक्रमम्
नाशयित्वा तमो यस्तु क्रियाः सर्वाः प्रवर्तयेत्
गार्हपत्येन विधिना तद्वद्धार्येण कर्मणा प्रोक्षणीयव्रतं चैव अवभृथं तथैव च
सर्वानिमांश्च यश्चक्रे हव्यभागप्रदान्मुखे 1.157.
भागार्थे मधुधानाय चक्रे यो यज्ञकर्मणि
यज्ञानि च द्रव्याणि यज्ञांश्चापि सऋत्विजः
विबभाज पुरा सर्वं पारमेष्ठयेन कर्मणा
क्षणान्कलाश्च काष्ठाश्च कालवैकल्यमेव च
ऋतवः कालयोगाश्च प्रमाणं विविधं नृषु
सृष्टा लोकास्त्रयोनंता येन ज्ञानेन वर्त्मना
प्रणामत्रयपूर्वेण योगेन रमते च यः
यो गतिर्वृषयुक्तानां गतिर्योऽपापकर्मणाम्
धातुवैद्यस्य यो वेत्ता चतुराश्रमसंश्रयः
अग्नीषोमात्मकं ज्योतिर्योगीशः क्षणदांतकः 1.157.
यं परं परमं प्राहुः परमात्मानमच्युतम्
युगांतेष्वतंको यस्तु यश्च लोकांतकोत्तमः
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभविष्णुनाम्
मानुषाणां मनोभूतस्तपोभूतस्तपस्विनाम्
विग्रहो विग्रहाणां च गतिर्गतिमतामपि देवाहुतिप्रदानोद्यत्प्राणाग्निस्तमनाशनः
रसाद्धि शोणितं भवति शोणितान्मांसमुच्यते
अस्थिमज्ज्ञः समभवत्ततो वै शुक्रमादिशेत् तत्रापः प्रथमो भागः स सौम्यो राशिरुच्यते
ततः क्ष्मासंभवो ज्ञेयो द्वितीयो राशिरुच्यते
भवो रसात्मकस्तेषां वीर्यं च शशिपावकम्
कफस्य पृथिवी स्थानं पित्तं नाभौ प्रतिष्ठितम् नाभिकोष्ठांतरस्थं तु तत्र देवो दिवाकरः ।।1.157.
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते
एवं प्रवर्तिते गर्भे वर्धितेंऽबुदसन्निभे
ततोंऽगानि विसृजते बिभर्ति परिवर्तयन्
प्राणोस्य प्रथमं स्थानं वर्धयन्परिवर्तते व्यानोऽथ व्यापको देहे समानः सन्निवर्तते
भूतावाप्तिस्ततस्तस्य जायतींद्रियगोचरा
तस्येंद्रियाणि पिष्टानि स्वंस्वं योगं प्रचक्रमुः