ततो ब्रह्मादयो देवाः श्रुत्वा वाक्यं विभावसोः
धन्या देव वयं सर्वे कृतकृत्यास्तथैव च
संभूता ज्ञानिनः सर्वे भवतो दर्शनाद्वयम्
वयं त्वन्मूर्तयः सर्वे तेजसा तव संवृताः
स्थिताः सर्वे सुरज्येष्ठ लोकपालाश्च कृत्स्नशः
इत्थं तेषां वचः श्रुत्वा भास्करो वारितस्करः 1.155.
आदित्य उवाच एवमेतन्न संदेहो यदा वदथ सुव्रताः
यदेतद्दर्शनं देवाः प्रमाण च यदुत्तमम्
युष्माकं देवशार्दूलास्तन्निबोधत कारणम्
प्रबोधार्थं हि युष्माकं तमसो नाशनाय च
तस्मादेवं विदित्वा तु नाहंकारः कदाचन
मानं दर्पमहंकारं पूर्वं त्यक्त्वा सुदूरतः
ततो द्रक्ष्यथ मे रूपं सकलं निष्कलं च यत्
एवमुक्त्वा महाराज सहस्रकिरणो विभुः
अथ ते विस्मिताः सर्वे ब्रह्मविष्णुपिनाकिनः
परस्परमथोचुस्ते विस्मयेन तदा नृप 1.155.
बृहद्भानुर्महातेजा लोकदीपो विभावसुः
आराधयामस्तं सर्वे गत्वा स्थानानि कृत्स्नशः
तद्व्योम पूजयित्वा तु परया श्रद्धया विभोः
जगाम पुष्करं ब्रह्मा शालग्रामं जनार्दनः
त्यक्त्वा मानमहंकारं कुर्वंतस्तप उत्तमम्
व्योम्नि कृत्वा चतुष्कोणं ब्रह्मा नित्यमपूजयत्
हरोऽपि सततं वीर तेजसा वह्निसन्निभम्
दिव्यवर्षसहस्रांते पूजयंतो दिवाकरम्
अतोषयन्महात्मानं कुर्वाणास्तप उत्तमम्
अथ तेषां महाराज प्रसन्नो भुवनाधिपः 1.155.
कृष्णात्मा च महातेजाश्चतुर्धा योगतोनघ
अन्येन शंकरं मन्ये अन्येन गरुडध्वजम्
एवं योगबलाद्भानुः कृतवान्महदद्भुतम्
पूजयन्तं महद्व्योम भूगतैर्मुखपङ्कजैः