१७ यदि देवार्थदानं१ स्यात्ततो देवलका द्विजाः । देवद्रव्याभिलाषश्च ब्राह्मण्यं तु विमुञ्चति । । १८ देवद्वारे च यद्दानं ब्राह्मणाय प्रयच्छति । द्वावेतौ पापकर्तारावात्मदोषेण मानवौ । । १९ देवार्थदानं२ वार्ष्णेय यद्गृहीत्वा च यो द्विजः । श्राद्धे वा यदि वा सत्रे तज्जुहोति ददाति वा । । भिन्न वृत्तो द्विजः पापो राक्षसः सोऽभिजायते । । 1.139.२० द्विजो देवलको यत्र पङ्क्त्यां भुङ्क्ते महीपते । अन्नान्युपस्पृशेन्नीचा सा पङ्क्तिः पापमाचरेत् । । २१ द्विजो देवलको यस्य संस्कारं सम्प्रयच्छति । सोऽधोमुखान्पितॄन्सर्वानाक्रम्य विनिपातयेत् । । २२ आत्मानं पातयेद्यस्तु सोन्यानुद्धरते कथम् उद्धरिष्यति चात्मानमित्येषा कल्पनाधमा । । २३ यो हठाच्च भयाच्चैव कुरुते रविवेश्मनः । वृत्तिं विधत्ते विप्रत्वात्पतितस्स तु जायते । । २४ सप्रतिग्रहमन्त्रेण द्विजोऽश्नाति परिग्रहम् । देवप्रतिग्रहार्थेषु वेदवाक्यं न विद्यते । । २५ तस्माद्राजा न देवार्थं विप्रे दद्यात्कथञ्चन । ब्रह्मसूत्रमहं छित्त्वा गमिष्यामीति गम्यताम् । । २६ साम्ब उवाच अग्राह्यं चेद्द्विजातिभ्यः कस्मै देयमिदं मया । श्रुतं वा दृष्टपूर्वं वा तन्मे व्याख्यातुमर्हसि । । २७ गौरमुख उवाच मगाय सम्प्रयच्छ त्वं पुरमेतच्छुभं विभो । तस्याधिकारो देवान्ने देवतानां च पूजने । । २८ साम्ब उवाच कोऽयं मगेति ते प्रोक्ताः क्व वासौ वसते विभो । कस्य पुत्रो द्विजश्रेष्ठ किमाचारः किमाकृतिः । । २९ गौरमुख उवाच योऽयं मगेति वै प्रोक्तो मगो दिव्यो द्विजोत्तमः । निक्षुभायां १ सुतो वीर आदित्यात्मज उच्यते । । 1.139.३० साम्ब उवाच कथं स निक्षुभापुत्रः कथं वीरसुतस्तथा । कथं चादित्यतनयो मगोऽसावुच्यतेनऽघ । । ३१ गौरमुख उवाच मानुषत्वं गता देवी निक्षुभा किल यादव । गता शापमवाप्येह भास्कराल्लोकपूजिता । । ३२ गोत्रं मिहिरमित्याहुस्तस्मै ब्राह्मण्यमुत्तमम् । सुजिह्वा नाम धर्मात्मा ऋषिपुत्रः पुरानघ । । ३३ तस्यात्मजा समुत्पन्ना निक्षुभा सा वराङ्गना । रूपेणाप्रतिमा लोके हारलीला मता तु सा । । ३४ पितुर्नियोगात्सा कन्या विहरेज्जातवेदसि । । ३५ विहरन्ती यथान्यायं समिद्धे पावके तथा । अथ तां देवदेवेशो ह्यंशुमाली ददर्श ह । । ३६ रूपयौवनसम्पन्नां ततः कामवशं गतः । चिन्तयामास देवेशः कथं तां वै भजाम्यहम् । । ३७ अनयावहृतो योऽयं पावको देवपूजितः । वनमाविश्य तन्वङ्गीं भजेयं लोकपूजिताम् । । ३८ इति सञ्चिन्त्य देवेशः सहस्रांशुर्दिवस्पति । विवेश पावकं वीर तत्पुत्रश्चाभवत्तदा । । ३९ ततो विलासलावण्यरूपयौवनशालिनी । समिद्धं लङ्घयित्वाग्निं जगामायतलोचना । । 1.139.४० क्रुद्धः स्वरूपमास्थाय दृष्ट्वा कन्यां स पीडितः । करं करेण सङ्गृह्य ततस्तां हव्यवाहनः । । ४१ उवाच यदुशार्दूल नोदितो भास्करेण तु । वेदोक्तं विधिमुत्सृज्य यथाहं लंघितस्त्वया । ।४ २ तस्मान्मत्तः समुत्पन्नो न च पुत्रो भविष्यति । जरशब्द इति ख्यातो वंशकीर्तिविवर्धनः । । ४३ अग्निजात्या मगाः प्रोक्ताः सोमजात्या द्विजातयः । भोजकादित्यजात्या हि दिव्यास्ते परिकीर्तिताः । ।४४ तामेवमुक्त्वा भगवानादित्योऽन्तरतस्तदा । अथोत्पन्नां प्रजां ज्ञात्वा ध्यानयोगेन वै ऋषिः । । ४५ पतितः स्यान्महातेजा ऋग्जिह्वः सुमहामतिः । शापमुद्यम्य तेजस्वी ऋग्जिह्वो वाक्यमब्रवीत् । । ४६ आत्मापराधात्कामिन्या यथा गर्भो नलावृतः । सम्भूतस्ते महाभागे अपूज्योऽयं भविष्यति । । ४७ पुत्रशोकाभिसन्तप्ता बाला पर्याकुलेक्षणा । चिन्तयामास दुःखार्ता तमेकं ज्वलनाकृतिम् । । ४८ ततो देववरिष्ठस्य मम योनिसमुद्भवः । अयं दत्तो महाशापः पूज्यतां कर्तुमर्हसि । ।४ ९ भवेत्पूज्यो हि मे पुत्रो देवेश्वर तथा कुरु । एवं चिंतयमानस्तु भगवानर्यमा किल । । 1.139.५० आग्नेयं रूपमाश्रित्य चेदं वचनमब्रवीत् । स्निग्धो गम्भीरनिर्घोषः शान्तो ज्वरविवर्जितः । । ५१ ऋग्जिह्रः सुमहातेजा धर्मं चरति सुव्रत । तेनोत्सृष्टं महाशापं नान्यथा कर्तुमुत्सहे । । ५२ किं तु कार्यगरीयस्त्वादात्मनो योग्यमुत्तमम् । तव पुत्रं विधास्यामि चापूज्यं वेदपारगम् । । ५३ वंशश्च सुमहांस्तस्य निवसिष्यति भूतले । ममाङ्गानि महात्मानो वाशिष्ठा ब्रह्मवादिनः । । ५४ मद्गायना मद्यजना मद्भक्ता मत्परायणाः । मम शुश्रूषकाश्चैव मम च व्रतचारिणः । । ५५ त्वां च मां च यथान्यायं वेदं तत्त्वार्थदर्शिनः । पूजयिष्यन्ति निरताः सदा मद्भावभाविताः । । ५६ मत्कर्मणां मदङ्गानां मद्भावविनिवेशनात् । विरजा मत्प्रसादेन मामेवैष्यन्त्यसंशयम् । । ५७ जटाश्मश्रुधरा नित्यं सदा मयि परायणाः । पञ्चकालविधानज्ञा वीरकालस्य यज्विनः । । ५८ पूर्णेकदक्षिणे पाणौ वर्म वामेन धारयन् । पतिदानेन वदनं प्रच्छाद्य नियतः शुचिः । । ५९ प्राणं हि महतां कृत्वा ततो भुञ्जीत वाग्यतः । अयमाच्चाप्रसादाच्च व्याकुलेन्द्रियचेतसा । । 1.139.६० विधिहीनं मंत्रहीन ये वै यक्ष्यन्ति मामतः । तेऽपि स्वर्गाच्च्युताः क्लान्ता रमन्ते सूर्यसन्निधौ । । ६१ एवंविधास्तव सुता भविष्यन्ति महीतले । मगवंशे महात्मानो वेदवेदाङ्गपारगाः । । ६२ एवमाश्वास्य तां देवीं भास्करो वारितस्करः । अन्तदर्धे महातेजाः सा च हर्षमवाप ह । । ६३ एवमेते समुत्पन्ना भोजकाः कृष्णनन्दन । विष्णुभास्ते तथादित्या उत्पन्ना लोकपूजिताः । । ६४ तेषामेतत्पुरं देहि पर्याप्तास्ते प्रतिग्रहे । त्वदीयस्यास्य मे वीर तथा भास्करपूजने । । ६५ तस्य गौरमुखस्येदं वाक्यं श्रुत्वा स यादवः । साम्बो जाम्बवतीपुत्रः प्रणम्य शिरसोक्तवान् । । ६६ क्व वसन्ते महात्मान एते भास्करपुत्रकाः । भोजका द्विजशार्दूल येन तानानयाम्यहम् । । ६७ गौरमुख उवाच नाहं जाने महाबाहो वसन्ते यत्र वै मगाः । जानीते तान्रविर्वीर तस्मात्तं शरणं व्रज । । ६८ ब्राह्मणेनैवमुक्तस्तु प्रणम्य शिरसा रविम् । जगाद भास्करं साम्बः कस्ते पूजां करिष्यति । । ६ ९- विज्ञप्तस्त्वेव साम्बेन प्रतिमा तमुवाच ह । न योग्याः परिचर्यायां जम्बूद्वीपे ममानघ । । 1.139.७० मम पूजाकरं गत्वा शाकद्वीपादिहानय । लवणोदात्परे पारे क्षीरोदेन समावृतः । । ७१ जम्बूद्वीपात्परो यस्माच्छाकद्वीप इति स्मृतः । तत्र पुण्या जनपदाश्चतुर्वर्णसमन्विताः । । ७२ मगाश्च मगगाश्चैव गानगा१ मन्दगास्तथा । मगा ब्राह्मणभूयिष्ठा मगगाः क्षत्रियाः स्मृताः । । ७३ वैश्यास्तु गानगा ज्ञेयाः शूद्रास्तेषां तु मन्दगाः । न तेषां सङ्करः कश्चिद्धर्माश्रयकृते क्वचित् । । ७४ धर्मस्यास्य विचारो वा ह्येकतः सुखिनः प्रजाः । तेजसस्ते मदीयस्य निर्मिता विश्वकर्मणा । । । । ७५ तेभ्यो वेदास्तु चत्वारः सरहस्या मयोदिताः । वेदोक्तैर्विविधैः स्तोत्रैः परैर्गुह्यैर्मया कृतैः । । ७६ ते च ध्यायन्ति मामेव यजन्ते मां च नित्यशः । मन्मानसा मद्यजना मद्भक्ता मत्परायणाः । । ७७ मम शुश्रूषकाश्चैव मम च व्रतचारिणः । अव्यङ्गधारिणश्चैव विधिदृष्टेन कर्मणा । । ७८ कुर्वन्ति ते सदा भद्रां मम पूजां ममानुगाः । तथा देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । । विहरन्ते रमन्ते च दृश्यमानाश्च तैः सह । । ७९ जम्बूद्वीपे त्वहं विष्णुर्वेदवेदाङ्गपूजितः । शक्रोऽहं शाल्मलीद्वीपे क्रौञ्चद्वीपे ह्यहं भगः
1.139.८० प्लक्षद्वीपे त्वहं भानुः शाकद्वीपे दिवाकरः । पुष्करे च स्मृतो ब्रह्मा ततश्चाहं महेश्वरः । । ८१ तान्मगान्मम पूजार्थं शाकद्वीपादिहानय । आरुह्य गरुडं साम्ब शीघ्रं गत्वाविचारयन् । । ८२ तथेति गृह्य तामाज्ञां रवेर्जाम्बवतीसुतः । पुनर्द्वारवतीं गत्वा कान्त्यातीव समन्वितः । । ८३ आख्यातवान्पितुः सर्वं स्वकीयं देवदर्शनम् । तस्माच्च गरुडं लब्ध्वा ययौ साम्बोऽधिरुह्य तम् । । ८४ शाकद्वीपमनुप्राप्य सम्प्रहृष्टतनूरुहः । तत्रापश्यद्यथोद्दिष्टान्साम्बस्तेजस्विनो मगान् । । ८५ विवस्वन्तं पूजयन्तो धूपदीपादिभिः शुभैः । सोऽभिवाद्य च तान्पूर्वं कृत्वाप्येषां प्रदक्षिणाम् । । ८६ पृष्ट्वा चानामयं तेषां प्रशंसासामपूर्वकम् । यूयं हि पुण्यकर्माणो द्रष्टव्यार्थे शुभार्थिनः । । रता येऽर्कस्य पूजायां येषां चैव वरप्रदः । । ८७ तनयं वित्त मां विष्णोः साम्बं नाम्ना च विश्रुतम् । चन्द्रभागातटे चापि मया सूर्यो निवेशितः । । ८८ तेनाहं प्रेषितश्चात्र उत्तिष्ठध्वं व्रजामहे । ते तमूचुस्ततः साम्बमेवमेतन्न संशयः । । ८९ अस्माकमपि देवेन व्याख्यातां पूर्वमेव हि । अष्टादश कुलानीह मगानां वेदवादिनाम् । । यास्यन्ति ये त्वया सार्धं यथा देवेन भाषितम् । । 1.139.९० ततस्तानि दशाष्टौ च कुलानीह समन्ततः । आरोप्य गरुडे साम्बस्त्वरितः पुनरभ्यगात् । । ९१ सोऽल्पेनैव तु कालेन प्राप्तो मित्रवनं ततः । कृत्वाज्ञां तु रवेः साम्बः कृत्स्नं त्वेवं न्यवेदयत् । । ९२ रविः शोभनमित्युक्त्वा प्रसन्नः साम्बमब्रवीत् । मम पूजाकरा ह्येते प्रजानां शान्तिकारकाः । । ९३ मम पूजां करिष्यन्ति विधानोक्तां यदूत्तम । तत्कृते न पुनश्चिन्ता तव काचिद्भविष्यति । । ९४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकानयनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः
भोजकोत्पत्तिवर्णनम् सुमन्तुरुवाच एवं स आनयित्वा तु मगान्साम्बो महीपते । स महात्मा पुरा साम्बश्चन्द्रभागासरित्तटे । । १ पुरं निवेशयामास स्थापयित्वा दिवाकरम् । कृत्वा धनसमृद्धं तु भोजकानां समर्पयत् । । २ तत्पुरं सवितुः पुण्यं त्रिषु लोकेषु विश्रुतम् । सांबेन कारितं यस्मात्तस्मात्साम्बपुरं स्मृतम् । । ३ तस्मिन्प्रतिष्ठितो देवः पुरमध्ये दिवाकरः । सत्कृत्य स्थापिताः सर्वे आत्मनामाङ्किते पुरे । । ४ मगानां तु सदाचारो दृष्टाचारकुलोचितः । देवशुश्रूषणं गीतं वेदप्रोक्तेन कर्मणा । । ५ कृतकृत्यस्तदा साम्बो वरं लब्ध्वा पुनर्युवा । आदिदेवं सुरज्येष्ठमादित्यं प्रणिपत्य सः । । ६ अनन्तरं मगान्सर्वान्प्रणिपत्याभिवाद्य च । प्रस्थितो निर्मलः साम्बः पुरीं द्वारवतीं तदा । । ७ मगानां कारणार्थेन प्रार्थिता भोजवंशजाः । वसुदेवस्य पौत्रेण गोत्रजेन महात्मना । । ८ कन्यादानं कृतं तेषां मगानां भोजकोत्तमैः । सर्वास्ताः सहिताः कन्याः प्रवालमणिभूषिताः । । ९ अर्चयित्वा तु ताः सर्वाः प्रेषिताः सवितुर्गृहम् । पुनर्गत्वा तु सांबेन पृष्टो देवो दिवाकरः । । 1.140.१० मगानां ज्ञानमाख्याहि१ वेदानव्यङ्गमेव च । साम्बस्य वचनं श्रुत्वा भास्करो वाक्यमब्रवीत् । । ११ पृच्छ त्वं नारदं गत्वा स ते सर्वं वदिष्यति । एवमुक्तोऽथ वै साम्बो गतवान्नारदं प्रति । । १२ गत्वा कृत्स्नमिदं सर्वं तस्मै तेन निवेदितम् । स चाप्याह ततः साम्बं न जाने ज्ञानमुत्तमम् । । १३ भोजकानां यदुश्रेष्ठ ज्ञानं व्यासो महामुनिः । तं गत्वा परिपृच्छ त्वं प्रणम्य शिरसा मुनिम् । । १४ कृष्णानुरोधात्ते सर्वं स वक्ष्यति न संशयः । नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः । । १५ व्यासाश्रमं स गत्वा तु प्रणम्य शिरसा मुनिम् । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । १६ शाकद्वीपं मया गत्वा आनीता मगपुङ्गवाः । बाला यौवनसम्पन्नाः सन्निविष्टा मगोत्तमाः । । १७ सत्कृत्य पूजयित्वा तु पुरं तेषां समर्पितम् । सम्प्राप्य तु पुरं ते वै ज्येष्ठमध्यकनीयसः । । १८ भोजवंशसमुत्पन्नाः कन्यकाः समलङ्कृताः । वरयित्वा कृतं तेषां विप्रप्रणयनं शुभम् । । १९ अहो सभाग्याः श्लाघ्याश्च कृतपुण्याश्च ते सदा । पूजायां ये रता भानोर्येषां चैव वरप्रदः । । 1.140.२० पर्याप्तं सर्वमेतेषामिह चामुष्मिकं फलम् । अनित्ये सति मानुष्ये देवपूजारता हि ये । । २१ किन्तु चिन्तयतः सूर्यं चिन्तयित्वा तु भोजकान् । ज्ञानं प्रति तथा चैषां हदये संशयो मम । । २२ कथं पूजाकरा ह्येते के मगाः के च भोजकाः । ज्ञानं किं परमं तेषां ज्ञेयस्तेषां क एव तु । । २३ दिव्येति ते कथं प्रोक्ताः किमर्थं कूर्चधारणम् । सौरव्रतं किमर्थं तु वाचकास्ते कथं स्मृताः । । २४ किमर्थं तेजसा वेदान्गायन्तश्चैव ते कथम् । अथाहिकञ्चुकस्याङ्गं किं प्रमाणं च कस्य वै । । २५ कस्य वै का समाख्याता यदुत्पन्नं कथं स्मृतम् । कथं देवांश्च गायन्ति यज्ञं कुर्वन्ति ते कथम् । । २६ अग्निहोत्रं च किं तेषां पञ्च दोलाश्च काः स्मृताः । एतत्सर्वं समाख्याहि भोजकानां विचेष्टितम् । । २७ साम्बस्य वचनं श्रुत्वा कृष्णद्वैपायनो मुनिः । कालीसुतो महातेजा उवाच परमं वचः । । २८ साधुसाधु यदुश्रेष्ठ साधु पृष्टोऽस्मि सुव्रत । दुर्ज्ञेयचेष्टितं किञ्चिद्भोजकानां न संशयः । । २९ भास्करस्य प्रसादेन ममापि स्मृतिमागतम् । यथाख्यातं वशिष्ठेन तथा ते वच्मि कृत्स्नशः । । 1.140.३० मगानां चरितं श्रेष्ठं शृणु त्वं कृष्णनन्दन । ज्ञानवेदिन एवैते कर्मयोगं समाश्रिताः । । ३१ श्रूयन्ते ऋषयः सर्वे मौनेन नियमस्थिताः । भुञ्जते चापि मौनेन सर्वे वै परमर्षयः । । ३२ मुनिचर्याकृतस्तेऽपि शाकद्वीपनिवासिनः । तस्मान्मौनेन भोक्तव्यमगुणत्वमनिच्छता । । ३३ वचः सूर्यसमाख्यातं कारणं च वरं तथा । अर्चायां ते च ते नित्यमर्चयन्तश्च ते स्मृताः । । ३४ भोजकन्यासुजातत्वाद्भोजकास्तेन ते स्मृताः । ब्राह्मणानां यथा प्रोक्तो वेदाश्चत्वार एव तु । । ३५ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्त्वथर्वणः । ब्रह्मणोक्तास्तथा वेदा मगानामपि सुव्रत । । ३६ त एव विपरीतास्तु तेषां वेदाः प्रकीर्तिताः । वेदो विश्वमदश्चैव विद्वद्वह्निरसस्तथा । । ३७ वेदा ह्येते मगानां तु पुरोवाच प्रजापतिः । मगा वेदमधीयन्ते वेदाङ्गास्तेन ते स्मृताः । । ३८ शेषो न हि महाभागः सर्वसत्त्वसुखावहः । ससूर्यरथमासाद्य रथिभिः सह वर्षति । । ३९ यस्तस्य तु पुनर्मोकं स रवेर्हि महानकः । वन्दितव्यो मगानां तु अस्त्रमन्त्रेण नित्यशः । ।1.140.४ ० यथा स्रजो द्विजानां तु पूजाकाले प्रमीयते । सर्वसंस्कारयज्ञेषु यथा दर्भा द्विजातिषु । ।४ १ पवित्राः कीर्तितास्तेषां तथा धर्मो मगस्य तु । एभिर्जयन्ति भूयिष्ठं तस्मिन्द्वीपे मगाधिपाः । ।४२ विद्यावन्तः कुलश्रेष्ठाः शौचाचारसमन्विताः । यज्ञावसक्ता१ भक्ताश्च जपन्तो मन्त्रमादितः । ।४ ३ प्रियास्तु यदुशार्दूल भोजका यदुनन्दन । अस्त्रमिव वै मन्त्रो वेदस्य परिपठ्यते । ।४४ सर्वेषां ब्राह्मणानां तु सावित्री परिकल्प्यते । अस्माकं तु यदुश्रेष्ठ महाव्याहृतिपूर्तिका । ।४५ अमोहकेनाथ विमानभुञ्जी मौनेन चैवापि यथा हि युक्तम् । न चापि किञ्चित्स्मृतिकं स्पृशेच्च तच्चापि नात्रैव च संस्पृशेद्धि । । ४७ श्वसन्त्यनिच्छंस्तु परिक्षिपेत्तु स्वाभीष्टसूर्यं तु नमेत्सदैव । यथा यज्ञं हि मन्त्रेण वेदप्रोक्तेन कर्मणा । ।४७ तत्त्वमन्यन्मगानान्तु विधिमन्त्रपुरस्कृतम् । हविः सम्पद्यते यस्मात्तेन ते यज्विनः स्मृताः । ।४८ यथाग्निहोत्रं प्रथितं द्विजानां तथाध्वहोत्रं विहितं मगानाम् । अच्छं च नामेति तदध्वरस्य मुनेर्वचो नात्र विचारणास्ति । ।४९ पञ्चधूपाः प्रदातव्याः सिद्धिरस्येह सर्वदा । दण्डनायकवेले द्वे त्रिसन्ध्यं भास्करस्य तु । । 1.140.५० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकोत्पत्तिवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः
भोजकजातिवर्णनम् साम्ब उवाच भोजकानां यत्त्वयोक्तमव्यङ्गो देहशोधकः । व्रतबन्धस्त्वसौ प्रोक्तस्तेषां जातिश्च का स्मृता । । १ व्यास उवाच ते पृष्टा भवता सर्वे भोजकानां कुमारकाः । किमाख्यातं ततस्तैस्तु तदेवाचक्ष्व कृत्स्नशः । । २ साम्ब उवाच सन्निवेषा मया प्रोक्ता भोजकानां समन्ततः । ममैव ब्रूत तत्त्वं तद्वर्णः कोऽत्र कथं स्थितः । । ३ ततस्तु भगवान्प्राह वाक्यं वाक्यविशारदः । ये त्वयोक्ता श्रुताः साम्ब भोजकानां कुमारकाः । । ४ ममैवैते मगा ज्ञेया अष्टौ शूद्रा मदङ्गजाः । एतद्बुद्ध्वा तु वचनं प्रणम्य शिरसा रविम् । । ५ दत्ता भोजकुलोत्पन्ना दशभ्यो दशकन्यकाः । ततस्तु मन्दकेभ्योऽपि दत्ताश्चाष्टौ हि कन्यकाः । । ६ ततो निवेशितं तेषां मया साम्ब पुरं स्मर । दासकन्यास्तु याश्चाष्टौ भोजकन्याश्च या दश । । ७ एतास्तेषां कुमाराणां ज्ञेयास्ता दश चाष्ट च । तत्र ते भोजकन्यासु द्विजैरुत्पादिताः सुताः । । ८ भोजकास्तान्गणान्प्राहुर्ब्राह्मणान्दिव्यसंज्ञितान् । दासकन्यासु ये जाता मन्दगैरन्त्यसंज्ञितैः । । ९ मदङ्गा नाम ते ज्ञेयाः सवितुः परिचारकाः । ते च विप्रपुरे तस्मिन्पुत्रदारशुभैर्वृताः । । 1.141.१० स्वधर्मैर्यष्टुमारब्धैः शाकद्वीपेऽर्चितो रविः । नानाविधैर्वैदिकैस्तु मन्त्रैर्मुनिवरोत्तमाः । । ११ अव्यङ्गधारिणो मर्त्याः पूजयन्ते दिवस्पतिम् । दृष्ट्वा व्यङ्गं तु वै तेषां कौतूहलसमन्वितः । । १२ साम्बः प्राह नमस्कृत्य भूयः सत्यवतीसुतम् । कथं वरोऽयमव्यङ्गः कथितो मुनिसत्तम । । १३ कुत एष समुत्पन्नः कस्माच्च स शुचिः स्मृतः । बन्धनीयः कदा चायं किमर्थं चैव धार्यते । । किं प्रमाणं च भगवन्व्यङ्गश्चायं किमुच्यते । । १४ सुमन्तुरुवाच श्रुत्वैवं वचनं व्यासो जाम्बवत्याः सुतस्य च । । १५ उवाच कुरुशार्दूल साम्बं कालीसुतः स तु । । व्यास उवाच एतच्च मे यथोक्तस्त्वं जातिरेषां न संशयः । । १६ अव्यङ्गस्यापि ते वच्मि लक्षणं गदतः शृणु । । १७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकजातिवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः
व्यड्गोत्पत्तिनामवर्णनम् व्यास उवाच देवता ऋषयो नागा गन्धर्वाप्सरसां गणाः । यक्षरक्षांसि वै भानौ निवसन्ति ऋतुक्रमात् । । १ तत्र तु वासुकिर्ह्यब्दमुद्यत्सूर्यरथं जवात् । स्वस्थानमाजगामाशु नमस्कृत्य दिवाकरम् । । २ अव्यङ्गमेव सूर्याय प्रीत्यर्थं वै समर्पयत् । गाङ्गेयभूषितं दिव्यं नातिरक्तसितं शुभम् । । ३ बबन्ध तं च तत्प्रीत्यै मध्यभागे तमात्मनः । नागराजाङ्गसम्भूतो धृतो यस्माच्च भानुना । । ४ तत्तस्माद्धार्यते सूर्यप्रीत्यै तद्भक्तिमिच्छता । विधानेन च तत्त्वेन शुचिर्भवति भोजकः । । ५ नित्यं च धारणात्तस्य भवेत्प्रीतो दिवाकरः । न धारयन्ति ये त्वेवं भोजकाः पूजकाः रवेः । । ६ सौरहीना न ते याज्या उच्छिष्टा नात्र संशयः । स्मृत्याचारे ते हि भग्ना रविं नार्हन्ति पूजितुम् । । ७ पूजयन्तो रविं ते हि नरकं यान्ति रौरवम् । न वै हसेन्न उत्तिष्ठेद्यावदर्चा लभन्ति ते । । ८ इत्थं ज्ञात्वा न सन्देहो ह्यव्यङ्गेन विना रविः । नागराजस्य संस्पृष्टो ह्यारसुस्तेन संस्मृतः । । ९ एकवर्णः स कर्तव्यः कार्यसिद्धिकरस्तथा । प्रमाणेनाङ्गुलानां तु शताद्धि शतमुत्तरम् । । 1.142.१० उत्कृष्टोऽयं प्रमाणेन मध्यमो विंशदुत्तरः । शतमष्टोत्तरं ह्रस्वो न तु ह्रस्वतरस्ततः । । ११ तदाकृतिः कृतश्चैष निर्मितो विश्वकर्मणा । मध्यमे भोजकानां तु परः शत उदाहृतः । । १२ संस्कृतोऽपि विना तेन शुचिर्नैव भवत्युत । तेनास्य धारणाद्वीर शुचिरेव तदा भवेत् । । १३ हविर्होमादिकाः सर्वा भवन्त्यस्य क्रियाः शुभाः । अव्यङ्गः पतिताङ्गश्च अव्यङ्गोऽथ महीपते । । १४ एष सारश्च सा रम्या वै ज्ञेया जयनामभिः । अहेरङ्गात्समुत्पन्नो ह्यव्यङ्गस्तु ततः स्मृतः । । १५ यस्मादस्मादहेरङ्गमव्यङ्गस्तेन चोच्यते । अर्हेति पूजायां धातोः प्रत्ययो ण्वुल्ततः स्मृतः । । १६ पूजितश्च पवित्रश्च यस्मात्तेनार्हकः स्मृतः । सारसार्तः स्मृतं रूपं प्रधानं सार उच्यते । । १७ षण भक्तौ स्मृतौ धातुस्तस्मात्सारसनः स्मृतः । यस्मादर्चितमेवं तु सुवर्णमणिमौक्तिकैः । । १८ स ज्ञेयः पतिताङ्गस्तु नित्ययज्ञैरुपाहृतः । इत्येते कथिता वीर अव्यङ्गा व्यङ्गभोजकाः । । १९ ऋद्धिवृद्धिकरो नित्यं कायशुद्धिकरस्तथा । सर्ववेदमयश्चायं सर्वदेवमयस्तथा । । 1.142.२० सर्वभूतमयः साम्ब सर्वलोकमयस्तथा । मध्येऽस्य संस्थितो ब्रह्मा मूले विष्णुर्महामते । । २१ शशाङ्कमौलिरन्त्ये तु संस्थितो यदुनंदन । ऋग्वेदोऽस्य स्थितो मूले यजुर्वेदोऽस्य मध्यगः । । २२ अग्रे स्थितः सामवेदो ग्रन्थिराङ्गिरसोनघ । पृथ्वी मूलमाश्रित्य स्थिता च यदुसत्तम । । २३ मूलाशनास्त्वपः साम्ब मध्ये देवो विभावसुः । तासामनन्तरं वात आकाशोऽग्रे समास्थितः । । २४ मूले स्थितस्तु भूर्लोको भुवर्लोकस्तु मध्यगः । स्वर्लोकश्चाग्रमाश्रित्य स्थितो व्यङ्गस्य यावता । । २५ एवं देवमयः सांब एवं लोकमयस्तथा । धारणीयो महान्भक्त्या पूजकः प्रीतये रवेः । । २६ पूजयन्ति रविं ये वै विनानेन यदूत्तम । पूजाफलं न तेषां स्यान्नरकं च व्रजन्ति हि । । २७ तथा तेषां भवेन्नित्यमव्यङ्गो भोजकः सदा । अन्यकाले यदुश्रेष्ठ इत्येतत्कथितं तव । । २८ बन्धने कारणं वीर भूषणानि च सुव्रत । । २९ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने व्यङ्गोत्पत्तिर्नाम द्विचत्वारिंशदधिकशततमोऽध्यायः
धूपादिविविधविधिवर्णनम् सुमन्तुरुवाच श्रुत्वैवमेव साम्बेन व्यासात्सत्यवतीसुतात् । अव्यङ्गस्य च उत्पत्तिं पुनरागान्महामतिः । । १ अथागत्य महातेजाः साम्बो गत्वाश्रमं पुनः । । २ नारदस्य महाबाहोर्नारदं वाक्यमब्रवीत् । कथमुत्क्षिप्य वै धूपं भोजकैः सवितुर्मुने । । ३ स्नानमाचमनं चैवमर्घ्यदानं महात्मने । साम्बस्य वचनं श्रुत्वा नारदो मुनिसत्तमः । । ४ उवाच कुरुशार्दूल साम्बं जाम्बवतीसुतम् । हन्त ते कथयिष्यामि रवेर्धूपविधिक्रमम् । । ५ स्नानमाचमनं चैव स्वर्णदानं तथैव च । आचान्तस्त्रिस्ततः स्नात्वा वाससी निर्मले शुभे । । ६ अनार्द्रे संवसीतैव पवित्रे परिधाय च । उदङ्मुखः प्राङ्मुखो वाप्याचामेच्च प्रयत्नतः । । ७ जले जलस्थो नाचामेज्जलादुत्तीर्य यत्नतः । अप्सु सूर्यस्तथाग्निश्च माता देवी सरस्वती । । ८ तस्मादुत्तीर्य चाचामेन्नाचामेत्तु जलाशये । उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः । । ९ पादौ प्रक्षाल्य हस्तौ च अन्तर्जानुस्तथाचमेत् । प्रसन्नास्त्रिः पिबेत्त्वापः प्रयतः सुसमाहितः । । 1.143.१० सम्मार्जनं तु द्विः कुर्यात्त्रिभिरभ्युक्षणं पुनः । मूर्धानं खानि चात्मानमुपस्पृश्यानु पूर्वशः । । ११ आचान्तोऽर्कं नमस्कृत्य शौचेषु शुचितामियात् । क्रियां यः कुरुते मोहादनाचम्येह नास्तिकः । । १२ भवन्तीह क्रियाः सर्वा वृथा तस्य न संशयः । शुचिकामा हि वै देवा वेदैरेवमुदाहृताः । । १३ इनोपासाकृतश्चैव सर्वे देवाः प्रयत्नतः । शौचमेव प्रशंसन्ति शौचाङ्गैर्हि विधीयते । । १४ आचान्तो मौनमास्थाय देवागारं ततो व्रजेत् । श्वासरोधनिमित्तं तु प्राणमाच्छाद्य वाससा । । १५ शिरः प्रावृत्य यत्नेन केशोदकनिवृत्तये । ततः पूजां रवेः कुर्यात्पुष्पैर्नानाविधैः शुभैः । । १६ गायत्रीं सशिरस्कां च यजमानः प्रयत्नतः । धूपं ततोऽग्नये दद्यात्प्रथमं गुग्गुलाहुतम् । । १७ पुष्पाञ्जलिं ततो गृह्य तच्छिखायां प्रयत्नतः । रवेर्मूर्धनि तं दद्याद्देवमन्त्रमुदाहरन् । । १८ ॐ व्रतेन यद्व्रतिनो वर्जयन्ति देवा मनुष्याः पितरश्च सर्वे । तस्यादित्यं प्रसरं च मनामहे यस्तेजसा प्रथमं नाविभाति । । १९ धूपवेलाः स्मृताः पञ्च धूपेष्वेव तु पञ्चसु । हवनाद्याः क्रियाः पञ्च रक्षिष्येऽहं तथा पुनः । 1.143.२० दण्डनायकवेला तु प्रत्यूषे ऋक्षदर्शनात् । नाज्ञावेला प्रदोषस्तु तत्त्वकार्यं विजानता । । २१ त्रिकालं तु रवेः पूजा कर्तव्या सूर्यदर्शनात् । अर्धोदितस्तु पूर्वाह्णे ततोऽर्द्धस्तु रविर्विभुः । । २२ हेलयेति च पूर्वाह्णे मध्याह्ने ज्वलनाय च । तथैव मण्डले देयं नीचाह्ने ज्वलनाय च । । २३ चन्दनोदकमिश्राणि गन्धोदकयुतानि च । पद्मानि करवीराणि तथा रक्तोत्पलानि च । । २४ कुसुमोदकमिश्राणि कुरुंटकुसुमं तथा । गन्धादीनि च दिव्यानि कृत्वा वै ताम्रभाजने ।।२५ धूपं दत्त्वाग्नये वीर प्रयत्नाद्गुग्गुलाहुतिम् । अर्घ्यपात्रं तदा गृह्य कुर्यादावाहनं रवेः ।।२६ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्प्य मां देव गृहाणार्घ्यं दिवाकर ।।२७ अनेनावाहनं कृत्वा जानुभ्यामवनीं गतः । रवेर्निवेदयेदर्घ्यमादित्यहृदये गतः ।।२८ ॐ नमो भगवते१ आदित्याय विश्वाय खेशाय ब्रह्मणेलोककर्तृणे। ईशानाय पुराणाय सहस्राक्षाय ते नमः ।।२९ सोमाय ऋग्यजुरथर्वाय। ॐ भूर्भुवःस्वःॐमहः ॐजनः ॐतपः ॐ सत्यं ब्रह्मणे मुण्डे मध्ये पुरतः 1.143.३ ० नारद उवाच सावित्र्याश्च परे तन्त्रे त्रैलोक्यत्राणकारिणे । परितः परिगृह्याथ धूपभाजनमुत्क्षिपेत् ।।३ १ निवेदयेत्ततो धूपं वाचमेतामुदीरयेत् । त्वमेक एव रुद्राणां वसूनां च पुरातनः ।।३२ देवानां गीर्भिरभितः संस्तुतः शाश्वतो दिवि । पूर्वाह्णे च त्वया तेन मध्याह्ने चापरेण तु ।।३ ३ ॐ नमो भगवते ज्ञानात्मने त्वां च । विष्णोस्तत्परमं पदं सदा पश्यंति सूरयः ।।३४ दिवाकरस्तु सायाह्ने मन्त्रेणार्घ्यं निवेदयेत् । ॐ नमो वरुणाय शम्भवे ।।३५ ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्।।३६ अनेन विधिना दत्त्वा धूपं सूर्याय भोजकः । उत्क्षिपेच्चैव धूपेन विशेद्गर्भगृहं ततः । । ३७ ततः प्रविश्य धूपं तु प्रतिमार्थं निवेदयेत् । मन्त्रेण मिहिरायेति निक्षुभायेति नित्यशः । । ३८ ततो राज्ञै नमश्चेति निक्षुभायै ततो नमः । दण्डनायकसंज्ञाय पिङ्गलाय च वै नमः । । ३९ तथा राज्ञाय स्रौषाय तथेशाय गरुत्मते । ततः प्रदक्षिणं कुर्वन्दिग्देवेभ्यो निवेदयेत् । । 1.143.४० दिण्डिने तु ततो दद्याद्धेमन्ताय यदूत्तम । महेश्वराय दद्यात्तु तथा व्योमाय यादव । ।४ १ (विश्वेभ्यो देवेभ्यो नमः । रुद्रेभ्यो नमः) । ॐ ब्रह्मणे मुण्डपतये आदित्याय पुरुषेश्वराय सूर्याय नमोनमः । । ४२ ॐ अनेककान्तये नत्वा शेषाय वासुकितक्षककर्कोटकाय पद्मशङ्खकुलिकेभ्यो नागराजेभ्यो नमः । ।४ ३ तलसुतलपातालातलवितलरसातलादिवासिभ्यो दैत्यादानवपिशाचेभ्यो नमः । ततः प्रदक्षिणं कुर्यान्मातृकाभ्यो नमोनमः ( ॐ ग्रहेभ्यो नमः । । ४४ ॐ दण्डनायकाय नमः । ॐ मार्तंडाय नमः । ॐ विनायकाय नमः । । ४५) एवमुद्दिश्य नामानि धूपं दत्त्वा वरानन । उत्क्षिप्तो यत्र वै धूपो मुक्त्वा तत्रैव तं पुनः । । ४६ सूर्यगुप्तैरभिष्टूय एवं विज्ञाय ते ततः । अर्चितस्त्वं यथा शक्त्या मया भक्त्या विभावसो । । ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं वदस्व मे । । ४७ एवं त्रिषवणं स्नात्वा योऽर्चयेत्प्रणतो रविम् । विधिना तु यथोक्तेन सोऽश्वमेधफलं लभेत् । । ४८ यश्चैवं कुरुते नित्यं यथोक्तं धूपविस्तरम् । स पुत्रवानरोगी च मृतः संलीयते रवौ । । ४९ विधिना तु यथोक्तेन क्रियमाणानि यत्नतः । सर्वकार्याणि सिद्ध्यन्ति सफलानि भवन्ति च । । 1.143.५० पुष्पं श्रेष्ठं यदा न स्यात्पत्राणि समुपाहरेत् । पत्रं न स्यात्ततो धूपं धूपो न स्यात्ततो जलम् । । ५१ सर्वं न स्याद्यदा चैव प्रणिपातेन पूजयेत् । अशक्तः प्रणिपातस्य मनसा पूजयेद्रविम् । । ५२ असम्भवे तु द्रव्याणां विधिरेष प्रकीर्तितः । द्रव्याणां सम्भवे चैव सर्वमेवोपहारयेत् । । ५३ मन्त्रैः कर्मयुतो यस्तु मित्रे धूपं निवेदयेत् । उच्चारणाच्च वै तेषां धूपप्रीतो भवेद्रविः । । ५४ शिरो नासामुखं चैव भृशमावृत्य यत्नतः । पूजयेद्भास्करं वीर शिथिलं१ तु न कारयेत् । । ५५ नलिनेन तु राजेन्द्र नरो याति दिवाकरम् । तस्माद्युक्तं सदा कार्यं पूज्यते च दिवाकरः । । ५६ तेऽश्वमेधफलं प्राप्य सूर्यलोकं व्रजन्ति हि । धूपेन पूज्यमानं तु नराः पश्यन्ति यादव । । ५७ यान्ति ते परमं स्थानं यन्न पश्यन्ति सूरयः । क्रियमाणं तथार्कं च भक्त्या पश्यन्ति ये नराः । । सर्वान्कामानिह प्राप्य ते यान्ति परमं पदम् । । ५८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने धूपादिविविधवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः
भोजकस्योत्पत्तिवर्णनम् सुमन्तुरुवाच अथाजगाम भगवान्व्यासो द्वारवतीं पुरीम् । द्रष्टुं नारायणं देवं शङ्खचक्रगदाधरम् । । १ तमागतमृषिं दृष्ट्वा वासुदेवो विशांपते । अभ्युत्थाय महातेजाः पूजयामास भारत । । २ स्वयमेवासनं दत्त्वा पाद्यमर्घ्यं तथैव च । पप्रच्छ प्रयतो भूत्वा व्यासं सत्यवतीसुतम् । । ३ य एते भोजका विप्रा आनीता मत्सुतेन वै । शाकद्वीपमितो गत्वा ज्ञानिनो मोक्षगामिनः । । ४ तान्दृष्ट्वा रूपतो विप्र प्रवेशात्कर्मतस्तथा। कौतूहलं समुत्पन्नं हर्षश्च परमो मम । । ५ कथमेते क्षणमपि तिष्ठन्ते पृथिवीतले । येषां रविः सदा पूज्यस्तेषां मुक्तिः सदा वसेत् । । ६ नागत्वा भोजकत्वं हि मोक्षमाप्नोति कश्चन । इदं मे मनसो ब्रह्मन्सदा सम्प्रतिभाति वै । । ७ व्यास उवाच एवमेव यथात्थ त्वं शङ्खचक्रगदाधर । धन्या एते महात्मानो भोजका नात्र संशयः । । ८ ये पूजयन्ति सततं भानुमन्तं दिवाकरम् । ज्ञानिनः कर्मनिष्ठाश्च सदा मोक्षगतिं गताः । । ९ यजन्ते सततं भानुं बलिपुष्पफलैस्तथा । अन्नेनौषधिभिश्चैव आज्यहोमैश्च कृत्स्नशः । । 1.144.१० होमं च शाश्वतं कृत्वा परं होमं ततः श्रिताः । परहोमस्य करणात्पूतात्मानो ह्यकल्मषाः । । ११ विशन्ति परमां दिव्यां भास्करीं तैजसीं कलाम् । कर्मणः साधने चैका तत्र चाग्नौ प्रतिष्ठिता । । १२ वायुमार्गस्थिता व्योम्नि द्वितीयान्तः प्रकाशिका । ततः परं तृतीया तु तत्स्मृतं सूर्यमण्डले । । १३ मण्डलं तच्च सवितुर्दिव्यं ह्यजरमव्ययम् । तस्याऽसौ पुरुषो मध्ये योऽसौ सदसदात्मकः । । १४ क्षराक्षरस्तु विज्ञेयो महासूर्यस्तथैव च । निष्कलः सकलश्चापि द्वौ च तस्य प्रकल्पितौ । । १५ अक्षरः सकलश्चैव सर्वभूतव्यवस्थितः । सतत्त्वः सकलः प्रोक्तस्तत्त्वहीनस्तु निष्कलः । । १६ तृणगुल्मलतावृक्षवृकसिंहद्विजाधिपान् । सुरसिद्धमनुष्यांश्च स्थलजाञ्जलजान्हरेत् । । १७ व्यवस्थितः स सर्वत्र सर्वेषामन्तरात्मनि । यदा कल्पात्मकश्चैव द्वितीयां तनुमाश्रितः । । १८ निष्कलस्तु सदा ज्ञेयः संस्थितस्तैजसीं कलाम् । हिमं घर्मं च वर्षं च त्रैलोक्ये कुरुते सदा । । १९ द्वितीया या तनुस्तस्य अक्षरं तत्परं पदम् । देवयानं तु पन्थानं कर्मयोगेन संस्थिता । 1.144.२० आदित्यसिद्धान्तरिताः साङ्ख्ययोगविदश्च ये । तेऽभिगच्छन्ति तत्स्थानं स मोक्षः परिकीर्तितः । । २१ निर्द्वन्द्वो निर्गमश्चैव तत्र गत्वा न शोचति । वेदेषु ब्रह्म वदन्ति ध्यायन्ते तत्त्ववेदिनः । । २२ अकारं तत्त्वतश्चापि ध्यायन्ते पुरुषोत्तम । त्र्यक्षरं च तमोंकारं सार्धमात्रात्रये स्थितम् । । २३ वदन्ति चार्धमात्रस्थं मकारं व्यञ्जनात्मकम्। ध्यायन्ति ये मकारीयं ज्ञानं ते हि सदात्मकम् । । २४ मकारो भगवान्देवो भास्करः परिकीर्तितः । मकारध्यानयोगाच्च मगा ह्येते प्रकीर्तिताः । । २५ धूपमाल्यैर्युतश्चापि उपहारैस्तथैव च । भोजयन्ति सहस्रांशुं तेन ते भोजकाः स्मृताः । । २६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकस्योत्पत्तिवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः
भोजकज्ञानवर्णनम् वासुदेव उवाच ज्ञानोपलब्धिं विप्रेन्द्र भोजकानां महामुने । ब्रूहि तत्त्वं द्विजश्रेष्ठ कौतुकं परमं मम । । १ व्यास उवाच इमां ज्ञानोपलब्धिं तु निबोध गदतो मम । अस्थिस्थूलं स्नायुयुतं मांसशोणितलेपनम् । । चर्मावनद्धं दुर्गंधिपूर्णं मूत्रपुरीषयोः । । २ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् । । ३ कपालं वृक्षमूलानि कुचैलमसहायता । समता सर्वभूतेषु एवं मुक्तस्य लक्षणम् । । ४ तिले तैलं गवि क्षीरं काष्ठे पावकसन्ततिः । उपायं चिन्तयेदस्य धिया धीरः समाहितः । । ५ प्रमाथि च प्रयत्नेन मनः संयम्य चञ्चलम् । बुद्धीन्द्रियाणि संयम्य शकुनानिव पञ्जरे । । ६ इन्द्रियैर्नियतैर्देही धाराभिरिव तृप्यते । सततममृतस्यैव जनार्दन महामते । । ७ प्राणायामैर्दहेद्दोषान्धारणाभिश्च१ किल्बिषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ८ ध्यायमानस्य दह्यन्ते चान्ते दोषा यथाग्निना । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ९ चित्तं चित्तेन संशोध्य भावं भावेन शोधयेत् । मनस्तु मनसा शोध्यं बुद्धिं बुद्ध्या तु शोधयेत् । । 1.145.१० चित्तस्यातिप्रसादेन भाति कर्म शुभाशुभम् । शुभाशुभविनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः । । निर्ममो निरहङ्कारस्ततो याति परां गतिम् । । ११ पर्वाह्णे लोहितं रूपं प्रथममृङ्ममयं स्मृतम् । यजुर्मयं द्वितीयं तु श्वेतं माध्याह्निकं स्मृतम् । । १२ कृष्णं तृतीयं सायाह्ने साम्नो रूपं तु तत्कृतम् । प्रथमं राजसं देव द्वितीयं सात्त्विकं स्मृतम् । १३ तृतीयं तामसं रूपं त्रैगुण्यं तस्य कल्पितम् । त्रयाणां व्यतिरेकेण चतुर्थं सूर्यमण्डलम् । । १४ ज्योतिः प्रकाशकं सूक्ष्मं प्रोक्तं देवनिरञ्जनम् । चतुर्थं तु वेदविदः सूर्यसिद्धान्तवेदिनः । । १५ ॐकारप्रणवैर्युक्ता ध्याननिर्भूतकल्मषाः । स्थिताः पद्मासने वीरा नाभिसंन्यस्तपाणयः । । १६ सुषुम्नानाडिकामार्गं कुम्भरेचकपूरकैः । त्रिभिः संशोध्य तान्पञ्च मरुतो देहमध्यगान् ।। १७ पदाङ्गुष्ठान्वितः स्विन्नमूर्ध्वमुत्क्षेपयेत्क्रमात् । नाभिदेशे तु तं दृष्ट्वा देवमग्निमनामयम् ।। १८ सोमं च हदये दृष्ट्वा मूर्ध्नि वाग्निशिखां ततः । वातरश्मिभिरासाद्य तं भित्त्वा मण्डलं परम् ।। १९ ततः परं तु यो गच्छेद्योगस्थः सूर्यमण्डलम् । यत्र गत्वा न शोचन्ति तत्सौरं परमं पदम् ।।1.145.२ ० देवार्चनं महाबाहो कीर्तितः केशिसूदन । प्रथमं हदयं स्थानं द्वितीयं चाग्निमाश्रितम् ।।२ १ तृतीयं नाभिसंस्थं च चतुर्थं सूर्यमण्डलम् ।।२२ स्थानं परं वै परमात्मसंस्थं भानोः सुरेशस्य वदन्ति तज्ज्ञाः । ज्ञेयः स मोक्षश्च नृणां स एव संसारविच्छित्तिकरं पदं ततः ।।२३ इदममृतसमं परस्य वेद्यं किरणसहस्रमृतो हितं जनानाम् । ऋषिचरितमवेत्य तत्त्वसारं व्यपगतमोहधियः प्रयान्ति मोक्षम् ।।२४ इदं मगानां चरितं मया ते प्रख्यापितं यानवरेण युक्तम् । ज्ञात्वात्विमं मोक्षविदो वदन्ति सिद्धाश्च तत्स्थानमवाप्नुवन्ति ।।२५ यन्मयोक्तमिदं ज्ञानं देयं श्रद्धावतां नृणाम् । नास्तिकानामबुद्धीनां न देयं भूतिमिच्छता ।।२६ सुमन्तुरुवाच इत्युक्त्वा भगवान्व्यासो भोजकज्ञानमुत्तमम् । नारायणं महाबाहो जगामायतनं हरेः ।।२७ ख्यातो यस्त्रिषु लोकेषु गंगया परितोषितः । बदर्या मण्डितो वीर नरनारायणाश्रमः । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भोजकज्ञानवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः
भोजकवर्णनम् शतानीक उवाच य एते भोजकाः प्रोक्ता देवदेवस्य पूजकाः । नान्यं भोज्यमथैतेषां ब्राह्मणैश्च कदाचन । । १ भास्करस्य प्रिया ह्येते पूज्यत्वं च तथा गताः । दिव्याश्चैते स्मृता विप्रा आदित्याम्भः समुद्भवाः । । २ अभोज्यत्वं कथं याता भोजकास्तद्वदस्व मे । किं कुर्वाणास्तथा कर्म भोज्यतां यान्ति मे वद । । ३ सुमन्तुरुवाच इममर्थं पुरा पृष्टो वासुदेवो महीपते । कृतवर्मणा पुरा राजंस्तथा साम्बो महाबलः । । ४ गतौ साम्बपुरीं वीर तथा नारदपर्वतौ । भुक्तवन्तो गृहे सर्वे भोजकस्य महात्मनः । । ५ आदित्यकर्मणो लोके देवान्नख्यातिमागताः । तेन ते पूजिताः सर्वे भक्त्या भोज्यैरनेकशः । । ६ आगतास्ते पुरीं वीर पुण्यां द्वारवतीं विभोः । तावृषी दिवमारुढौ राजन्नारदपर्वतौ । ७ वासुदेवं महातेजा हार्दिक्यो वाक्यमब्रवीत् । य एते भोजका विप्र पूजका भास्करस्य तु । । ८ अन्नमेषां कथं विप्रौ भुक्तवन्तौ जनार्दन । तावृषी दिव्यमाख्यातौ यौ तौ नारदपर्वतौ । । अभोज्याः किल एते वै ब्राह्मणानां जनार्दन । । ९ वासुदेव उवाच न ते भोज्या महाबाहो भोज्या भोजाश्च सर्वदा । अभिवाद्यां प्रयत्नेन यथादित्यो महामते । । 1.146.१० आचरन्तश्र तत्कर्म भोज्यत्वं प्रवजन्ति ते । तच्छ्रूयतां यदुश्रेष्ठ यत्कार्यं चापि तैर्विभो । । यतमानैर्महाबाहो तदिहैकमनाः शृणु । । ११ वृषली यस्य वै भार्या यश्चाव्यङ्गं न धारयेत् । अभोज्यः स तु विज्ञेयो भोजको नात्र संशयः । । १२ अस्नातः पूजयेद्यस्तु तथाभ्यङ्गविवर्जितः । आदित्यं यदुशार्दूल तथा च विधिना विभो । । १३ सेवको भोजको यस्तु शूद्रान्नं येन भुज्यते । कृषिं च कुरुते यस्तु देवार्चामपि वर्जयेत् । । १४ जातकर्मादयो यस्य न संस्काराः कृता विभो । आरुणेयैश्च मन्त्रैश्च सावित्रीं न च वै पठेत् । । तस्य गेहे द्विजो भुक्त्वा कृच्छ्रपादेन शुध्यति । । १५ पितृदेवमनुष्याणां भूतानां भास्करस्य तु । अकृत्वा विधिवत्पूजां यस्तु भुङ्क्ते स धर्महा । । १६ अभ्यङ्गेन विहीनो यः शंखहीनस्तथैव च । शिरसा धारयेत्केशान्स ज्ञेयो भोजकाधमः । । १७ देवार्चनं तथा होमं स्नानं तर्पणमेव च । दानं ब्राह्मणपूजां च कुर्वतो भोजकस्य तु । । अभ्यङ्गेन विहीनस्य सर्वं भवति निष्फलम् । । १८ सर्वदेवमयो ह्येष सर्ववेदमयस्तथा । अभ्यङ्गो यदुशार्दूल पवित्रः परमः स्मृतः । । १९ भोजकानां यदुश्रेष्ठ तस्य मूले स्थितो हरिः । मध्ये ब्रह्मा महातेजा अग्रे गोश्रुतिभूषणः । । 1.146.२० ऋग्वेदो यस्य मूलस्थो मध्ये सामानि कृत्स्नशः । यजुर्वेदस्तथा श्रेष्ठश्चाथर्वसहितः स्थितः । । २१ त्रयोऽग्नयस्तथा राजंस्त्रयो लोकाः स्थिताः क्रमात् । एवमेव पवित्रस्तु अभ्यङ्गो भोजकस्य तु । । २२ यस्त्वनेन विहीनस्तु भोजको भोजकाधमः । अभोज्यः स तु विज्ञेयः सोऽशुचिर्नात्र संशयः । । २३ निर्माल्यमथ नैवेद्यं कुङ्कुमं देवहेलिनाम् । ये प्रयच्छन्ति शूद्राणां विक्रीणन्ति च भोजकाः । । तेऽधमा भोजका ज्ञेया ये च देवस्वहारिणः । । २४ न पूजयन्ति देवेशं देवस्वं क्षपयन्ति च । न ते देव प्रियास्तात विज्ञेया भोजकाधमाः । । २५ यस्मिन्न भुक्ते नैवेद्यं भोजकोऽश्नाति मानद । तदन्नं भुङ्जतस्तस्य नरकाय न शान्तये । । २६ नैवेद्यं भोजयेत्तस्माद्भास्करस्य नरः सदा । प्रथमं यदुशार्दूल तच्च देहविशोधनम् । । २७ ब्राह्मणानां पुरोडाशो यथा कायविशोधनः । भोजकानां तथा वीर नैवेद्यं कायशोधनम् । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः
भोजकब्राह्मणवर्णनम् वासुदेव उवाच अत्र पृष्टो यथा देवो भास्करो देवपूजितः । अरुणेन महाबाहो के प्रिया भोजकास्तथा । । १ पूजायां तव के योग्याः के न योग्या भवन्ति च । इति पृष्टः स भगवानरुणेन दिवाकरः । । यदुवाच महाबाहो तदिहैकमनाः शृणु । । २ भास्कर उवाच परदारान्परद्रव्यं ये न हिंसन्ति भोजकाः । ते प्रिया मम वै नित्यं ये न निंदन्ति दैवतान् । । ३ वाणिज्यं कृषिसेवां तु वेदानां निन्दनं च ये । कुर्वन्ति भोजका ज्ञेयाः सर्वे ते मम वैरिणः । । ४ येषां भार्यासङ्ग्रहणं कर्षणं ये प्रकुर्वते । नृपसेवां खगश्रेष्ठ विज्ञेयाः पतितास्तु ते । । भुञ्जते ये च शूद्रान्नं ज्ञेयास्ते शत्रवो मम । । ५ पूजा कृता तु या तैस्तु तथार्घ्यं च खगोत्तम । पूजां तामथ चाप्यर्घ्यं नाहं गृह्णामि खेचर । । ६ य एते कथिता वीर ये च शङ्खविवर्जिताः । निर्माल्यं ये मदीयं तु नैवेद्यं कुङ्कुमं तथा । । ७ शूद्राय ये प्रयच्छन्ति विकीर्णन्ति च ये खग । यच्छन्ति ये च वैश्याय भोजका मे न ते प्रियाः । । ८ यजन्ते ये च सावित्रीं महाश्वेतां च गोपतेः । ये न जानन्ति मे मुद्रां किङ्कराणां च नामतः । । ९ य एते१ कथिता वीर भोजकास्ते मया खग । नैते पूजयितुं शक्ता ये प्रिया मम भोजकाः । । ताञ्छृणुष्व खगश्रेष्ठ भूत्वा चैकाग्रमानसः । । 1.147.१० देवद्विजमनुष्याणां पितॄणां चापि पूजकाः । ते प्रिया मम वै नित्यं शक्ताः पूजयितुं रविम् । । ११ येषां मुण्डं शिरो नित्यं ये चाभ्यङ्गसमन्विताः । वादयन्ति च ये शङ्खं दिव्यास्ते भोजका मताः । । १२ त्रिकालं ये च मां नित्यं सुस्नाताः क्रोधवर्जिताः । पूजयन्ति खगश्रेष्ठ ते प्रिया मम भोजकाः । । १३ वारे मदीये नक्तं तु षष्ठ्यां ये च प्रकुर्वते । सप्तम्यामुपवासं तु तथा सङ्क्रमणे मम । । १४ दिव्यास्ते ब्राह्मणा ज्ञेया भोजका मम पूजकाः । पूजयन्ति च ये विप्रान्मद्भक्ता मत्परायणाः । । ते प्रियाः सततं मह्यं भोजका गरुडाग्रज । । १५ मयि भक्तिं न कुर्वन्ति ब्राह्मणान्पूजयन्ति नो । न ते पूज्या न वन्द्याश्च ये द्विषन्ति च मां सदा । । १६ ये कुर्वन्ति महायज्ञान्भोजका गरुडाग्रज । पितृदेवमनुष्याणां पूजार्थं सन्ततं खग । । १७ प्रियास्ते सततं वीर भोजकानां तथोत्तमाः । तस्मात्सर्वप्रयत्नेन पञ्चयज्ञान्प्रवर्तयेत् । । १८ एकभक्तेन ये नित्यं वर्तन्ते कश्यपात्मज । भुञ्जते न च ये रात्रौ भोजकास्ते प्रिया मम । । १९ मम वारे च ये वीर तथा षष्ठ्यां च केशव । न रात्रौ भुञ्जते प्राज्ञा मत्प्रियास्ते मगाः खग । । 1.147.२० प्रतिसंवत्सरं ये तु भोजका गरुडाग्रज । न यच्छन्ति पितुर्मातुर्दिवसे तेन मे प्रियाः । । २१ इत्थं भूता भोजका या माघमासे च सप्तमी । पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । । २२ वाचको ब्राह्मणानां तु नैवेद्यं मोदकास्तथा । घृताहुत्यो गुग्गुलश्च क्षीरेण स्नपनं तथा । । २३ वाद्यानां शङ्खशब्दश्च नृत्यं नाट्यं मतं मम । पञ्चवर्णा पताकास्तु श्वेतं छत्रं च मे प्रियम् । । २४ नान्यवर्णैः कृता पूजा तथा प्रीणाति मां खग । यथा कृता भोजकेन पूजा प्रीणाति मां सदा । । नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु । । २५ वासुदेव उवाच इत्युक्त्वा भगवान्देवश्चारुणाय पुरानघ । लक्षणं भोजकानां तु ततो मेरुमथाक्रमत् । । २६ एवं भोज्या भोजकास्तु न चाभोज्याः कदाचन । अनुष्ठानविहीना ये न ते भोज्यास्तु भोजकाः । । २७ भौमास्तु ब्राह्मणा ये तु अनुष्ठानविवर्जिताः । तेऽप्यभोज्या भवन्तीह विकर्मस्था विशेषतः । । २८ नास्ति पूज्यतमं किञ्चिन्माङ्गल्यं पावनं तथा । चतुर्णामिह वर्णानां मुक्त्वा भोजकमुत्तमम् । । पूजिते भोजके वीर आदित्यः पूजितो भवेत् । । २९ भुञ्जते यस्य वै गेहे भोजका यदुनंदन । तस्य भुङ्क्ते स्वयं भानुर्ब्रह्मा विष्णुस्तथा शिवः । । 1.147.३० यथेह सर्वसत्त्वानां प्रधानत्वे स्थितो रविः । तथेह सर्वभूतानां भोजकः पूज्य उच्यते । । ३१ तीर्थानां तु कुरुक्षेत्रं सरसां सागरो यथा । तथा पूज्यतमो ज्ञेयः पूज्यानां भोजको विभो । । ३२ विशेषेण च सौराणां भोजकः पूज्य उच्यते । भर्ता पूज्यो यया स्त्रीणां शिष्याणां च यथा गुरुः । । भोजकस्तु तथा पूज्यः सौराणां हृदिकात्मज । । ३३ यस्य भुङ्क्ते भोजकस्तु गन्धपुष्पादिनार्चितः । तस्य भुङ्क्ते स्वयं भानुः पितरो देवतास्तथा । । ३४ एवं पूज्यास्तथा भोज्या भोजका हृदिकात्मज । ये सौरा भोजकस्यान्नं भुञ्जते निर्विकल्पतः । । ते सर्वे पापनिर्मुक्ता यान्ति सूर्यसलोकताम् । । ३५ कथितो यत्र यो भोज्यो यथा भोज्यः स वर्जितः । अथ किं बहुनोक्तेन श्रूयतां वचनं मम । । ३६ नास्ति वेदात्परं शास्त्रं नास्ति गङ्गासमा सरित् । अश्वमेधसमं पुण्यं नास्ति पुत्रसमं सुखम् । । ३७ नास्ति भानुसमो देवो नास्ति मातृसमा गतिः । यथैतानि समस्तानि उत्तमानि यदूत्तम ।। तथोत्तमो भोजकस्तु सम्प्रोक्तो भास्करेण तु । । ३८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकलक्षणवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः
कालचक्रवर्णनम् सुमन्तुरुवाच अध साम्बो महातेजा दृष्ट्वा चक्रं पितुः करे । ज्वालामालाकरालं तु महता तेजसान्वितम् । । १ पप्रच्छ पितरं साम्बो भक्त्या श्रद्धासमन्वितः । कुतस्तात त्वया प्राप्तं चक्रमादित्यसन्निभम् । । २ किमर्थं वहते देव दिव्यमायुधमुत्तमम् । एतदाख्याहि मे सर्वं श्रोतुकामस्य१ कौतुकात् । । ३ वासुदेव उवाच साधुसाधु२ महाबाहो साधु पृष्टोस्म्यऽहं त्वया । शृणुष्वैकमनाः पुत्र चक्रस्य विधिनिर्णयम् । ।४ दिव्यं वर्षसहस्रं तु भानुमाराध्य श्रद्धया । प्राप्तं चक्रं मया तस्माद्भास्कराल्लोकपूजितात् । ।५ नभोगः पञ्चकारूढः स्थितः साक्षाद्दिवाकरः । ग्रहाः सोमादयो यस्य संस्थिता नाभिमण्डले । । ६ आदित्या द्वादश समा अरेषु क्रमशस्तथा । प्रोक्तं पथिषु तत्त्वानि पृथिव्यादीनि यानि वै । ।७ एतैस्तत्त्वैः परिव्याप्तं चक्रं कालात्मकं परम् । संक्षेपात्ते मयाख्यातं दत्तं चक्रमिवापरम् । । ८ साम्ब उवाच कथं कालमयं देव चक्रं कमलमुच्यते । इदं तावन्ममाचक्ष्व ज्ञातुमिच्छामि तत्त्वतः । । ९ वासुदेव उवाच कमलं ह्यृतुभिः षड्भिः षट्दलं चाक्षयाश्रितम् । पुरुषाधिष्ठितं तद्धि तत्र साङ्गो रविः स्थितः । । 1.148.१० यच्च कालत्रयं लोके तन्नाभित्रयमुच्यते । मासा अरा महाबाहो पक्षाश्च प्रधयः स्मृताः । । ११ नेमी चैव परे प्रोक्ते अयने दक्षिणोत्तरे । पथिनाभिषु योगे च योगाख्यास्तपनादिभिः । । १२ नक्षत्राणि ग्रहाश्चैव सदा चात्र स्थिताः स्मृताः । एतैर्व्याप्तमिदं चक्रं स्थूलसूक्ष्मप्रभेदतः । । १३ अत्रोद्दिष्टेषु कालेषु ये नोद्दिष्टा मया तव । युगादिकल्पपर्यन्तास्तेऽपि चात्र स्थिताः क्रमात् । । १४ यत्ते कालात्मकं चक्रमिदं संक्षेपतो मया । कथितं तद्विनिष्क्रान्तं प्रदीप्तात्सूर्यमण्डलात् । । १५ असुराणां वधायेदं मया लब्धं दिवाकरात् । आराध्य तपसा सूर्यं पुरा कल्पे जगद्गुरुम् । । अतः सम्पूज्ययाम्येनं ग्रहैस्तत्त्वैर्वृतं सदा । । १६ अर्कं भक्तो हि चक्रस्थं यः पूजयति भक्तिमान् । तेजसा रविसंकाशः पुष्पोत्तरपुरं व्रजेत् । । १७ तस्मात्तं मत्कुलानन्दं मित्रं सम्पूजयाम्यहम् । ग्रहैस्तत्त्वैर्वृतं भक्त्या स्वमन्त्रैः सततं विभुम् । । १८ सप्तम्यां चक्रमालिख्य ये यजन्ति दिवाकरम् । रक्तचन्दनपूर्णेन कुंकुमेन सुगंधिना । । १९ पिष्टगन्धादिभिर्वापि रक्तवर्णकमिश्रकैः । रक्तैश्च कमलैः शुद्धैः करवीरैः सुगन्धिभिः । । 1.148.२० अन्यैर्वा कुसुमैर्वन्यैः प्रत्यग्रैर्जन्तुवर्जितैः । अपर्युषितनिश्छिद्रैः शुभधन्यैर्दलैरपि । । २१ फलैः पक्वैरोषधिभिस्तथा दूर्वाङ्कुरैः कुशैः । धूपैश्च विविधैर्गन्धैस्तथा वस्त्रैश्च भूषणैः । । २२ भक्ष्यैर्भोज्यैश्च पेयैश्च चोष्यैर्लेह्यैश्च शक्तितः । वितानशोभासिकतैः पलाशैरुपशोभितैः । । २३ छत्रचामरघण्टाभिर्भूषणैर्दर्पणादिभिः । नृत्यवादित्रगीतैश्च वेदैः पुण्यकथास्वनैः । । २४ सर्वत्र जयघोषैश्च सम्पूर्णे पूजयन्ति ये । सम्पूर्णान्विविधान्कामान्निर्विघ्नान्प्राप्नुवन्ति ते । । २५ स्वचक्रं चापि निर्विघ्नं वृद्धिमायाति सुव्रत । हन्यते परचक्रं च यत्रेदं पूज्यते सकृत् । । २६ सङ्क्रान्तौ ग्रहणे चापि लिखित्वा यो जपेदिदम् । भवन्ति नियताः साम्ब तस्य सानुग्रहा ग्रहाः । । २७ सर्वरोगविहीनस्तु सर्वदुःखविवर्जितः । चिरं जीवति धर्मात्मा सर्वैश्वर्यसमन्वितः । । २८ एष वै कथितो वत्स चक्रयोगो मया तव । अर्कस्य सर्वयज्ञानां श्रेष्ठं सिद्धिप्रदो भृशम् । । २९ पुण्यो धर्मस्तथा पुष्ट्यः शत्रुघ्नश्च विशेषतः । श्वेतो रक्तोऽथ पीतश्च कृष्णश्चापि विभागशः । । 1.148.३० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने कालचक्रवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः
सूर्यदीक्षावर्णनम् साम्ब उवाच किं प्रमाणं लिखेच्चक्रं तत्र पद्मं च किं भवेत् । नेमिप्रध्यारनाभीनां विभागः क्रियते कथम् । । १ वासुदेव उवाच चतुःषष्ट्यङ्गुलं चक्रं कृत्वा वृत्तं प्रमाणतः । अष्टाङ्गुला भवेन्नेमिः सेयं विभवतः सदा । । २ नाभिक्षेत्रं तथैव स्यात्पद्मं तत्त्रिगुणं भवेत् । अरक्षेत्रं च पद्मस्य कणिकाकेसराणि च । । ३ केसरस्य च पादेन शेषपत्राणि कल्पयेत् । पत्रसन्धिश्च पादाङ्गं क्रमात्तत्रापि भिद्यते । ।४ उन्नतं कमलं तत्तु कुर्यान्नाभ्यां न संशयः । आकीर्णाः संविभक्ताश्च कर्तव्याः प्रधयः क्रमात् । ।५ अङ्गुलस्थूलमूलं स्यादराग्रं त्रिगुणं ततः । भूमिः पीता बहिर्ज्ञेया कर्णिकाकेसराणि च । । ६ सितं नाभिस्थलं तत्र द्वाराणि परिकल्पयेत् । हस्तमात्रं भवेत्तस्य तन्मानं द्वारसन्निभम् । ।७ शेषं रक्तं समुद्दिष्टं संहताः पत्रसन्धयः । नाभिनेम्यन्तरे लेखाः सिताश्चाङ्गुलमानतः । । ८ सितरक्तसिताभिश्च समन्तादुपशोभितम् । कपोलं द्वारपद्मं च द्वारकोणे प्रकल्पयेत् । । ९ चतुर्द्वारं भवेदेवमैन्द्रद्वारं प्रकल्पयेत् । अपराह्णेऽथ पूर्वाह्णे वरुणमावाहयेत्सदा । । 1.149.१० द्वाराण्येतानि संवर्त्य यथोक्तविधिना यजेत् । यथोक्ता देवताः सर्वाः स्वमन्त्रैरेव भक्तितः । । १ १ चक्रमेवं समुद्दिष्टं यजनार्थं मया तव । यज्ञेनानेन सम्बद्धो दीक्षितश्चार्कमण्डले । । इत्थं मे भानुना पूर्वमिदमुक्तं वरानन । । १२ साम्ब उवाच के मन्त्राश्चक्रयज्ञेऽस्मिन्देवतानां प्रकीर्तिताः । यज्ञक्रमश्च कः प्रोक्तो रूपं किं च पृथक्पृथक् । । १३ वासुदेव उवाच खषोल्कं हदयाध्यक्षं पूर्वोक्ते कमले यजेत् । कर्णिकायां दलेष्वेवमङ्गानि हृदयादि च । । १४ नाममन्त्राश्चतुर्थ्यंतास्तेषां पूर्वोक्तकोटयः । नमस्कारश्च सर्वत्र एष एव विधिः स्मृतः । । १५ स्वाहान्ता होमकाले च कर्मस्वन्येषु ते पुनः । यथा कर्मावसानाश्च प्रयोक्तव्याः समासतः । । १६ ॐ खषोल्काय विद्महे दिवाकराय धीमहि । तन्नः सूर्यः प्रचोदयात् । । १७ सावित्री च महाबाहो चतुर्विंशाक्षरा मता । सर्वतत्त्वमयी पुण्या ब्रह्मगोत्रार्कवल्लभा । । १८ एवं मन्त्राः प्रयोक्तव्याः सर्वकर्मस्वतंद्रितैः । अन्यथा विफलं कर्म भवेदिह परत्र च । । १९ तस्मात्सर्वप्रयत्नेन मन्त्राञ्ज्ञात्वा विधिं तथा । यथावत्कर्म तत्कृत्वा साधयेदीप्सितं फलम् । । 1.149.२० साम्ब उवाच आदित्यमण्डले दीक्षा कस्य कार्या कथं च सा । कदा केन किमर्थं च कथयेदं ममाखिलम् । । २१ वासुदेव उवाच ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रमेव च । पुरुषं वा स्त्रियं वापि दीक्षयेत्सूर्यमण्डले । । २२ स्वयं भक्त्योपपन्नश्च प्रणिपत्य गुरुं तथा । गुरुस्तं दीक्षयेद्विप्रः कल्पज्ञः सत्यवाक्छुचिः । । २३ षष्ठ्यामग्निं समाधाय पूर्वोक्तविधिना क्रमात् । सम्पूज्यार्कं तथा वह्नौ हुत्वा वै हविषा रविम् । । २४ शिष्यं स्नातमथाचान्तं खषोल्काकृतिविग्रहम् । स्वाङ्गैरालभ्य चाङ्गेषु दर्भवद्भिस्तथाक्षतैः । । २५ पुष्पैः सम्पूज्य चाङ्गानि देयः कार्यो बलिस्तथा । आदित्यो वरुणोऽर्कोऽग्निः साधितो हृदयेन च । । २६ भवेद् घृतगुडक्षीरैस्तन्दुलैश्च१ प्रमाणतः । त्रिभिरञ्जलिभिर्हुत्वा देवायाग्नौ हुतं पुनः । । २७ दत्त्वा शिष्टाय मुक्त्वैवं दत्त्वान्ते दन्तधावनम् । क्षीरं वृक्षोद्भवं तस्मै द्वादशाङ्गुलसन्निभम् । । २८ दन्तश्लिष्टेऽपनीते च तेन प्राच्यां क्षिपेत्ततः । दन्तधावनमास्यं च तदा तस्योपरि क्षिपेत् । । २९ मैत्रावारुणमीशानं वक्रं सौम्यसमाश्रितम् । प्रशस्तं दन्तकाष्ठस्य मुखमन्यत्र निन्दितम् । । 1.149.३० यां दिशं दन्तकाष्ठस्य मुखं पश्यति तत्पतिम् । अर्चयेत्तेन शांतिः स्यादित्युक्तं भानुना स्वयम् । । ३१ पुनस्तद्वचनं श्रुत्वा अङ्गैरालभ्य च क्रमात् । सम्पूज्य लोचने तत्र सञ्चिंत्य परिजप्य च । । ३२ कारयित्वा च सङ्कल्पं तथा चेन्द्रियसंयमम् । स्थापयेत स्वयं चापि वरं श्रुत्वा समाहितः । । ३३ आचम्य कृतरक्षस्तु कृतद्रव्याधिवासनः । हदयेन नमेत्प्रातः स्नात्वा हुत्वा हुताशनम् । । ३४ स्वप्नं पृच्छेद्यथा दृष्टं शुभं संवादयेच्च तम् । हदयेनाशुभे दृष्टे शतहोमं समाचरेत् । । ३५ स्वप्ने पश्यति हर्म्याणि देवतानां हुताशनम् । नदीयानानि रम्याणि उद्यानोपवनानि च । । ३६ पत्रपुष्पफलाढ्यानि कमलानि च राजतम् । सम्पश्यति यदि स्वप्ने ब्राह्मणं वेदपारगम् । । ३७ राजानं शौर्यसम्पन्नं धनाढ्यं क्षत्रियोत्तमम् । शुश्रूषणपरं शूद्रं यदि तत्त्वार्थमादिशेत् । । ३८ प्रशस्तं भाषणं चैव यथासम्भवतो मतम् । एतैः स्पर्शनमेतेषां श्रेष्ठमारोहणं ततः । । ३९ वाहनानि प्रशस्तानि प्रासादं नावमेव च । पर्वतं च समारुह्य विपुलां भार्गवीं भजेत् । । 1.149.४० पीत्वा सुरां समुद्रं च दध्याज्यं क्षीरमेव च । सोमं मांसं हविर्भुक्त्वा काश्यपीं लभते नरः । । ४१ लब्ध्वा वस्त्राणि रत्नानि विविधाभरणानि च । वाहनानि महीं गाश्च धान्योपकरणानि च । । ४२ समृद्धिमाप्नुयात्किञ्चित्स्वप्नानां दर्शनं शुभम् । शुभकर्मानुगं यच्च तत्सर्वं शुभमुच्यते । ।४ ३ तस्मादन्यदनिष्टं स्यात्तस्माद्युक्ता प्रतिक्रिया । क्रमादालिख्य सप्तम्यां तत्र सम्पूज्य भास्करम् ।४४ तर्पयित्वा द्विजाञ्च्छिष्टानानम्य पूर्ववद्गुरुम् । सृष्टिक्रमेण भृत्यर्थं मुक्त्यर्थं नान्यथा भवेत् । ।४५ दिवाकरं समालभ्य पुरुषोऽथ यथाक्रमम् । सर्वग्रहेषु तत्त्वेषु यथावत्तन्नियोजयेत् । ।४६ विशुद्धेषु विशुद्धं तं ध्यात्वा चादित्यवत्क्रमात् । नियोजयेत्पृथिव्याश्च ततः प्रभृति सर्वशः । ।४७ आदित्यमण्डलं शुद्धं सर्वमुक्तं नियोजयेत् । एवं तु मनसा ध्यात्वा जुहुयाच्चैव तं शतम् ।। ४८ सर्वैर्मन्त्रैः क्रमादेवं दीक्षा प्रोक्ता वरापरा । कृत्वैव पुष्पपातं तु तस्मिन्नादित्यमण्डले । । ४९ बद्ध्वास्यमञ्जलौ पुष्पं कृत्वा दत्त्वा च मन्त्रितम् । क्षिपेद्वै कुलशुद्ध्यर्थं नामार्थं च विशेषतः । 1.149.५० यत्र तत्पतितं पुण्यं तस्य तत्कुलमादिशेत् । नाम चादित्यसंयुक्तमित्युक्तं भानुना स्वयम् । । ५१ सम्पूज्य श्रावयेत्तत्र समयानर्कभाषितान् । प्रातः सायं मध्याह्ने रवेरभिमुखः स्थितः । । ५२ उपस्थानं सदा कुर्यादर्चनं च सदा नरः । अदृष्ट्वार्कं न भोक्तव्यं दिवा रात्रौ हुताशनम् । ।५ ३ दृष्ट्वा भोक्तव्यमर्काख्यं न भोक्तव्यं कदाचन । न च पद्या स्पृशेत्तद्वन्नासनं परिवर्जयेत् । । ५४ न लङ्घ्या प्रतिमाच्छाया न लङ्घ्यास्तिथयः क्वचित् । नक्षत्राणि ग्रहा योगा मासा मासाधिपाश्च ये । । ५५ अयने ऋतवः पक्षास्तथैव दिवसानि च । कालः संवत्सरश्चापि यः कश्चित्काल उच्यते । । ५६ अभिवन्द्यः स सर्वोऽपि नमस्यः पूज्य एव च । तस्मात्कालाधिपः सूर्यः स्वयं कालश्च पठ्यते । ।५७ ज्योतिर्गणस्य सर्वस्य स्थावरास्थावरस्य च । चेतनाचेतनस्यापि सर्वात्मा यः प्रकीर्तितः । । ५८ स्तुत्यो वन्द्यः सदा पूज्यस्त्वयायं सर्वथा नृप । मनसा कर्मणा वाचा देवनिन्दां परित्यजेत् । ।५ ९ प्रेषयित्वा१ च निर्माल्यं तदश्वेभ्यो निवेदयेत् । प्रक्षाल्य हस्तौ पादौ च नमस्कुर्याद्दिवाकरम् । । 1.149.६० इत्येषा परमा दीक्षा तव संक्षेपतो मया । भुक्तिमुक्तिकरी चापि कथिता प्रविभागतः । । ६१ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यदीक्षावर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः
आदित्यपूजाविधिवर्णनम् वासुदेव उवाच अतः परं प्रवक्ष्यामि यथा पूज्यो दिवाकरः । स्थण्डिले यदुशार्दूल निबोधैकाग्रमानसः । । १ मण्डलैरष्टभिः कार्यं चक्रं कालात्मकं शुभम् । मध्ये पद्माकृतं चक्रमरैर्द्वादशभिर्युतम् । । २ तन्मध्ये कमलं प्रोक्तं पत्राष्टकसमन्वितम् । सर्वात्मा सकलो देवः खषोल्कः किरणोज्ज्वलः । । ३ पूजनीयः सदा मध्ये सहस्रकिरणायुधः । प्रणवेन महाबाहो चतुर्बाहुसमन्वितः । ।४ अरुणं१ पूजयेत्प्राज्ञः सदा देवाग्रजं२ शुभम् । दक्षिणे पूजयेद्देवीं निक्षुभां भास्करस्य तु । । ५ रेवतं दक्षिणे पार्श्वे उत्तरे पिङ्गलं सदा । संज्ञां च यदुशार्दूल श्रेयसे सततं बुधः । । ६ आग्नेय्यां लेखकं वीर नैर्ऋत्यामश्विनौ तथा । वायव्यां पूजयेद्देवं मनुं वैवस्वतं विभुम् । । ७ ऐशान्यां पूजयेद्देवीं यमुनां लोकपावनीम् । द्वितीयावरणे वीर पूर्वतः पूजयेद्वियत् । । ८ दक्षिणे च ततो देवीं पश्चिमे गरुडं तथा । उत्तरे नागराजानं पुत्रमैरावतं शुभम् । । ९ आग्नेय्यां पूजयेद्धेलिं प्रहेलिं नैर्ऋते तथा । वायव्यामुर्वशीं देवीमीशाने विनतां तथा । । 1.150.१० तृतीयावरणे पूर्वे पूजयेद्गुरुमादरात् । पश्चिमे त्वर्कपुत्रं तु उत्तरे धिषणं तथा । । ११ ऐशाने शशिपुत्रं तु सोममाग्नेयमण्डले । पूजयेद्दक्षिणे कोणे नैर्ऋते राहुमादरात् । । १२ वायव्ये विकचं वीर पूजयेत्सततं बुधः । चतुर्थावरणे देवं पूजयेल्लेखमादरात् । । १३ आग्नेये शाण्डिलीपुत्रं दक्षिणे दक्षिणाधिपम् । विरूपाक्षं नैर्ऋते देवं जलेशं पश्चिमे तथा । । १४ वायुपुत्रं च वायव्यां सततं पूजयेन्नरः । ईशाने देवमीशानं पूजयेत्सततं बुधः । । १५ उत्तरे यक्षराजानां कुबेरं पूजयेद्बुधः । पञ्चमे पूजयेद्वीर सदा स्वावरणे द्विजाः । । १६ पूर्वतः परमां देवीं महाश्वेतां महामतिः । श्रियमृद्धिं विभूतिं च धृतिं चैवोन्नतिं तथा । । १७ पृथिवीं यदुशार्दूल महाकीर्तिं तथैव च । इन्द्रं विष्णुं चार्यमणं भगं पर्जन्यमेव च । । १८ विवस्वन्तं तथार्कं च त्वष्टारं किरणोज्ज्वलम् । पूजयेद्वरुणं षष्ठे चैवमेतान्दिवाकरान् । । १९ शिरो नेत्रे तथा वर्म अस्त्रं च यदुसत्तम । अरुणं सरथं वीर सप्तमे पूजयेद्बुधः । । 1.150.२० तथाश्वान्यदुशार्दूल सदा चावरणे बुधः । यक्षरक्षांसि गन्धर्वान्मासान्पक्षानहानि तु । । २१ संवत्सरं तथा पुत्र ह्येतान्संपूजयेत्पुरा । य एवं पूजयेद्देवं भास्करं सततं नरः । । स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति । । २२ ( ॐ खषोल्काय नमः) मूलमन्त्राक्षराणीह चाङ्गानि परिचक्षते । अनेन विधिना यस्तु पूजयेत्सततं रविम् । । २३ नित्यमुभयसप्तम्यां स गच्छेत्परमं पदम् । इत्युक्त्वा भगवान्देवो जगामाशु गृहं रविः । । २४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने आदित्यपूजाविधिवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः
सौरधर्मवर्णनम् सूत उवाच अथ राजा महातेजाः शतानीको द्विजोत्तमम् । प्रणम्य शिरसा भक्त्या सुमन्तुं वाक्यमब्रवीत् । । १ अहो देवस्य माहात्म्यं भास्करस्यामितौजसः । कीर्तितं भवता मह्यं सर्वपापप्रणाशनम् । । २ तस्मान्नार्कसमं देवं लोके पश्यामि सुव्रत । न चाप्यस्य स्थिता विप्र गतिर्लोकेषु विद्यते । । ३ प्रवर्तते जगद्विप्र सर्गकाले दिवाकरात् । स्थितौ पालयते चापि कल्पान्ते संहरेत्पुनः । । ४ श्रुत्वैवं देवमाहात्म्यं भास्करस्यामितौजसः । कीर्तितं भवता मह्यमश्वमेधशताद्वरम् । । ५ किं तु मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । केनोपायेन विप्रेन्द्र मुच्यते सम्भवार्णवात् । । ६ दिवाकरप्रसादाद्वै सुप्रसन्नाद्वृषध्वजात् । कथं तुष्येत्सदा देवो धर्मेण कतरेण तु । । ७ श्रुता मे बहवो धर्माः श्रुतिस्मृत्युदितास्तथा । वैष्णवाः शैवधर्माश्च तथा पौराणिकाः श्रुताः । । ८ श्रोतुकामो ह्यहं विप्र सौरं धर्ममनौपमम् । भगवन्सर्वधन्यास्ते सौरधर्मपरायणाः । । ९ ब्रूहि मे देवदेवस्य भानोर्धर्ममनौपमम् । शृण्वतो नास्ति मे तृप्तिरमृतस्यैवमेव च । । 1.151.१० अश्वमेधादयो यज्ञा बहुसम्भारविस्तराः । न शक्यास्ते यतः कर्तुमल्पवित्तद्विजातिभिः । । ११ सुखोपायमतो ब्रूहि धर्मकामार्थसाधकम् । हिताय सर्वमर्त्यानां सर्वपापभयापहम् । । १२ सौरधर्मपरं पुण्यं पवित्रं पापनाशनम् । श्रुत्वा तु वचनं राज्ञो व्यासशिष्यो महामुनिः । । प्रणम्य शिरसा व्यासमिदं वचनमब्रवीत् । । १३ सुमन्तुरुवाच श्रूयतामभिधास्यामि सुखोपायं महाफलम् । परमं सर्वधर्माणां सर्वधर्ममनौपमम् । । १४ रविणा कथितं पूर्वमरुणस्य विशांपते । कृष्णस्य ब्रह्मणो वीर शङ्करस्य न विद्यते । । १५ संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् । सौरधर्मतमः श्रीमान्हिताय जगतोदितः । । १६ यैरयं शान्तहृदयैः सूर्यभक्तैर्भगार्थिभिः । संसेव्यते परो धर्मस्ते सौरा नात्र संशयः । । १७ एककालं द्विकालं वा त्रिकालं नित्यमेव च । ये स्मरन्ति रविं भक्त्या सकृदेवापि भारत । । सर्वपापैर्विमुच्यन्ते सप्तजन्मकृतैरपि । । १८ स्तुवन्ति ये सदा भानुं न ते प्रकृतिमानुषाः । स्वर्गलोकात्परिभ्रष्टास्ते ज्ञेया भास्करा भुवि । । १९ नानर्कः स्मरतेऽर्कं वै नानर्कोऽर्कं समर्चयेत् । नानर्कः कीर्तयेदर्कं नानर्कोऽर्कमवाप्नुयात् । । 1.151.२० सौरधर्मस्य सारोऽयं सूर्यभक्तिः सुनिश्चला । षोडशाङ्गा च सा प्रोक्ता रविणेह दिवौकसाम् । । २१ प्रातः स्नानं जपो होमस्तथा देवार्चनं नृप । द्विजानां पूजनं भक्त्या पूजा गोश्वत्थयोस्तथा । । २२ इतिहासपुराणेभ्यो भक्तिश्रद्धापुरस्कृतम् । श्रवणं राजशार्दूल वेदाभ्यासस्तथैव च । । २३ मद्भक्त्या जनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चयेद्भक्त्या ममाग्रे वाचकं परम् । । २४ पुस्तकस्य सदा श्रेष्ठ ममातीव प्रियं सुराः । मत्कथाश्रवणं नित्यं स्वरनेत्राङ्गविक्रिया । । २५ ममानुस्मरणं नित्यं भक्त्या श्रद्धापुरस्कृतम् । षोडशाड्गा भक्तिरियं यस्मिन्म्लेच्छेऽपि वर्तते । । विप्रेन्द्रः स मुनिः श्रीमान्सजात्यः स च पण्डितः । । २६ न मे पृथक्चतुर्वेदा मद्भक्तः श्वपचोऽपि यः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् । । २७ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । । २८ यो मां सर्वगतं पश्येत्सर्वं च मयि संस्थितम् । तस्याहमास्थितो नित्यं स च नित्यं मयि स्थितः । । २९ अष्टादशार्धकक्षायाः परं चाष्टभिरुद्भवैः । रोधयित्वा महाबाहो तथा ज्ञानतरेण तु । । 1.151.३० दुर्गपालं विजित्याशु भास्करार्धं तु दुर्जयम् । जित्वा च पुरराजानां महातेजमनौपमम् । । ३१ मनसाचलया भक्त्या यो मां ध्यायति मानवः । अहं तमेव चिंतामि आत्मवत्सततं नरम् । । ३२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः
सूरधर्मेषु प्रश्नवर्णनम् सुमन्तुरुवाच सूरे च दुर्लभा भक्तिर्दुर्लभं सुरपूजनम् । सूराय दुर्लभं दानं सूरहोमश्च दुर्लभः । । १ सुदुर्लभं रवेर्ज्ञानं तदभ्यासोऽपि दुर्लभ । सुदुर्लभतरं ज्ञेयं खषोल्कज्ञानमुत्तमम् । । २ सुदुर्लभतरं ज्ञानं सदा वै भास्करस्य तु । प्रदक्षिणां चक्रतुर्वै पादौ भक्त्याऽर्कमन्दिरे । । ३ तौ करौ श्लाघ्यतां प्राप्तौ यौ पूजां चक्रतू रवेः । सैवैका रसना धन्या स्तोत्रं या कुरुते रवेः । । ४ तन्मनः पुण्यतां प्राप्तं यद्धित्वा विषयं नृप । निश्चला च रवेर्लीला निर्भीका क्रोधवर्जिता । । ५ शतानीक उवाच सूर्यार्चनविधिं कुर्वञ्छ्रोतुमिच्छामि तत्त्वतः । त्वत्प्रसादाद्द्विजश्रेष्ठ कौतूहलमतीव मे । । ६ यत्पुण्यं स्थापिते सूर्ये कृते सूर्यालये च यत् । सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने। । ७ स्थाने कृते च यत्पुण्यं तथा नीराजने कृते । नीलौषधिप्रवापेन नृत्यमङ्गलवादितैः । । ८ अर्घ्यदानेन यत्पुण्यं तोयस्नानेन यद्भवेत् । पञ्चामृतमयस्नाने दधिस्नाने च यत्फलम् । । ९ चक्राभ्यङ्गे च यत्प्रोक्तं वज्रस्नाने च यत्फलम् । मधुस्नाने पयःस्नाने स्नान इक्षुरसस्य तु । । 1.152.१० उद्वर्तनं शुचिस्थाने कुशपुष्पोदकेन तु । सुवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः । । ११ कर्पूरागुरुतोयेन स्वच्छतो येन यत्फलम् । विलेपनैश्च गन्धाढ्यैर्विलेपनफलं लभेत् । । १२ तालपत्रप्रदाने तु प्रदाने चामरस्य तु । रक्तपुष्पार्चने यच्च दामभिः पूजनेन च । । १३ सुमानां मण्डपे यच्च पुष्पमालावलम्बनात् । पूजाभक्तिविशेषैश्च गृहमालावलम्बने । । १४ पुष्पदानविशेषेण धूपदीपैश्च यत्फलम् । वस्त्रालङ्कारदाने तु पुण्यश्रवणकीर्तने । । १५ ब्रह्मश्रवस्य दाने तु अव्यङ्गस्य च गोपते । मगानां मत्प्रसादेन अभिवादनपूजने । । १६ व्योमपूजाफलं यच्च अरुणस्य च पूजनम् । तथान्यदपि यत्प्रोक्तमज्ञानाद्ब्राह्मणोत्तम । । १७ तत्सर्वं ब्रूहि मे ब्रह्मन्भक्तानामनुकम्पया । । १८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सूरधर्मेषु प्रश्नवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः
सूर्यतेजोवर्णनम् सुमन्तुरुवाच सुमतिश्च रवेर्भक्तः पाण्डवेय महामते । अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १ कल्पादौ सृजतो वीर ब्रह्मणो विविधाः प्रजाः । अहंकारो महानासीन्नास्ति लोके मदुत्तमः । । २ तथा पालयतो वीर केशवस्य धरापते । तथा संहरतो जज्ञेऽहङ्कारस्त्र्यम्बकस्य च । । ३ चिंतयन्तोथ ते देवाः केशवश्च नराधिप । मिथस्ते स्पर्धया युक्ताः परस्परविरोधिनः । । ४ विवादस्तु महानासीत्कञ्जाम्बुनगौकसाम् । परस्परं महाबाहो मनसाश्रित्य केवलम् । । ५ अहं कर्ता विकर्ताऽहं पालकोऽहं जगत्प्रभुः । इत्याह भगवान्ब्रह्मा कृष्णभीमौ समर्चितौ । । ६ तथैत्य शंकरः क्रुद्धः कः शक्तो मदृते भुवि । संहर्तुं जगदेतद्धि स्रष्टुं पालयितुं तथा । ।७ नारायणोऽप्येवमेव मनाक् क्रोधसमन्वितः । न वा शक्तो जगत्स्रष्टुं संहर्तुं रक्षितुं तथा । । ८ एवं तेषां प्रवदतां क्रुद्धानां च परस्परम् । समाविशत्तदाऽज्ञानं तमो मोहात्मकं विभो । । ९ तेन क्रान्तधियः सर्वे न पश्यन्ति परस्परम् । अत्यर्थं मोहमापन्ना न जानन्तीह किञ्चन । । 1.153.१० अपश्यन्तो मिथस्ते तु निषण्णाः क्ष्मातले विभो । आरमन्ति हि ये चान्ये ते दिवाकरमास्थिताः । । ११ तमसा मोहिताः सर्वे निद्रावत्क्रान्तचेतसः । मनाग्ज्ञानेन चाक्रान्ताः किं कुर्यामेति मोहिताः । । १२ अथ भूताधिपो देवो गोश्रुताभरणोज्ज्वलः । चन्द्रार्धकृतशोभस्तु शीतलांशुविशोधितः । । १३ आर्तिमेत्य परां वीर मोहितस्तमसा विभो । अपश्यन्नब्रवीद्देवं माधवं भूधरं हरिम् । । १४ महादेव उवाच कृष्ण कृष्ण महाबाहो क्व गतस्त्वं महामते । ब्रह्मा च क्व गतो वीर नाहं पश्यामि वां क्वचित् । । १५ मोहेन महताहं वै तमसा च विमोहितः । किं करोमि क्व गच्छामि क्व चाहमधुना स्थितः । । १६ क्ष्माधरं पृथिवीं वृक्षान् देवगन्धर्वदानवान् । विपुलं सागरं सिन्धून्नहि पश्यामि किञ्चन । । १७ केनोपायेन पश्येयं जगत्स्थावरजङ्गमम् । ब्रूहि मे देवशार्दूल व्रीडा मेऽतीव जायते । । १८ शङ्करस्य वचः श्रुत्वा हरिर्वचनमब्रवीत् । शोकगद्गदया वाचा तमसा मोहितो नृप । । १९ विष्णुरुवाच भीम भीम न जानेऽहं क्व भवान्वर्ततेऽधुना । ममापि मोहितं चेतस्तमसातीव शङ्कर । । 1.153.२० क्व गच्छामि क्व तिष्ठामि कथं तत्स्वस्थतां व्रजेत् । तमसा पूरितं सर्वं जगद्धि परमेश्वर । । २१ यद्यसौ दृश्यते देवः सुरज्येष्ठोऽम्बुजोद्भवः । पृच्छावस्तं महात्मानं यदि ते रोचते हर । । २२ हित्वा दर्पमहङ्कारं सममास्थाय केवलम् । पद्माननं पद्मयोनिं पद्मपत्रनिभेक्षणम् । । २३ इत्येवं गदतो वाक्यं विष्णोरमिततेजसः । श्रुत्वोवाच विभुर्ब्रह्मा गङ्गाधरमहीधरौ । । २४ कृष्ण कृष्ण महाबाहो भीम भीम महामते । क्व भवन्तौ ब्रूत किं च किं युवामूचथुर्मिथः । । २५ ममातीव मनोबुद्धी तमसा वशमागते । न शृणोमि न पश्यामि निद्रामोहवशं गतः । । २६ अहो बत जगत्सर्वं सदेवासुरमानुषम् । तमसा व्याष्टतं देवौ न जाने क्व गतं महः । । २७ अथ तेषां प्रवदतां ब्रह्मादीनां दिवौकसाम् । दर्पक्रोधभयार्तानां तमसाक्रान्तचेतसाम् । । २८ तेषां दर्पापहाराय प्रबोधार्थं च गोपतेः । तेजोरूपं समुद्भूतमष्टशृङ्गमनौपमम् । । २९ अलक्ष्यं पापतमसा महद्व्योम नराधिप । ज्वालामालावृतं वीर बहुरूपं च भासते । । 1.153.३० शतयोजनविस्तीर्णं गतमूर्ध्वं भ्रमत्तथा । गोमध्यतो महाराज कर्णिकेवाम्बुजस्य तु । । ३१ प्रकाशं तेजसा तस्य जगत्सर्वमिदं नृप । पुरेष्वन्तर्यथा वीर अम्बुजस्यार्चिभिः सदा । । ३२ दृष्ट्वा परस्परं सर्वे हुङ्कारादिविकारिणः । तेजसा मोहितास्तस्य जगत्सर्वमिदं नृप । । ३३ तेजसा मोहितं तस्य महद्व्योम नराधिप । ततो विस्मयमासीनः दृष्टगोपतयो नृप । । ३४ पश्यमाना महो व्योम्नि मिथो वचनमब्रुवन् । अहो तेजः समुद्धूतमस्माकं श्रेयसे नृप । । ३५ प्रकाशाय च लोकानां सर्वे पश्याम किं न्विदम् । ज्ञानायोर्ध्वं गतो ब्रह्मा चाधस्तात्त्रिपुरान्तक. । । ३६ तिर्यग्जगाम देवेशश्चक्राम्बुजगदाधरः । अलब्ध्वा तस्य ते सर्वे प्रमाणं गैरिकाधिपाः । । ३७ विस्मयोत्फुल्लनयना समागम्य परस्परम् । सर्वे कञ्जादिका देवा इदं वचनमब्रुवन् । । ३८ कोऽयं किमात्मकश्चायं किमिदं तेजसां निधिः । अहोऽस्य दर्शनात्सर्वे सञ्जाता ज्ञानिनो वयम् । । ३९ तस्मात्सर्वे प्रणम्यैनं स्तुवीमोऽद्भुतदर्शनम् । कृताञ्जलिपुटाः सर्वे चास्तुवंस्त्रिदिवौकसः । । 1.153.४० स्तुवतामप्यथैतेषां सहस्रकिरणो रविः । आत्मानं दर्शयामास कृपया परया वृतः । । ४१ ज्ञात्वा भक्तिं महाबाहो ब्रह्मादीनां महोपमाम् । अथ ते व्योम्नि देवेशं ददृशुः परमेश्वरम् । । ४२ खषोल्कलोकनाथेशं सहस्रकिरणोज्ज्वलम् । कृत्तिकाभिरसंस्पृष्टं यद्वा तत्कार्तिकास्थितम् । । ४३ दुर्जयं कृत्तिकानां तु तथैकेन विवर्जितम् । तथा हस्तविहीनं च सप्तर्षिरहितं तथा । । ४४ वर्षाब्दरहितं देवं सप्तस्वरविवर्जितम् । सकलं निष्कलं चैव सदैकाकाररूपिणम् । ।४५ तद्दृष्ट्वानेकशिरसमनेकचरणं तथा । अनेकोदरबाह्वंसमनेकाभरणान्वितम् । ।४ ६ अनेकाननमक्षीबं सहस्राक्षमनौपमम् । अनेकवर्णरूपं च अनेकमुकुटोज्ज्वलम् । ।४७ दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः । विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् । । ४८ कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे । प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् । । ४९ ब्रह्मोवाच नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल । लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ । । 1.153.५० भास्कराय नमो नित्यं खषोल्काय नमोनमः । विष्णवे कालचक्राय सोमायामिततेजसे । । ५१ नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे । खगाय लोकनाथाय एकचक्ररथाय च । । ५२ जगद्धिताय देवाय शिवायामिततेजसे । तमोघ्नाय सुरूपाय तेजसां निधये नमः । । ५३ अर्थाय कामरूपाय धर्मायामिततेजसे । मोक्षाय मोक्षरूपाय सूर्याय च नमोनमः । । ५४ क्रोधलोभविहीनाय लोकानां स्थितिहेतवे । शुभाय शुभरूपाय शुभदाय शुभात्मने । । ५५ शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः । नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमोनमः । । ५६ ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने । ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते । । ५७ एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो । तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना । । ५८ ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः । त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ।।५९ महादेव उवाच जय भाव जयाजेय जय हंस दिवाकर । जय शम्भो महाबाहो खग गोचर भूधर ।।1.153.६० जय लोकप्रदीपेन जय भानो जगत्पते । जय काल जयानन्त संवत्सर शुभानन ।।६ १ जय देवादितेः पुत्र कश्यपानन्दवर्धन । तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ।।६२ महेश जय कान्तीश जय कालेश शङ्कर । अर्थकामेश धर्मेश जय मोक्षेश शर्मद ।।६३ जय वेदाङ्गरूपाय ग्रहरूपाय वै नमः । सत्याय सत्यरूपाय सुरूपाय शुभाय च ।।६४ क्रोधलोभविनाशाय कामनाशाय वै जय । कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ।।६५ विश्वाय विश्वरूपाय विश्वकर्माय वै जय । जयोङ्कार वषट्कार स्वाहाकार स्वधामय ।।६६ जयाश्वमेधरूपाय चाग्निरूपार्यमाय च । संसारार्णवपीताय मोक्षद्वारप्रदाय च ।।६७ संसारार्णवमग्नस्य मम देव जगत्पते । हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ।।६८ ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः । विरराम महाराज प्रणम्य शिरसा रविम् ।।६९ अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् । उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ।।1.153.७० विष्णुरुवाच नमामि देवदेवेशं भूतभावनमव्ययम् । दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ।।७१ इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् । त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् । ।७२ षण्मुखाय नमो नित्यं त्रिनेत्राय नमोनमः । चतुर्विंशतिपादाय नमो द्वादशपाणये
नमस्ते भूतपतये लोकानां पतये नमः । देवानां पतये नित्यं वर्णानां पतये नमः । ।७४ त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः । त्वं सोमस्त्वं तथादित्यस्त्वमोंकारक एव हि । । ७५ बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः । यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज । । ७६ त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् । त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् । । ७७ ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते । कल्पादौ तु पुरा देव स्थितये जगतोऽनघ । । ७८ नमस्ते वेदरूपाय अहोरूपाय वै नमः । नमस्ते ज्ञानरूपाय यज्ञाय च नमोनमः । ।७९ प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल । संसारार्णवमग्नानां प्रसादं कुरु गोपते । ।1.153.८० वेदान्ताय नमो नित्यं नमो यज्ञकलाय च । । सुमन्तुरुवाच स्तुत्वैवं भास्करं भक्त्या विष्णुर्भरतसत्तम । प्रदध्यौ नृपशार्दूल रविं तद्गतमानसः । ८१ एवं ते नरशार्दूल देवा ब्रह्मादयोऽनघ । स्तुवन्ति तं महात्मानं सहस्रकिरणं रविम् । । ८२ इत्येवं स्तुवतां तेषां रविं भक्त्या महात्मनाम् । अथ तुष्टो रविस्तेषां ब्रह्मदीनां जगत्पतिः । ८३ विज्ञाय भक्तिं परमां श्रद्धां च परमां विभुः । उवाच स महातेजाः प्रहृष्टेनान्तरात्मना ।८४ ग्रहेशो व्योम चारूढस्तेजसा प्रज्वलन्दिशः । ब्रह्माणं विष्णुमीशानमामन्त्र्यैतान्विशांपते । ।८५ दृष्ट्वा तान्प्रणतान्त्सर्वाञ्छिरोभिरवनिं गतान् । तुष्टोऽस्मि ते सुरज्येष्ठ चतुर्मुख जगत्पते । । वरं वरय भद्रं ते मनसा त्वं यदिच्छसि ।।८६ कृत्वा तु वचनं भानोर्ब्रह्मा लोकगुरुर्नृप । जगाम शिरसा भूमावुवाच स कृताञ्जलिः ।।८७ ब्रह्मोवाच कृतकृत्योऽस्मि देवेश पूतश्चास्मि खगाधिप । धन्योऽस्म्यनुगृहीतोऽस्मि गतोऽस्मि परमां गतिम् । ।८८ सहस्रकिरणैर्यन्मे भवान्दर्शनमागतः ।।८९ अपश्यतश्च देवेश मूढमासीन्मनो मम । भगवन्सम्प्रसीद त्वं ममोपरि विभावसो । ।1.153.९ ० प्रयच्छ त्वं बलं भक्तिमात्मनो मम गोपते । गत्वा शिरोभिरवनिमष्टाङ्गैः पतितस्य च । । भक्त्या विज्ञप्तिमाकर्ण्य प्रसादं कुरु गोपते । । ९१ ब्रह्मणो वचनं श्रुत्वा पूषा देवो जगत्पतिः । तथेत्याह महाराज विराट प्रश्रयान्वितम् । । ९२ ब्रह्मणे च वरं दत्त्वा राजन्देवो दिवाकरः । उवाच त्र्यम्बकं देवं शशाङ्ककृतशेखरम् । । ९३ वरं वरय भूतेश भूभृज्जादयितानघ । यमिच्छसि महादेव ददेऽहं तदशेषतः । । ९४ भास्करस्य वचः श्रुत्वा ईश्वरस्त्रिपुरान्तक । गत्वा तु शिरसा भूमौ प्रणम्योवाच भास्करम् । । ९५ महादेव उवाच पुण्योऽहं पुण्यकर्माहं नास्ति धन्यतरो मम । गतोऽहं परमां सिद्धिं गतश्च परमां गतिम् । । ९६ नाप्राप्यमस्ति देवेश नासाध्यं मम किंचन । यस्य मे भगवान्देवः प्रसादप्रवणः स्थितः । । ९७ त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् । त्वत्त एव समुत्पन्नं लयं च त्वयि यास्यति । । ९८ यदि तुष्टो मम विभो अनुग्राह्योऽस्मि ते यदि । अचलां देहि मे भक्तिमात्मनश्चरणं नय । । ९९ व्योमकेशवचः श्रुत्वा पूषा देवो दिवाकरः । तथेत्याह हरं वीर ततो हरिमुवाच । । 1.153.१०० नारायण महाबाहो वरं वरय गोधर । परितुष्टोऽस्मि ते देव यमिच्छसि महाबल । । १०१ श्रुत्वा तु भास्करवचः कीलालजनको हरिः । उवाच परया भक्त्या नत्वा च शिरसा रविम् । । १०२ नारायण उवाच जय देव जगन्नाथ जय देव गुरो रवे । प्रसीद मम देवेश भक्तिं यच्छात्मनो रवे । । १०३ येनाहं सर्वदेवानामुत्तमः स्यां जगत्पते । अजेयश्च तथा देव दैत्यदानवरक्षसाम् । । १०४ त्वद्भक्त्या बृंहितबलस्तेजसा महतान्वितः । ततो मया महत्कर्म कर्तव्यं तव शासनात् । । १०५ प्रजानां पालनं देव देवानां च ग्रहाधिप । वर्णानामाश्रमाणां च वर्णधर्मस्य वा विभो । । १०६ दुष्टदैत्यविनाशाय लोकानां पालनाय च । सृष्टोऽहं भवता पूर्वं कल्पादौ च कृतोऽनघ । । १०७ यस्य रुष्टो भवान्स्याद्वै कथञ्चित्पुरुषस्य तु । व्याधिर्दुःखं मनोरोगं दारिद्र्यं सन्ततिक्षयः । । १०८ तस्यैतानि भवन्तीह आधयो विविधास्तथा । तस्मात्त्वं च ततो देव संस्तव्यः सततं बुधैः । । १०९ एवं त्वां गोपते देव भक्त्या श्रद्धासमन्वितः । अहमर्चितुमिच्छामि तस्मान्मयि कृपां कुरु । । 1.153.११० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यतेजोवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः
त्रयी-उपाख्यानवर्णनम् सुमन्तुरुवाच श्रुत्वा तु वचनं भानुर्विष्णोरमिततेजसः । उवाच कुरुशार्दूल आदित्यः कृपयान्वितः । । १ आदित्य उवाच कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः । यदर्थं प्रार्थितः कृष्ण तत्सर्वं ते भविष्यति । । २ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अजेयस्त्वं महाबाहो भविष्यसि न संशयः । । ३ जगत्पालयितुं सर्वं समर्थश्च भविष्यसि । अचला तव भक्तिश्च भविष्यति ममोपरि । ।४ ब्रह्मापि सततं शक्तो जगत्स्रष्टुं भविष्यति । संहर्तुं शङ्करश्चापि मत्प्रसादाद्भविष्यति । ।५ भवन्तो मत्प्रसादेन ज्ञानिनामुत्तमं पदम् । गमिष्यन्ति न सन्देहो मत्पूजाप्रसादतः । ।६ रवेर्वचनमाकर्ण्य गोश्रुताभरणो विभो । उवाच गोपतिर्गोगो गोपतिं गोवृषध्वजः । ।७ त्वामाराध्य भविष्यामो वयं सर्वे सुरोत्तमाः । कथमाराधयामो हि भवन्तं श्रद्धयान्विताः । । श्रेयसे सततं देव ब्रूहि नस्तत्त्वमात्मनः । ।८ भवतो हि न पश्यामो मूर्तिं परमपूजिताम् । पश्यामः केवलं तेजो ह्यब्धेस्तोयमिवोज्झितम् । । ९ ज्वालामालाकुलं सर्वमनेकाकृति चाद्भुतम् । न चाकारविहीनं तु चेतसो लम्बनं भवेत् । । 1.154.१० आलम्बनादृते देव न चित्तरमणं क्वचित् । चेतसोऽरमणे भक्तिर्न पुंसां जायते क्वचित् । । ११ भक्तिं विना पूजयितुं न शक्यन्ते दिवौकसः । त्वत्पूजने हि प्राप्यन्ते देव धर्मादयो नरैः । । १२ तस्माद्दर्शय तां मूर्तिमात्मनो या परा मता । येन त्वां पूजयित्वा तु वयं सिद्धा भवामहे । । १३ सूर्य उवाच साधु साधु महादेव साधु पृष्टोऽस्मि सुव्रत । शृणु चैकमनाः कृत्स्नं गदतो मम मानद । । १४ चतुर्मूर्तिरहं देव जगद्व्याप्य व्यवस्थितः । श्रेयसे सर्वलोकानामादिमध्यान्तकृत्सदा । । १५ एका मे राजसी मूर्तिर्ब्रह्मेति परिकीर्तिता । सृष्टिं करोति सा नित्यं कल्पादौ जगतां विभो । । १६ द्वितीया सात्त्विकी प्रोक्ता या परा परिकीर्तिता । जगत्सा पालयेन्नित्यं दुष्टदैत्यविनाशिनी । । १७ तृतीया तामसी ज्ञेया ईशेति षरिकीर्तिता । त्रैलोक्यं संहरेत्सा तु कल्पान्ते शूलपाणिनी । । १८ चतुर्थी तु गुणैर्हीना सत्यादिभिरनुत्तमा । सा चाशक्या क्वचिद्द्रष्टुं स्थिता सा चाभवत्सदा । । १९ तया ततमिदं सर्वं यच्चोद्गीथं तु मे गतिः । निष्कला सकला सा तु सुरूपा रूपवर्जिता । । 1.154.२० अन्तर्गता च लोकानां न च कर्मफलं गता । तिष्ठमानाप्यलिप्ता सा पद्मपत्रमिवाम्भसा । । २१ अनष्टा च सदा षड्भिः सप्तातीत्य व्यवस्थिता । चतुस्तना च सा षड्भ्यस्तुरीयाख्या सुपूजिता । । २२ न सा स्प्रष्टुं त्वया शक्या हरिणा ब्रह्मणा न च । मामनाराध्य भूतेश व्योमरूपं कदाचन । । २३ यदेतद्भवतां देव प्रबोधार्थमुपस्थितम् । अहंकारविमूढानां तमसा च त्रिलोचन । । २४ प्रकाशाय च लोकानां ज्वालामालासमाकुलम् । कर्णिकेव स्थितं देव भूपद्मस्याखिलस्य च । । २५ यस्य संदर्शनादेव यूयं सर्वे प्रबोधिताः । प्रकाशमभवद्वापि जगत्सर्वमथार्चिभिः । । २६ तस्मादाराधयस्वैनमस्पृष्टं गमनोपमम् । मन्मूर्तिं येन तां दिव्यां द्रक्ष्यसि त्वं त्रिलोचन । । २७ यत्त्वाद्यमीश्वरं जज्ञे तद्व्योम परिकीर्तितम् । कल्पान्ते ह्यत्र वै व्योम्नि लीयन्ते सर्वदेवताः । । २८ दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः । त्वं सदा कचदेशे तु लीयसे त्रिपुरान्तक । । २९ गायत्री लीयते तस्य हृदये लोकमातरः । लीयन्ते मूर्द्ध्नि वै वेदः सषडङ्गपदक्रमः । । 1.154.३० जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् । पुनरुत्पद्यते ह्यस्माद्ब्रह्माद्यं सचराचरम् । । ३१ आकाशं व्योम इत्याहुः पृथिवी निक्षुभा मता । भूतश्रेयोहऽमाकाशो निक्षुभा दयिता मम । । ३२ मया निक्षुभया सर्वं जगद्व्याप्तं त्रिलोचन । तस्मादाराधय व्योम त्वं ब्रह्मा केशवस्तथा । । ३३ तन्मे रूपं महद्व्योम पूजयित्वा त्रिलोचन । दिव्यं वर्षसहस्रं हि गिरौ त्वं गन्धमादने । । ततो यास्यसि संसिद्धिं षडङ्गां परमां शुभाम् । । ३४ कलापग्राममाश्रित्य शङ्खचक्रगदाधरः । आराधयतु मां भक्त्या व्योमरूपं जनार्दनः । । ३५ अन्तरिक्षगतं तीर्थं पुष्करं लोकपावनम् । तत्र गत्वा विरिञ्चो मे व्योमरूपं सदार्चतु । । ३६ एवं मां सततं यूयं समाराध्य जगत्पतिम् । समानां च सुदिव्यानां सहस्रत्रयमादरात् । । ३७ ततो द्रक्ष्यथ मे मूर्तिं परमां यां विदुर्बुधाः । कदम्बगोलकाकारां रश्मिमालाकुलां पराम् । । ३८ अथ नारायणो देवः प्रणम्य शिरसा रविम् । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । ३९ विष्णुरुवाच यदि ते परमं रूपं मतं व्योम ह्यनौपमम् । तमाराध्य वयं सर्वे यास्यामः सिद्धिमुत्तमाम् । ।1.154.४ ० कीदृग्व्योम त्वहं ब्रह्मा हरश्च त्रिपुरान्तकः । आराधयामहे देव भक्त्या श्रेयोऽर्थमात्मनः । ।४ १ येन सिद्धिं गमिष्यामस्तमाराध्य दिवाकरम् । तस्मान्नो लक्षणं ब्रूहि व्योम्नः परमपूजित । ।४२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रय्युपाख्याने चतुःपञ्चाशदधिकशततमोऽध्यायः । १
सौरधर्मनिरूपणम् आदित्य उवाच साधुसाधु सुरश्रेष्ठ साधु पृष्टोऽस्मि भूधर । शृणुष्वैकमनाः कृष्ण गदतो निखिलं मम । । १ आराधय त्वयं देवो मम रूपमनौपमम् । चतुष्कोणं परं व्योम अद्भुतं गैरिकोज्ज्वलम् । । २ त्वामाराध्य च चक्रांकं शंकरो वृत्तमादरात्
मध्याह्ने त्वं सदा देव भक्त्या मामर्चयस्व वै
ततो ब्रह्मादयो देवाः श्रुत्वा वाक्यं विभावसोः
धन्या देव वयं सर्वे कृतकृत्यास्तथैव च
संभूता ज्ञानिनः सर्वे भवतो दर्शनाद्वयम्
वयं त्वन्मूर्तयः सर्वे तेजसा तव संवृताः
स्थिताः सर्वे सुरज्येष्ठ लोकपालाश्च कृत्स्नशः
इत्थं तेषां वचः श्रुत्वा भास्करो वारितस्करः 1.155.
आदित्य उवाच एवमेतन्न संदेहो यदा वदथ सुव्रताः
यदेतद्दर्शनं देवाः प्रमाण च यदुत्तमम्
युष्माकं देवशार्दूलास्तन्निबोधत कारणम्
प्रबोधार्थं हि युष्माकं तमसो नाशनाय च