वर्षांतरे च तत्स्वर्णं व्ययं कृत्वा कुमार्गके
पुनश्च श्वशुरस्यैव गृहे संप्राप्तवान्खलः
मया निवेदितं पित्रे धनं चौरैश्च लुंठितम्
तथेत्युक्त्वा महाधूर्त उवास कतिचिद्दिनम्
हत्वा तां स ययौ गेहं गृहीत्वा बहुभूषणम्
इति श्रुत्वा शुकः प्राह भूपतिं करुणानिधिम्
अधमा मेनका नारी श्यामांगा च कुरूपिणी 3.2.4.
शृणु तत्कारणं भूप मया दृष्टं महोत्तमम्
तस्य पुत्रस्तु मेधावी सिन्धुगुप्तो गुणी धनी
विवाहमकरोत्तस्य जयश्रीपत्तने शुभे
श्रीदत्तस्तु गतो देशं वाणिज्यार्थं कुरुस्थलम्
जयलक्ष्मीस्तु कामेन पीडिता पितृमंदिरे
दूती मार्गेण तं प्राप्य व्ययं कृत्वा धनं बहु
त्रिमासान्ते च तत्स्वामी श्रीदत्तः श्वशुरालये
अर्धरात्रे तु तन्मात्रा प्रेषिता स्वपतिं प्रति
बहुमानेन स्वपतिस्नेहं कृत्वालयं ययौ
शून्यालये होमदत्तो दंशितो भुजगेन वै 3.2.4.
वेगेन रमयामास तं जारं विषमोहितम्
शवदेहं च संप्राप्य रमणीं तामरीरमत्
कफल्लो नाम चौरस्तु दृष्ट्वा तत्कारणं तदा
तदा तु जयलक्ष्मीश्च स्वपतिं प्राप्य दुर्भगा
नासाहीनां सुतां दृष्ट्वा सोमदत्तो महाधनः
नृपाज्ञया राजदूतास्तमुद्बंधनमादधुः
मत्वा तस्य वचः सत्यं जयलक्ष्मीं महाधमाम्
नगरात्प्रेषयामास वनं शार्दूलसेवितम्
इत्युक्त्वा स तु वैतालो विक्रमं प्राह नम्रधीः
तमो न पुंसकं ज्ञेयं त्रिलिंगैकं तदव्ययम् ।। 3.2.4.
अव्ययं ब्रह्मणो धाम माया लिंगस्वरूपिणी
क्लीबा स्त्री सर्वदा श्रेष्ठा स्त्रियास्तु पुरुषस्तथा
क्लीबमज्ञानमधिकं कथितं पूर्वकोविदैः