एवमुक्तो रविर्भक्त्या विष्णुना वाक्यमुत्तमम्
साधु साधु महाबाहो ब्रह्मणस्त्वं जघन्यजः
भक्तश्चापि ममात्यंतं ब्रह्मण्यश्च सदानघ 1.156.
एतदेव महद्व्योम चक्रं ते प्रभविष्यति तथा स्थानं च परमं सर्वलोकनमस्कृतम्
इत्थं भानोर्वरं प्राप्य हरिर्देवो जगत्पतिः
भास्करोऽपि वरं दत्त्वा केशवायामितौजसे
लोकानां पालने शक्तिं बलं वीर्यं यशः सुखम्
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम्
इति ते कथितं पुण्यमाख्यानं पापनाशनम्
स्तोत्रत्रयसमायुक्तं धर्मकामार्थसाधनम्
य इदं शृणुयान्नित्यं पठेत्स्तोत्रत्रयं च यः
अपुत्रो लभते पुत्रमधनो धनमश्नुते
तेजसा रविसंकाशः प्रभया पृश्निसन्निभः 1.156.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रैसुरोपाख्यानवर्णनं नाम षट्पंचाशदुत्तरशत तमोऽध्यायः
सूर्यावतारकथाप्रस्ताववर्णनम् दत्तवांस्तव पुत्रत्वमन्वये कश्यपस्य तु
यास्यामि द्विजशार्दूल प्रपन्नतिमिरापहः
देवादीनां प्रणेता यो यो भुवि प्रसवो विभुः
किमर्थं दिव्यमात्मानं जन्मने स नियोक्ष्यति
गोपायनं यत्कुरुते जगतः सर्वलौकिकम्
गोभिः पालयते कृत्स्नमात्मनो यः स्वयं रविः
अगर्भः स कथं गर्भमुदरे याचते विभुः
योऽन्तकाले जगत्पीत्वा कृत्वा वज्रमयं वपुः
लोकमेकार्णवं चक्रे दृश्यते स्वेन कर्मणा
अपि सृष्ट्वा द्विजश्रेष्ठ यः ससर्ज वसुंधराम् 1.157.
ददौ कृत्वा वसुमतीं सुराणां सुरसत्तमः पातालस्थोर्णवरसं मध्यतोयमयं हविः
सहस्रचरणं ब्रह्मन्यमाहुर्वै युगे युगे
मुखाद्यस्य समुत्पन्नो वेधा लोकपितामहः
येन ते निहता दैत्या मंदेहा नाम नामतः
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः
करांते यो जगत्सर्वं सह दानवराक्षसम्