दृष्ट्वैवं पूजयन्तं च भास्करस्त्रिपुरांतकम्
भीम तुष्टोऽस्मि ते वत्स वरं मत्तो वृणुष्व वै
श्रुत्वैवं वचनं भानोर्महादेवो महीपते उवाच प्रणतो भूत्वा अष्टांगैर्भूतलं गतः
नमोनमस्ते देवेश प्रभाकर दिवाकर
तवांगसंभवो देव पुत्रोहं वल्लभस्तव 1.155.
ललाटात्त्वं समुत्पन्नः पुत्रः पुत्रवतां वर
वरं वरय भद्रं ते मनना त्वं यमिच्छसि
प्रयच्छ मे वरं भानो देहि भक्तिं ममाचलाम्
देवदानवगंधर्वयक्षरक्षोगणांस्तथा
तथा प्रयच्छ मे देव स्थानं च परमं विभो
हरिष्यसि जगच्चापि युगान्ते त्रिपुरान्तक
यदेतत्पूजितं नित्यं मद्रूपं व्योम चोत्त मम् ईशाने च तथा भागे व्योम्नो वासो भविष्यति
कृतकृत्योऽस्मि देवेश यन्मे देवो वरप्रदः
त्रैसुरोपाख्यानवर्णनम् शालग्रामं जगामाशु वरं दातुं हरेर्नृप
ददर्श स हरिं तत्र तपन्तं परमं तपः
पूजयन्तं महद्व्योम चक्राकारमनौपमम्
एवं संपूज्य तद्व्योम भक्त्या श्रद्धासमन्वितः
विष्णुं तं प्रणतं दृष्ट्वा तुष्टो देवो विभावसुः
तद्वाक्यं केशवः श्रुत्वा शिरसा च महीं गतः
जगत्पते नमस्तेऽस्तु ग्रहाणां पतये नमः
आदित्यार्क रवे भानो भग पूर्ण दिवाकर
प्रसीद मे जगन्नाथ हंसानघ दिवस्पते
पुत्रोऽहं तव देवेश द्वितीयो ब्राह्मणोऽनघ 1.156.
विष्णोर्वचनमाकर्ण्य हर्षं प्राप्य दिवाकरः
साधु कृष्ण महाबाहो तुष्टोहं तव केशव
वरं वरय तस्मात्त्वं वत्स यं मनसेच्छसि
निशम्य वचनं भानोर्विष्णुर्भक्त्या समन्वितः
कृतकृत्योऽस्मि देवेश नास्ति धन्यतरो मम
यदि तुष्टो मम विभुर्भक्त्या क्रीतो मया यदि तथा मम वरं देहि सर्वाराति विनाशनम्
मम स्थानं च परमं सर्वलोकनमस्कृतम्