त्यक्त्वा मानमहंकारं कुर्वंतस्तप उत्तमम्
व्योम्नि कृत्वा चतुष्कोणं ब्रह्मा नित्यमपूजयत्
हरोऽपि सततं वीर तेजसा वह्निसन्निभम्
दिव्यवर्षसहस्रांते पूजयंतो दिवाकरम्
अतोषयन्महात्मानं कुर्वाणास्तप उत्तमम्
अथ तेषां महाराज प्रसन्नो भुवनाधिपः 1.155.
कृष्णात्मा च महातेजाश्चतुर्धा योगतोनघ
अन्येन शंकरं मन्ये अन्येन गरुडध्वजम्
एवं योगबलाद्भानुः कृतवान्महदद्भुतम्
पूजयन्तं महद्व्योम भूगतैर्मुखपङ्कजैः
पश्यपश्य सुरश्रेष्ठ वरदं मामुपागतम्
दृष्ट्वा जगाम प्रणतो ह्यवनिं मुखपंकजैः उवाच परमं वाक्यं कृतांजलिपुटः स्थितः
नमस्ते भूत भव्येश भूतादे भूतभावन
प्रसादं कुरु मे देव प्रसन्नोऽथ दिवाकरः
त्वं मे प्रथमजः पुत्रः संभूतः कारणात्पुरा
वरं वरय भद्रं ते वरदोस्मि तवाग्रतः 1.155.
कर्तुं शक्नोमि सृष्टिं च प्रसादात्तव गोपते
तवान्वये गमिष्यामि पुत्रत्वं हि मरीचये
ततो यास्यति ते सिद्धिं कृत्स्ना सृष्टिश्चतुर्मुख
एवमुक्तो विरिंचिस्तु रविणा पृथिवीपते
पुनराह सुरज्येष्ठः प्रणम्य शिरसा रविम्
तत्र देवकदंबैस्तु भवान्नित्यं निवत्स्यति
इन्द्रः पूर्वदिशो भागे आग्नेय्यां शांडिलीसुतः
पश्चिमायां तु वरुणो वायव्यां तु सदागतिः
ऐशान्यां शंकरो देवो मध्ये त्वं विष्णुना सह
कृतकृत्यं तथात्मानं मन्यते च नराधिप 1.155.
स च सिद्धिं गतो वीर प्रसादाद्भास्करस्य तु
जगाम सह देवेन पर्वतं गन्धमादनम्
कपर्दिनं शूलधरं चन्द्रार्ककृतशेखरम्
गन्धमाल्योपहारैश्च नृत्यगीतप्रवादितैः । संपूज्यैव महद्व्योम जगाम शिरसा महीम्