मण्डलविधिवर्णनम् नारद उवाच प्रतिपच्य द्वितीया च चतुर्थी पञ्चमी तथा । दशमी त्रयोदशी चैव पौर्णमासी च कीर्तिता । । १ सोमो बृहस्पतिश्चैव शुक्रश्चैव बुधस्तथा । एते सौम्या ग्रहाः प्रोक्ताः प्रतिष्ठायज्ञकर्मणि । । २ त्रिषूत्तरासु रेवत्यामश्विन्यां ब्राह्मभे तथा । पुनर्वस्वोस्तथा हस्ते वासवे१ श्रवणेऽथवा । । भरण्यां चैव नक्षत्रे भानोः१ स्थापनमुत्तमम् । । ३ शोधयित्वा तु वै भूमिं तुषकेशविवर्जिताम् । वालुकाङ्गारपाषाणास्थिविहीनां विशोध्य तु । । ४ चतुर्हस्तसमायुक्ता वेदी विस्तरतो रवेः
५ मण्डपस्तु प्रमाणेन दशहस्तः समंततः । मण्डलं वृक्षशाखाभिः कारयेद्विधिपूर्वकम् । । ६ नदीसङ्गमतीरोत्थां मृत्तिकां च समानयेत् । उपलिप्य ततो भूमिं कारयेत्कुण्डमुत्तमम् । । ७ चतुरस्रं श्रिया युक्तं पूर्वं कुण्डं तु कारयेत् । दक्षिणे चार्धचन्द्रं स्याद्वारुण्यां दिशि वर्तुलम् । । ८ पद्माकारं तु वै कुर्यादुत्तरे४ च विचक्षणः । तोरणानि ततः कुर्यात्पञ्चहस्तानि सुव्रत । । ९ न्यग्रोधोदुम्बरौ चैव बिल्वपालाशमेव च । अश्वत्थश्च शमी चैव चन्दनश्चेति कीर्तिताः । । 1.134.१० शुक्लवस्त्रसमायुक्तश्चित्रपट्टसमन्वितः । जपमालान्वितः कुर्यात्तोरणानि विचक्षणः । । ११ अग्निमीळेति मन्त्रेण यजेद्वै पूर्वतोरणम् । इषेत्वोर्जेति मन्त्रेण यजेद्दक्षिणतोरणम् । । १२ अग्न आयाहीति मन्त्रेण पश्चिमं तु समर्चयेत् । शं नो देवीति मन्त्रेण यजेदुत्तरतोरणम् । । १३ कलशांस्तु समादाय हेमगर्भसमन्वितान् । श्वेतचन्दनपङ्केन कण्ठस्वस्तिकभूषणान् । । १४ यवशालिशरावान्नवस्त्रालङ्कारविग्रहान् । आजिघ्रेति च मन्त्रेण कलशांस्तु निवेशयेत् । । १५ दुकूलश्चित्रपट्टैश्च वेष्टयेत्स्तम्भमालिकाम् । ध्वजादर्शपताकाभिश्चामरैस्तु वितानकैः । । १६ शङ्खघण्टानिनादैश्च गेयमङ्गलवाचनैः । तूर्यभेरीनिनादैश्च वेदध्वनिसमन्वितैः । । १७ पुण्यैश्च जयशब्दैश्च कारयेत महोत्सवम् । पताकाभिर्विचित्राभिः पूजामाल्योपशोभितम् । । १८ विचित्रस्रग्वितानाढ्यं प्रकीर्णकुसुमाङ्कुरम् । तन्मध्ये तु कुशास्तीर्णे देवार्चां स्थापयेद् बुधः । । १९ पताकां पीतवर्णां तु पूर्वे शक्राय दापयेत् । आग्नेय्यां रक्तवर्णाभां१ २यमाशायां यमोपमान् । । 1.134.२० नीलाञ्जनसमप्रख्यां नैर्ऋत्यां च प्रदापयेत् । वारुण्यां सितवर्णां च कृष्णां वायव्यगोचरे । । २१ हरितां यक्षराजाय ऐशान्यां सर्ववर्णिकाम् । श्वेतरक्तकचूर्णेन पद्ममालेखयेत्ततः । । २२ वैद्या वेदीति मन्त्रेण वेद्या आलभनं भवेत् । पूर्वाग्रानुत्तराग्रांश्च कुशानास्तीर्य यत्नतः । । २३ योगेयोगेति मन्त्रेण कुशश्चास्तरणं भवेत् । शय्या तत्रैव कर्तव्या दिव्यास्तरणसंयुता । । २४ गडुके द्वे विचित्रे तु तन्मध्ये स्थापयेद्बुधः । विचित्रदीपमालाभिर्भक्ष्यभोज्यान्नपानकैः । । २५ पूपकान्सुविचित्रान्वै मोदकांश्च प्रदापयेत् । पायसं कृशरं चैव दध्योदनसमन्वितम् । । २६ दधि चन्द्रसमप्रख्यं शुभच्छत्रं च विन्यसेत् । । २७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठायां मंडलविधिवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः
प्रतिष्ठास्नानविधिवर्णनम् नारद उवाच अतः परं प्रवक्ष्यामि स्नानकर्मविधिं तव । स्नापकस्तु महाप्राज्ञो ब्राह्मणो वेदपारगः । । १ अभिज्ञः सौरशास्त्राणामरुणो यदुसत्तम
भोजको भोजकैश्चान्यैर्ब्राह्मणैश्च तथा वृतः । । २ दिशाभागे मण्डलस्य ईशाने वै यथाक्रमम् । हस्तमात्रप्रमाणं तु भद्रपीठं तु विन्यसेत् । । ३ हस्तिना शकटेनापि भक्त्या ब्रह्मरथेन च । मंगलैर्ब्रह्मघोषैश्च देवं प्रासादमानयेत् । । ४ भद्रपीठं समादाय भद्रं कर्णेति मन्त्रतः । सूत्रधारस्तथा प्रोक्तः शुक्लाम्बरधरः शुचिः । । ५ स्नापयेत्कलशं गृह्य देवदेवं विभावसुम् । सामुद्रं तोयमाहृत्य जाह्नवं यामुनं तथा । । ६ सारस्वतं जलं पुण्यं चान्द्रभागं ससैन्धवम् । पुष्करस्य जलं श्रेष्ठं गिरिप्रस्रवणोदकम् । । ७ अन्यद्वापि शुचि तोयं नदीनदतडागजम् । यथाशक्त्या उपाहृत्य कलशैः काञ्चनादिभिः । । ८ भोजकाश्चाष्टभिः सूर्यं कलशैः स्नापयन्ति वै । ततस्तु मणिरत्नानि सर्वबीजौषधीस्तथा । । ९ सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च । चन्दनानि च मुख्यानि गन्धाश्च विविधास्तथा । । 1.135.१० ब्राह्मी सुवर्चला मुस्ता विष्णुक्रान्ता शतावरी । दूर्वा च शिबिपुष्पी च प्रियङ्गू रजनी वचा । । ११ सम्भृत्यैतांस्तु सम्भारान्स्नानकर्मविभागवित् । बलाश्वत्थशिरीषाणां पल्लवैः कुशसंयुतैः । । १२ कलशोपरि विन्यस्य दद्यादर्घ्यं रवेः सदा । काञ्चनै राजतैस्ताम्रैर्मृण्मयैः कलशैस्तथा । । १३ साक्षतैः सहिरण्यैश्च सर्वौषधिसमन्वितैः । गायत्र्या परिपूतैस्तु षोडशैः स्नापयेद्रविम् । । १४ कुशोत्तरां१ ततः कृत्वा वेदिं पक्वेष्टकामयीम् । तस्यां वेद्यां समारोप्य परिधाप्य च वाससी । १५ प्रतिमामभिषिञ्चेच्च सोपवासः प्रयत्नतः । मूर्ध्नि सर्वौषधीः कृत्वा तथैवामलकानि च । । १६ मन्त्रेण मृत्तिकां चापि मन्त्रतश्च जलं तथा । त्वं देवी वन्दिता देवैः सकलैर्दैत्यदानवैः । । १७ तेन संस्थापिता मूर्ध्नि मया देवस्य शुद्धये । आदिस्त्वं सर्वभूतानां देवतानां च सर्वथा । । १८ रसानां पतये तुभ्यमाह्वानं च कृतं मया । इत्थं पौराणिकैर्मंत्रैवैदिकैश्च विशेषतः । । १९ कार्यं हि वारुणं स्नानं देवस्य यदुनंदन । इत्थमुच्चारयेद्वाचं कुर्यात्स्नानं विचक्षणः । । 1.135.२० देवास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुशिवादयः । व्योमगङ्गा च पूर्णेन द्वितीयकलशेन तु । । २१ सारस्वतस्य पूर्णेन कलशेन सुरोत्तम । शक्रादयोभिषिंचन्तु लोकपालाः सुरोत्तमाः । । २२ सागरोदकपूर्णेन चतुर्थकलशेन तु । वारिणा परिपूर्णेन पद्मपत्रसुगन्धिना । । २३ पञ्चमेनाभिषिञ्चन्तु नागाश्च कलशेन तु । हिमवद्धेमकूटाद्याश्चाभिषिञ्चन्तु वारिणा । । २४ नैर्ऋतोदकपूर्णेन षष्ठेन कलशेन तु । सर्वतीर्थाम्बुपूर्णेन पद्मरेणुसुवासिना । । २५ सप्तमेनाभिषिञ्चन्तु ऋषयः सप्त ये वराः । वसवश्चाभिषिञ्चन्तु कलशेनाष्टमेन वै । । २६ अष्टमङ्गलयुक्तेन देवदेव नमोऽस्तु ते । ततो वै कलशैर्दिव्यैः स्नानकर्म समारभेत् । । २७ समुद्रं गच्छ यः प्रोक्तो मन्त्रमेतमुदीरयेत् । हिरण्यगर्भेति च यो मन्त्रस्तं समुदीरयेत् । । २८ समुद्रज्येष्ठेति मन्त्रेण क्षालयेन्मृत्तिकान्वितम् । सिनीवालीति मन्त्रेण दद्याद्वल्मीकमृत्तिकाम् । । २९ शम्युदुम्बरमश्वत्थं न्यग्रोधं च पलाशकम् । यज्ञं यज्ञेति मन्त्रेण दद्यात्पञ्चकषायिकम् । । 1.135.३० पञ्चगव्यं पवित्रं च आहरेत्ताम्रभाजने । गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । । ३१ आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसीति घृतं तद्वद्देवस्य त्वा कुशोदकम् । । ३२ एवमादिविधियुतं पञ्चगव्यं प्रकीर्तितम् । या१ ओषधीति मंत्रेण स्नानमोषधिभिः क्रमात् । । ३३ द्रुपदाभिः पुनस्तस्य कुर्याच्चोद्वर्तनं बुधः । शिरः स्नानं ततो दद्यान्मानस्तोकाभिमन्त्रितम् । । ३४ विष्णोरराटमन्त्रेण दद्याद्गन्धोदकं शुभम् । ततो नद्युद्भवेनैव क्षालयेच्छुद्धवारिणा । । ३५ जातवेदसमुच्चार्य वस्त्रपूतेन वारिणा । तत आवाहयेद्देवं रक्तमाल्याम्बरं शुभम् । । ३६ एह्येहि भगवन्भानो लोकानुग्रहकारक । यज्ञभागं गृहाणार्घ्यमर्कदेव नमोऽस्तु ते । । ३७ हिरण्येन तु पात्रेण देवायार्घ्यं प्रदापयेत् । इदं विष्णुर्विचक्रमे मन्त्रेणार्घ्यं समर्पयेत् । । ३८ पार्थिवैः प्रथमं कलशैः स्नापयेद्भास्करं बुधः । ततस्त्वौदुम्बरैर्वीर राजतैस्तदनन्तरम् । । ३९ ततस्तु काञ्चनैर्देवं स्नापयेद्यदुनन्दन । सर्वतीर्थजलैर्युक्तं सर्वौषधिसमन्वितम् । । 1.135.४० शङ्खमादाय देवस्य ततो मूर्धनि शङ्कर । दत्त्वा पुष्पाणि देवस्य मूर्ध्नि यत्नाद्विचक्षणः । ।४ १ तोयमुत्क्षिप्य यत्नेन ततः स्नपनमाचरेत् । प्रथमं स्नापयेद्देवं वारिणा यदुनन्दन । । ४२ ततस्तु पयसा राजन्पायसेन ततस्तु वै । घृतेन मधुना वापि तथा इक्षुरसेन च । । ४३ अग्निष्टोमस्य यज्ञस्य गोमेधस्य च सुव्रत । ज्योतिष्टोमस्य राजेन्द्र वाजपेयस्य वै विभो । । ४४ राजसूयाश्वमेधाभ्यां घृताद्यैर्लभते फलम् । यस्तु कारयते स्नानं यस्तु भक्त्या प्रपश्यति
कोपनो दुष्टशीलश्च युवा वा वृद्ध एव च । । ६३ श्वित्री कुष्ठी च रोगी च काणो दुर्मतिरेव च । संकीर्णो जातिहीनश्च तथा न वृषलीपतिः । । ६४ कुब्जश्चाधस्तथा व्यंगः खल्वाटो विकलेन्द्रियः । अविनीतो दुरात्मा च विकलः पङ्गुरेव च । । ६५ तिथिनक्षत्रयोगानां वाराणां च तथा विभो । सूचको जीविकार्थं३ हि यश्च मूल्येन पाठयेत् । । ६६ ईदृशान्स्नापकान्सर्वान्वर्जयेत प्रयत्नतः । तस्मात्सर्वप्रयत्नेन परीक्ष्याः स्नापका बुधैः । । ६७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सांबोपाख्याने सूर्यप्रतिष्ठास्नानविधिवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः
सूर्यप्रतिष्ठावर्णनम् नारद उवाच अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् । सहस्रशीर्षा पुरुषो मण्डपं यत्नतो विशेत् । । १ ततोऽन्ये च शुचौ देशे असंस्पृष्टोपलेपने । मण्डलं पञ्चवर्णैस्तु आलिखेच्चतुरस्रकम् । । २ पताकातोरणच्छत्रध्वजमाल्याद्यलंकृतम् । विचित्रसुवितानाढ्यं प्रकीर्णकुसुमोत्करैः । । ३ तस्य मध्ये कुशास्तीर्णे मूर्तिः स्थाप्या विवस्वतः । तत्रास्यावाहनं कृत्वा दद्यादर्घ्यं विवस्वते । । ४ सुवर्णमधुपर्कादि कृत्वा१ तत्र विधानतः । देवस्य दर्शयेद्गां च सवत्सां रोहिणीं शुभाम् । । ५ नमो गोपतये तुभ्यं सहस्रांशो प्रसीद मे । एवमर्घ्येण सम्मन्त्र्य परिधाय च वाससी । । ६ यज्ञोपवीतमातिथ्यं तथाभ्यङ्गं तथैव च । वत्सरे वत्सरे तस्य नवमव्यङ्गमाहरेत् । । ७ श्रावणे मासि राजेन्द्र पवित्रं तस्य तद्धि वै । ब्राह्मणान्भोजयित्वा तु वर्षेवर्षे प्रयोजयेत् । । ८ अव्यङ्गं यदुशार्दूल श्रावणे मासि भास्करम् । सर्वगन्धैः समालभ्य चन्दनागुरुकुङ्कुमैः । । ९ अलङ्कारैरलङ्कृत्य कुसुमैश्च सुगन्धिभिः । मालाभिश्च विचित्राभिराबद्धाभिरनेकशः । । 1.136.१० ततो धूपं निवेद्याशु प्रतिमाग्रे प्रयत्नतः । सहस्रशीर्षा पुरुषो मण्डपं च प्रवेशयेत् । । ११ नमः शम्भवेति मन्त्रेण शय्यायां विनिवेशयेत् । विश्वतश्चक्षुरित्येव कुर्यात्कमलनिष्कलम् । । १२ पुनरेव च वक्ष्यामि सङ्कलीकरणं शुभम् । स्नापने तु यथाकार्यः स्वदेहे न्यास उत्तमः । । १३ प्रतिमायां तथा कार्यो यथा चालम्भनं बुधः । ॐ हुं खषोल्काय नमो मूलमन्त्रः प्रकीर्तितः । । १४ आदित्योऽयं स्वयं देवो ह्यक्षरेणोपबृंहितः । ॐकारं विन्यसेन्मूर्ध्नि हुंकारं नासिकोपरि । । १५ खकारं च ललाटे तु षकारं वदने न्यसेत् । लकारं चैव कंठे तु ककारं हृदये न्यसेत् । । १६ यकारं तु भुजे वामे नकारं दक्षिणे भुजे । मकारं वामकुक्षौ च विसर्गं दक्षिणे न्यसेत् ।। १७ ॐकारं तु सदा ध्यायेज्ज्वालामालासमाकुलम् । हुङ्कारं शुद्धवर्णाभं प्रसुवन्तमलं शुभम् ।। १८ खकारं चिन्तयेत्प्राज्ञो भिन्नाञ्जनसमप्रभम् । तरुणादित्यवर्णाभं खकारं चिन्तयेद्बुधः ।। १९ षोकारं तु महाबाहो हेमवर्णं विचिन्तयेत् । शुक्लपद्मनिभाकारमकारं चिंतयेद्बुधः ।।1.136.२० जातीकुसुमसंकाशं ह्रींकारं सर्ववर्णकम् । क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः ।।२ १ नकारं हिमकुन्दाभं मकारममृताक्षरम् । ह्रींकारं विद्युत्संकाशं ह्रींकारं सर्ववर्णकम् ।।२२१ क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः । नकारं स्वर्णवर्णाभं मकारं कनकप्रभम् ।।२३ ततो देवं महात्मानं सहस्रकिरणं रविम् । प्रसादाभिमुखं देवं शयनीये निवेशयेत् ।।२४ अग्निकार्यं ततः कुर्युरग्निकुण्डेषु वै द्विजाः । ततोऽरण्यां समुत्थाप्य अग्निं लौकिकमेव वा ।।२५ प्रज्वाल्याग्निं विधानेन कुर्याद्धोमं विचक्षणः । बह्वृचः पूर्वकाण्डेषु याम्यां मध्यन्दिनस्तथा ।।२६ पश्चिमे चैव च्छन्दोग उत्तरेऽथर्वणो मतः । मध्ये च भोजकः कुर्याद्धोमं यज्ञे यदुत्तम ।।२७ शमीपालाशोदुम्बराणि ह्यपामार्गस्तथैव च । द्वादश तु सहस्राणि अष्टौ चत्वारि एव च ।।२८ द्वे त्रीणि च सहस्राणि अथ वा एकमेव हि । अग्निर्मूर्धेति मन्त्रेण कुण्डस्यालम्भनं भवेत् ।।२९ उल्लिख्याभ्युक्ष्य तेनैव अग्निं दूतमिति स्मृताः । सम्बुध्यस्वाग्ने मन्त्रेण गर्भाधानं तु कारयेत् ।।1.136.३ ० सीमन्तेति पुनस्तत्र महामन्त्रेण होमयेत् । जातकर्म तथा प्रोक्तं प्राणायामं विदुर्बुधाः । । ३१ नमः स्वाहेति मन्त्रेण नामकरणमेव च । अन्नप्राशनमन्त्रेण अन्नप्राशनमादिशेत् । । ३२ ज्येष्ठमग्रेति मन्त्रेण तेन चूडोपकर्मणि । व्रतबन्धस्य मन्त्रेण व्रतबन्धं समादिशेत् । । ३३ समावर्तनमित्येव आकृष्णेति च होमयेत् । पत्नीसंयोजनं चैव स्वयमेव प्रकल्पयेत् । । ३४ अग्निहोत्रादिकं कर्म यज्ञकर्माणि यानि च । महाव्याहृतिमन्त्रेण होतव्यानि समन्ततः । । ३५ मातॄणां यज्ञभूतानां बलिकर्म प्रदापयेत् । सर्वकामसमृद्ध्यर्थं कारयेदधिवासनम् । । ३६ त्रिरात्रं पञ्चरात्रं च अहोरात्रमथापि वा । ततः त्वलङ्कृतां स्नातां मणिरत्नैर्विभूषिताम् । । ३७ कृतरक्षां प्रयत्नेन प्रतिमामधिवासयेत् । देवागारादथैशाने दिग्भागे दिव्यमन्दिरम् । । ३८ कृत्वा कुशपरिस्तीर्णे वरास्तरणसंवृते । पूर्वशीर्षां तथा शय्यां शुक्लां शुक्लाम्बरोत्तराम् । । ३९ तस्यामावेशयेत्सम्यङ्महाश्वेतमुपाहरेत् । निक्षुभा दक्षिणे पार्श्वे वामे राज्ञी च कीर्तिता । । 1.136.४० दण्डपिङ्गलकौ चास्य स्थितौ पादप्रवेशितौ । तस्यां संवेशितायां तु शर्वर्यां प्रतिमां रवेः । । ४१ वसेत्तां रजनीं तत्र स्तूयमानश्चतुदिशम् । ब्राह्मणैर्बन्दिभिश्चापि गीतज्ञैश्चारणैस्तथा । । ४२ कुर्याज्जागरणं तत्र सूर्यभक्तिसमन्वितैः । प्रभातायां तु शर्वर्यां बोधयेदृग्विधानतः । । ४३ हविष्यं भोक्तुकामांस्तु ब्राह्मणान्भोजकांस्तथा । दक्षिणाभिश्च सम्पूज्य तैः कृतस्वस्तिवाचनः । ।४४ ततो गर्भगृहस्थाय मध्ये कृत्वा तु पिण्डिकाम् । विधिवत्तत्र सौवर्णं न्यसेत्सप्तहयं रथम् । ।४५ सर्वबीजौषधैश्चैव तत्र धृत्वा विधानवित् । दत्त्वार्घ्यं स्थापयेत्तत्र यजमानः सहायवान् । । ४६ शङ्खदुन्दुभिनिर्घोषैर्जलधारासहाक्षतैः । कृत्या पुण्याहशब्दं तु आलयस्य प्रदक्षिणाम् । ।४७ शुभलग्ने दिने ऋक्षे पूर्वाह्णे भानवे क्षणे । मुहूर्ते च शुभे भानोः प्रतिमां स्थापयेद्बुधः । ।४८ नाधोमुखीं नोर्ध्वमुखीं न पार्श्वावनतां तथा । समामभिमुखीं चेमां प्रतिमां तु निवेशयेत् । ।४९ पत्न्यौ चास्य ततः सम्यक्पार्श्वयोर्विनिवेशयेत् । निक्षुभा दक्षिणे पार्श्वे रवे राज्ञी तु वामतः । । 1.136.५० ततस्तदुपहारार्थं सम्भारं प्राक्तमाहृतैः । मोदकायूषिकापूपशष्कुलीभूतशीर्षकैः । । ५१ कृशरैः पायसोन्मिश्रैः सर्वदिक्षु क्षिपेद्बलिम् । इन्द्राय देवपतये बलिने वज्रपाणये । ।५ २ शतयज्ञाधिपतये तस्मै इन्द्राय ते नमः । त्रातारमिन्द्रमन्त्रेण इन्द्रस्यावाहनं भवेत् । । ५३ अग्नये रक्तनेत्राय ज्वालामालार्चिताय वै । शक्तिहस्ताय तीव्राय तथा चैवाजवाहिने । । आग्रेय्यामग्रिमन्त्रेण वह्नेरावाहनं स्मृतम् । । ५४ दण्डहस्ताय कृष्णाय महिषोत्तमवाहिने । सूर्यपुत्राय देवाय धर्मराजाय वै नमः । । ५५ यमाय त्विति मन्त्रेण मुद्रास्तस्यैव कीर्तिताः । नैर्ऋते खड्गहस्ताय नीललोहितकाय च । । ५६ सर्वबाह्याधिपतये विरूपाख्याय वै नमः । आयं गौरिति मन्त्रेण नैर्ऋत्यां तु प्रकल्पयेत् ।।५७ वारुण्यां पाशहस्ताय वरुणायेति कल्पयेत् । मन्त्रेणावाहनं विद्यात्पञ्चनद्यः सरस्वतीम् ।।५८ प्राणात्मकाय धूपाय अव्यङ्गायानिलाय च । ध्वजहस्ताय भीमाय नमो गन्धवहाय च ।।५९ तस्याप्यावाहनं विद्याद्यद्देवादेवहेडनम् । गदाहस्ताय सोमाय शुष्मिणे नृगताय च ।।1.136.६ ० गदापट्टिशहस्ताय सोमराजाय वै नमः । ईशावास्यं च गुह्या वै सोममन्त्रः प्रकीर्तितः ।।६ १ चतुर्मुखाय देवाय पद्मासनगताय च । कृष्णाजिननिषण्णाय नमो लम्बोदराय च ।।६२ गणाधिपतये देव नीलकण्ठाय शूलिने । विरूपाक्षाय रुद्राय त्रैलोक्याधिपते नमः ६ ३ सर्वनागाधिराजाय श्वेतवर्णाय भोगिने । सहस्रफणिने नित्यमनन्ताय नमोनमः ।।६४ नमोऽस्तु सर्पेभ्य इति मन्त्रश्चैव प्रकीर्तितः । पञ्चरात्रादिभिर्न्यासो ह्यंगन्यासः प्रयुज्यते ।।६५ तथोपक्षीरपानैश्च स्तुतिस्तोत्रैश्च भास्करम् । विप्रेभ्यो भोजकेभ्यश्च ततो दद्याच्च दक्षिणाम् ।।६६ सूर्यक्रतुं महापुण्यं नैव कुर्याददक्षिणम् । स्थाप्यतेऽनेन विधिना तद्भक्तैः प्रतिमा च या ।।६७ सा तु वृद्धिकरा नित्यं सान्निध्याच्च सदा भवेत् । सप्तजन्मसु तेषां तु न रोगाः सम्भवन्ति हि ।।६८ उपासते त्रिरात्रं ये भानोर्यात्राभिवासने । गन्धमाल्योपहारैस्तु ते यान्ति भुवनं रवेः ।।६९ आत्मीयं परकीयं वा प्रतिमास्थापनं रवेः । यः पश्यति पुमान्भक्त्या स स्वर्लोकमवाप्नुयात् । । 1.136.७० दशानामश्वमेधानां वाजपेयशतस्य च । फलं प्राप्नोति पुरुषः प्रतिष्ठाप्य दिवाकरम् । । ७१ यावत्कीर्तिः पुण्यकृता भानोः स्थाने निवेशिते । तावत्स तु यदुश्रेष्ठ सूर्यलोके महीयते । । ७२ स्थापने चास्य वै मन्त्रः प्रोक्तो लोकेषु पूजितः । ध्रुवा द्यौश्च ध्रुवा पृथ्वी ध्रुवं विश्वमिदं जगत् । । श्रेयसे यजमानस्य तथा त्वं ध्रुवतां व्रज । । ७३ स्थापयित्वा रविं भक्त्या विधिदृष्टेन कर्मणा । मासे मासे ऋतुफलं लभन्ते नात्र संशयः । । ७४ एकाहेनापि यद्भानोः पूजया प्राप्यते फलम् । न तु क्रतुशतैर्वीर प्राप्यते मानवैर्भुवि । । ७५ कृत्वापि सुमहत्पापं यः पश्चात्सेवते रविम् । स याति सूर्यलोकं तु नरो विगतकल्मषः । । ७६ न भवेदिष्टकानां च द्रवणं भूमिसंमिति । स्वर्गे महीयते तावत्कारको देववेश्मनः । । ७७ खण्डस्फुटितसंस्कारं कृत्वा यत्फलमाप्यते । न तु क्रतुसहस्रैस्तु प्राप्यते फलमुत्तमम् । । ७८ सिकतायामपि गृहं यस्तु कुर्याद्विभावसोः । गोपतेः स प्रियसदः प्रगच्छेद्गोपतेर्वरम् । । ७९ इत्येवं सुरवरस्य तस्य भानोर्भूतानां स्थितिनिलयप्रसूतिहेतोः । श्रीभागी भवति नरो निकेतकारी कल्पानां वसति शतं स सूर्यलोके । । 1.136.८० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठावर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः
प्रतिष्ठापनविधिवर्णनम् नारद उवाच यः प्रासादं रचयति पुमान्देवतानां प्रयत्नात्तत्र प्रीत्या सपदि कुरुते स्थापनां भानुभक्तः । दिव्यान्भोगाँल्लभति च सदा कामतश्चाप्रमेयांस्तान्भुक्त्वासौ पुनरपि भवेच्चक्रवर्ती पृथिव्याम् । । १ ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वन्ति साधुजनदृष्टिमनोहराणि । तेषां मृतेऽप्यपरमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् । । २ इति ते कथितमिदं देवपूज्यस्य सवितुः स्थापनमिवाधानम् । साधारणं विधानं शृणु देवानां प्रतिष्ठापने वीर । । ३ स्नातो भुक्तो वस्त्रालङ्कृतकुसुमैर्गन्धैः प्रतिमाया आस्तीर्णायां शय्यायां स्थापनं कुर्यात् । सुप्तायां तु स नृत्यगीतैर्जागरणैः सम्यगेवाधिवास्य दैवज्ञेन प्रतिदिष्टकाले संस्थापनं कुर्यात् । अभ्यर्च्य कुसुमगन्धानुलेपनैः शङ्खतूर्यनिर्घोषैः प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन कृत्वा बलिं प्रतिमामभ्यर्च्य ब्राह्मणांश्च साधून्दत्त्वा हिरण्यकलशं विधिना निक्षिपेत्पिंण्डिकामध्ये सुश्वभ्रे स्थापकदैवज्ञद्विजान्सम्यग्विशेषतोऽभ्यर्च्याकल्पान्तं भोगी भवतीह परत्र सुखी । ।४ विष्णोर्भागवता मताश्च सवितुः शम्भोः सभस्मद्विजा मातॄणामपि मातृमण्डलविदो विप्रा विदुर्ब्राह्मणाः । सर्वे यस्य विमुक्तशुक्लवसना बुद्धस्य रक्ताम्बरा ये यं देवमुपाश्रिताः सुविधिना तैस्तस्य कार्या क्रिया । । ५ सामान्यमिदं देवानामधिवासनं भवति मया कथितम् । क्रियमाणमिदं दृष्ट्वा देवानां प्रतिष्ठापनम् । । नरो भक्त्या इह कामानवाप्य स्वर्गभाजनं भवति । । ६ इदं ते कथितं राजन्प्रतिष्ठापनमादितः । यत्कृत्वा सवितुः स्नानं नरो याति मनोगतिम् । । ७ इत्थं कुर्यान्नरो भक्त्या सवितुः स्थापनं बुधः । कारयेत्पुरतो भक्तया सवितुः स्थापनं बुधः । । ८ इतिहासपुराणस्य श्रवणं पापनाशनम् । ताभ्यां हि श्रवणाद्वीर सान्निध्यं याति भास्करः । । ९ कृते त्वायतने तस्मिन्ये चान्ये चापि देवताः । तस्मात्कार्यं बुधैर्नित्यं धर्मश्रवणमादितः । । 1.137.१० वाचकं पूजयित्वा तु ब्राह्मणानुपपूज्य च । कारयेद्वाचनं वीर पुस्तकस्याग्रतो रवेः । । ११ सर्वस्वं स्थापके दद्याद्यत्किञ्जिद्गृहमागतम् । गोदानमथवा दद्यात्तस्य चित्तं प्रसादयेत् । । १२ इत्येष कथितो वीर प्रतिष्ठाकल्प आदितः । कृत्वा दृष्ट्वा च श्रुत्वा च यं नरोऽर्कमवाप्नुयात् । । १३ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने प्रतिष्ठापनविधिवर्णनम् नाम सप्तत्रिंशदधिकशततमोऽध्यायः
ध्वजारोपणविधिवर्णनम् नारद उवाच हन्त ते कथयिष्यामि ध्वजारोपणमुत्तमम् । यदुक्तं ब्रह्मणा पूर्वमृषभाधिपते पुरः । । १ पुरा देवासुरे युद्धे यानि देवैर्जयेप्सुभिः । कृतान्युपरि चिह्नानि वाहनानि ध्वजानि तु । । २ लक्ष्मचिह्नध्वजं केतुरिति पर्यायनामभिः । कीर्तितः स च तस्येह प्रमाणं गदतः शृणु । । ३ ध्वजो वंशस्य कर्तव्यस्त्वविद्ध ऋजुरव्रणः । प्रासादव्यास तुल्यस्य ध्वजवंशप्रमाणतः । । ४ देवागारस्य ये प्रोक्ता मञ्जरीकलशादयः । अथ वा तत्प्रमाणस्तु ध्वजदण्डः प्रकीर्तितः । । ५ अन्तर्गृहस्य या वेदी सूत्रतः परिकल्पिता । तस्या व्यासो भवेद्वंशः प्रसादस्य यदूत्तम । । ६ अथ वा मूलसूत्रेण यो व्यासोऽन्तर्गृहस्य तु । प्रासादव्यास इति ते प्रोक्तश्चेह न संशयः । । ७ केतुर्भवेद्वरो वंशो न निम्नो न ऋजुस्तथा । पत्रं ध्वजे युगं चैव नलिकापुरुषस्तथा । । ८ चतुर्हस्ता भवन्त्येते प्रशस्ताः कृष्णनन्दन । अष्टहस्तप्रमाणस्तु विंशार्धस्य१ प्रमाणतः । । ९ सामान्यो ध्वजदण्डस्तु सर्वसाधारणो मतः । दण्डपाणिध्वजो यस्तु स्मृतः षोडशहस्तवान् । । 1.138.१० विंशद्धस्तात्परो दण्डो न कार्यः सर्वथा रवेः । युग्महस्तस्तु कर्तव्यो ध्वजदण्डो मनीषिभिः । । ११ चतुरङ्गुलविस्तीर्णः सुवृत्तो द्व्यङ्गुलोपरि । नातिसूक्ष्मो न च स्थूलो न कार्यो नतपर्वकः । । १२ समपर्वातु कर्तव्यः सुदृढः सूक्ष्म एव हि । वक्रः पुत्रविनाशाय सव्रणोऽर्थविनाशनः । । १३ रोगदो युग्महस्तस्तु भिन्नो दुःखमनन्तकम् । करोति हानि धर्मस्य हीनो यस्तु प्रमाणतः । । १४ वैषम्यमसमपर्वा दद्यात्कृच्छ्रमधोन्नतः । जयो जयन्तो जैत्रेयः४ शत्रुहन्ता जयावहः । । १५ नन्दोपनन्दनौ चैवेन्द्रोपेन्द्रौ गदितौ तथा । दशैते कीर्तिता भेदा ध्वजस्यानन्दसम्मिताः । । १६ द्विजहस्तस्तु जयो दण्डो जयन्तो द्विगुणो मतः । द्वादशहस्तस्तु जैत्रेयः शत्रुहन्ता कलान्वितः । । १७ जयावहस्तु विंशार्धो नन्द आदित्यसन्निभः । चतुर्दशोपनन्दस्तु इन्द्रः षोडश उच्यते । । १८ उपेन्द्रोऽष्टादशः५ प्रोक्तस्तथेन्द्रो विंशतिः स्मृतः । भिन्नो वक्रोऽसाधितश्च न कार्यो दण्ड एव हि । । १९ मूलमन्त्रेण कर्तव्यो व्यासतोऽन्तर्गृहस्य तु । ध्वजदण्डो महाबाहो अथ वा वास्तुमानतः । । 1.138.२० मञ्जरीमानतो वापि तदर्धेनाथवा विभो । पताका वै शुभा कार्या ध्वजवंशावलम्बिनी । । २१ देवागारस्य शिखरात्त्रिभागपरिमार्जनी । सा प्रोक्ता दशधा वीर मानतोमानतस्तथा । । २२ अङ्कुरः पल्लवश्चैव स्कन्धः शाखा तथैव च । पताका कदली वीर केतुर्लक्ष्म जयस्तथा । । २३ ध्वजश्च दशमः प्रोक्तः सर्वदेवमयोव्ययः । अङ्कुरो द्वयंगुलः प्रोक्तः पल्लवश्चतुरङ्गुलः । । २४ स्कन्धः षडङ्गुलः प्रोक्तः शाखा चाष्टाङ्गुलो मता । एकादशपताका तु कदली च चतुर्दश । । २५ केतुस्तु षोडशः प्रोक्तो लक्ष्माष्टादशमुच्यते । जया विंशति वै प्रोक्ता एतावत्त्वङ्गुलानि तु । । २६ देवागारस्य कुम्भस्य प्रसन्ना सा प्रमार्जनी । अङ्कुरेति पताका सा विज्ञेया यदुनन्दन । । २७ पल्लवेति द्वितीयस्य मार्जनी परिकीर्तिता । त्रिभागमार्जनीस्कन्धः शाखा वै पञ्चमस्य तु । । २८ षष्ठस्योक्ता पताका तु कदली सप्तमस्य तु । अष्टमस्य तथा केतुर्लक्ष्म च नवमस्य तु । । २९ ततस्तु दशमः प्रोक्तो जयन्तो यदुनन्दन । वृषस्थानावमार्गी तु ध्वजस्तु परिकीर्तितः । । 1.138.३० गजो मेषोऽथ महिषः कबन्धस्तु वृषस्तथा । हरिणोऽथ नरश्चैव नरश्च नरसत्तम । । ३१ स्थानान्येतानि भूयोऽथ१ प्रयुक्तस्य ध्वजस्य तु । दिशभागे तु पूर्वात्तु क्रमेण परिकल्पयेत् । । ३२ एवं दशविधा प्रोक्ता पताका तत्त्वदर्शिभिः । कर्तव्या सा यथापूर्वं तच्छृणु त्वं नराधिप । । ३३ शुक्लवस्त्रमयी चित्रा सघण्टा सुमनोहरा । नानाचामरसम्पन्ना किङ्किणीजालमण्डिता । । ३४ ध्वजाग्रे चैव कर्तव्यो देवतालिङ्गसूचकः । काञ्चनो वाथ रौप्यो वा मणिरत्नमयोऽपि वा । । ३५ रङ्गकैर्लिख्यते वापि तद्वाहनसमाकृतिः । ध्वजदण्डोऽत्र विन्यस्तः कर्तव्यो यदुनन्दन । । ३६ गरुत्मात्मांस्तु ध्वजो विष्णोरीश्वरस्य ध्वजो वृषः । ब्रह्मणः पङ्कजं कार्यं रवेर्धर्मः स्मृतो ध्वजः । । ३७ हंसो१ जलाधिपस्योक्तः सोमस्य तु नरो ध्वजः । बलदेवस्य कालस्तु कामस्य मकरध्वजः । । ३८ सिंहो ध्वजस्तु दुर्गायाः कीर्तितो यदुनन्दन । गोधा चापि उमादेव्या रैवतस्य हयः स्मृतः । । ३९ कच्छपो वरुणस्योक्तो वातस्य हरिणो मतः । पावकस्य तथा मेष आखुर्गणपतेर्मतः । । 1.138.४० ब्रह्मर्षीणां [https://vedastudy.yolasite.com/kusha1.php कुशः] प्रोक्त इत्येषा ध्वज कल्पना । यस्य यद्वाहनं प्रोक्तं तत्तस्य ध्वज उच्यते । । ४१ विष्णोर्ध्वजे तु सौवर्णं दण्डं कुर्याद्विचक्षणः । पताका चापि पीता स्याद्गरुडस्य समीपगा । । ४२ ईश्वरस्य ध्वजे दण्डो राजतो यदुनन्दनः । पताका चापि शुक्ला स्याद्वृषभस्य समीपगा । । ४३ पितामहध्वजे दण्डः स्मृतस्ताम्रमयो बुधैः । पद्मवर्णा पताका स्यात्पङ्कजस्य समीपगा । । ४४ आदित्यस्य च सौवर्णो ध्वजे दण्डः प्रकीर्तितः । पञ्चवर्णा पताका स्याद्धर्मस्याधोगता नृप । । ४५ किङ्किणीजालसम्पन्ना नानबुद्बुदसन्निभा । पुष्पमालोपसम्पन्ना नानावादिभिरावृता । । ४६ दण्ड इन्द्रध्वजस्योक्तः काञ्चनो यदुनन्दन । पताका बहुवर्णा स्यात्कुञ्जरस्य समीपगा । । ४७ आयसश्चापि दण्डोक्तो यमचिह्नं विचक्षणैः । पताका वर्णतः कृष्णा महिषस्य समीपगा । । ४८ जलाधिपध्वजो दण्डो राजतः परिकीर्तितः । पताका सर्वतः श्वेता विचित्रा सा च कथ्यते । । ४९ ध्वजे चापि कुबेरस्य दण्डो मणिमयः स्मृतः । पताका चापि रक्ता स्यान्नरपादसमीपगा । । 1.138.५० बलदेवध्वजे दण्डो राजतो यदुनन्दन । पताका वर्णतः शुक्ला तालस्याधोगता स्मृता । । ५१ कामध्वजे त्रिलोहः स्याद्दण्डो यदुकुलोद्वह । पताका रोहिणी तत्र मकरस्य समीपगा । । ५२ मायूरं कार्त्तिकेयस्य चिह्नं लोकेषु गीयते । त्रिलोहदण्डमारूढं बहुरत्नविभूषितम् । । ५३ बहुवर्णकचित्रा तु पताका कथिता बुधैः । हस्तिदन्तभवं दण्डं कुर्याद्गणपतेर्नृप । । ५४ ताम्रदण्डं समारुढं संशुद्धं सम्प्रतिष्ठितम् । शुक्ला पताका कर्तव्या सुप्रमाणा महीपते । । ५५ मातॄणां चापि कर्तव्यो नैकरूपो ध्वजो बुधैः । पताकाभिरनेकाभिबर्हुरत्नाभिरन्वितः । । ५६ रेवतस्यापि कर्तव्यो ध्वजो वाजी नराधिप । रक्ता पताका तत्रापि कर्तव्या यदुनन्दन । । ५७ चामुण्डामन्दिरे कार्यः शिरोमालाकुलो ध्वजः । नीला पताका कर्तव्या दण्डो लोहमयस्तथा । । ५८ रीतीमयश्च मातॄणां रेवतस्य च कारयेत् । गौर्या ध्वजस्ताम्रमयः पताका गोपसन्निभा । । ५९ स्वर्णदण्डस्तु वीरस्य ध्वजो मेषसमन्वितः । पताका बहुरत्नाढ्ये१ कर्तव्या यदुनन्दन । । 1.138.६० अश्मसारमयो दण्डो ध्वजो वातस्य उच्यते । पताका कृष्णवर्णा तु हरिणस्य समीपगा । । ६१ भगवत्या ध्वजो दण्डः सर्वरत्नमयः स्मृतः । पताका तु त्रिवर्णा स्यात्सिंहस्याधोगता नृप । । ६२ एवंविधमिमं कृत्वा ध्वजं लक्षणलक्षितम् । अधिवास्य ततो राजंस्तत आरोपयेद्बुधः । । ६३ ततः सर्वौषधीभिश्च स्नापयित्वा प्रयत्नतः । समालभ्य च बध्नीयान्मध्ये प्रतिसरान्नृप । । ६४ कल्पयित्वा शुभां वेदिं कलशैरुपशोभिताम् । तस्यां वेद्यां समारोप्य तां रात्रिमधिवासयेत् । । ६५ नानाकुसुमचित्रां च स्रजं तस्यानुलम्बयेत् । समभ्यर्च्य प्रयत्नेन धूपमस्य निवेदयेत् । । ६६ बलिकर्म ततः कृत्वा कृशरापूपकादिभिः । पलालपूपिकाभिश्च दधिपायससूपकैः
६७ उद्दिश्य लोकपालेभ्यो बलिं दद्याच्च वायसैः । ब्राह्मणान्स्वस्ति वाच्याथ कृत्वा पुण्याहमङ्गलम् । । ६८ वादित्रकृतनिर्घोषं जलं संस्कारसंयुतम् । नानाबुद्बुदसपन्नं वेष्टितं नववाससा । । ६९ शुभे लग्ने दिने ऋक्षे ध्वजं चारोपयेद्बुधः । विन्यस्य स्वर्णकलशं श्वभ्रराजं ध्वजस्य तु । । 1.138.७० एवमारोपयेद्यस्तु ध्वजं देवालयोपरि । स श्रिया वर्धते नित्यं प्राप्नोति परमां गतिम् । । ७१ असुरा वासमिच्छन्ति ध्वजहीने सुरालये । तस्माद्देवालयं प्राज्ञो ध्वजहीनं न कारयेत् । । ७२ मन्त्रश्च स्थापने प्रोक्तो विधानज्ञैर्ध्वजस्य तु । एह्येहि भगवन्देव देववाहन वै खग । । ७३ श्रीकरः श्रीनिवासश्च जय जैत्रोपशोभित । व्योमरूप महारूप धर्मात्मंस्त्वं च वै गतेः । । ७४ सान्निध्यं कुरु दण्डेऽस्मिन्साक्षी च ध्रुवतां व्रज । कुरु वृद्धिं सदा कर्तुः प्रासादस्यार्कवल्लभ । । ७५ ॐ एह्येहि भगवन्नीश्वरविनिर्मित उपरिचरवायुमार्गानुसारिञ्छ्रीनिवास रिपुध्वंस यक्षनिलय सर्वदेवप्रियं कुरु सान्निध्यं शान्ति स्वस्त्ययनं च मेभयं सर्वविघ्ना व्यपसरन्तु । । ७६ मन्त्रेणानेन राजेन्द्र श्वभ्रे दण्डे निवेशयेत् । पताकां पूर्वमन्त्रेण स्थित्या पूर्वमुखो नृप । । ७७ क्षिपेदूर्ध्वमथाकाशं प्रासादशिखराद्विभोः । यजमानस्ततः पश्येत्पताकां यदुनन्दन । । ७८ प्रासादपुरतो वापि पताकां पातयेद्यदि । इन्द्रलोकं तदा कर्ता विशेद्वै यदुनन्दन । । ७९ आग्नेय्यामग्निलोकं तु याम्यां यमसदो भजेत् । नैऋत्यां नैऋतं लोकं वारुण्यः वारुणं व्रजेत् । । 1.138.८० यस्य देवस्य यद्वेश्म कृतं यदुकुलोद्वह । तस्य लोकमवाप्नोति वृषस्थानगतो यदि । । ८१ वायव्ये वायुमाप्नोति सौम्यायां सोममाप्नुयात् । ऐशान्यामीशमाप्नोति कर्ता वै देववेश्मनः । । ८२ य एवं कारयेद्भक्त्या ध्वजस्यारोपणं रवेः । स हि भुक्त्वा परान्भोगान्सूर्यलोके महीयते । । ८३ तेजसाम्बुजसंकाशः कान्त्या चाम्बुजसन्निभः । द्विजातितुल्यः प्रभया विक्रमेण च गोपतेः । । ८४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने ध्वजारोपणविधिवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः
भोजकानयनवर्णनम् साम्ब उवाच त्वत्प्रसादान्मया प्राप्तं रूपमेतत्पुरातनम् । प्रत्यक्षदर्शनं चापि भास्करस्य महात्मनः । । १ सर्वमेतत्तु सम्प्राप्य पुनश्चिन्ताकुलं मनः । देवस्य परिचर्यायाः पालनं कः करिष्यति । । २ गुणयुक्तं द्विजं किञ्चित्समर्थं परिपालने । ममैवानुग्रहाद्ब्रह्मन्द्विजं व्याख्यातुमर्हसि । । ३ एवमुक्तस्तु साम्बेन नारदः प्रत्युवाच तम् । न द्विजाः परिगृह्णन्ति देवस्य स्वीकृतं धनम् । । ४ विद्यते हि धनं ह्यत्र गुणश्चायं प्रतिग्रहः । देवचर्यागतैर्द्रव्यैः क्रिया ब्राह्मी न विद्यते । । ५ अवज्ञया च कुर्वन्ति ये क्रियां लोभमोहिताः । अपाङ्क्तेया भवन्तीह ते वै देवलका द्विजाः । । ६ देवस्वं ब्राह्मणत्वं च यो लोभादुपजीवति । स पापात्मा नरो लोके गृध्रोच्छिष्टेन जीवति । । ततो न ब्राह्मणः कश्चिद्देवचर्यां करिष्यति । । ७ विधिज्ञं ज्ञानवन्तं च परिचर्याक्षमं तथा । देव एव तमाख्यातुं तस्मात्तं शरणं व्रज । । ८ अथवा यदुशार्दूल उग्रसेनपुरोहितम् । गत्वा१ गौरमुखं पृच्छ स ते कामं विधास्यति । । ९ नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः । सुखासीनं गृहे वीर उग्रसेनपुरोहितम् । । 1.139.१० कृतपूर्वाह्णिकं वीर विप्रं गौरमुखं नृप । विनयेनोपसङ्गम्य साम्बो वाक्यमथाब्रवीत् । । ११ मया भानोः प्रसादेन कारितं विपुलं गृहम् । सपत्नीकं ससैन्यं च पृथिव्यां सारवत्स्थितम् । । १२ सर्वं तस्मिन्मया दत्तं कृतं मूर्तेश्च मण्डलम् । तस्मादिष्ट्वा विशिष्टेभ्यो देयं दानं मनोगतम् । । १३ तत्सर्वं मम सम्प्रीत्या गृहाण त्वं महामुने । साम्बवाक्यमिदं श्रुत्वा प्रत्युवाच महामुनिः । । १४ गौरमुख उवाच ब्रवीम्यहमशेषेण यथावदनुपूर्वशः । अहं विप्रो भवान्राजा स च देवपरिग्रहः । । अपरस्परमेवं तु ग्रहणं मे विरुध्यते । । १५ ब्रह्मविद्याप्रणीतानि स्वकर्माणि द्विजातयः । कुर्वाणा न प्रहीयन्ते अन्यथा भिन्नवृत्तयः । । १६ क्षान्तिरध्यापनं२ जापः सत्यं च यदुनन्दन । एतानि विप्रकर्माणि न देवार्थपरिग्रहः
१७ यदि देवार्थदानं१ स्यात्ततो देवलका द्विजाः । देवद्रव्याभिलाषश्च ब्राह्मण्यं तु विमुञ्चति । । १८ देवद्वारे च यद्दानं ब्राह्मणाय प्रयच्छति । द्वावेतौ पापकर्तारावात्मदोषेण मानवौ । । १९ देवार्थदानं२ वार्ष्णेय यद्गृहीत्वा च यो द्विजः । श्राद्धे वा यदि वा सत्रे तज्जुहोति ददाति वा । । भिन्न वृत्तो द्विजः पापो राक्षसः सोऽभिजायते । । 1.139.२० द्विजो देवलको यत्र पङ्क्त्यां भुङ्क्ते महीपते । अन्नान्युपस्पृशेन्नीचा सा पङ्क्तिः पापमाचरेत् । । २१ द्विजो देवलको यस्य संस्कारं सम्प्रयच्छति । सोऽधोमुखान्पितॄन्सर्वानाक्रम्य विनिपातयेत् । । २२ आत्मानं पातयेद्यस्तु सोन्यानुद्धरते कथम् उद्धरिष्यति चात्मानमित्येषा कल्पनाधमा । । २३ यो हठाच्च भयाच्चैव कुरुते रविवेश्मनः । वृत्तिं विधत्ते विप्रत्वात्पतितस्स तु जायते । । २४ सप्रतिग्रहमन्त्रेण द्विजोऽश्नाति परिग्रहम् । देवप्रतिग्रहार्थेषु वेदवाक्यं न विद्यते । । २५ तस्माद्राजा न देवार्थं विप्रे दद्यात्कथञ्चन । ब्रह्मसूत्रमहं छित्त्वा गमिष्यामीति गम्यताम् । । २६ साम्ब उवाच अग्राह्यं चेद्द्विजातिभ्यः कस्मै देयमिदं मया । श्रुतं वा दृष्टपूर्वं वा तन्मे व्याख्यातुमर्हसि । । २७ गौरमुख उवाच मगाय सम्प्रयच्छ त्वं पुरमेतच्छुभं विभो । तस्याधिकारो देवान्ने देवतानां च पूजने । । २८ साम्ब उवाच कोऽयं मगेति ते प्रोक्ताः क्व वासौ वसते विभो । कस्य पुत्रो द्विजश्रेष्ठ किमाचारः किमाकृतिः । । २९ गौरमुख उवाच योऽयं मगेति वै प्रोक्तो मगो दिव्यो द्विजोत्तमः । निक्षुभायां १ सुतो वीर आदित्यात्मज उच्यते । । 1.139.३० साम्ब उवाच कथं स निक्षुभापुत्रः कथं वीरसुतस्तथा । कथं चादित्यतनयो मगोऽसावुच्यतेनऽघ । । ३१ गौरमुख उवाच मानुषत्वं गता देवी निक्षुभा किल यादव । गता शापमवाप्येह भास्कराल्लोकपूजिता । । ३२ गोत्रं मिहिरमित्याहुस्तस्मै ब्राह्मण्यमुत्तमम् । सुजिह्वा नाम धर्मात्मा ऋषिपुत्रः पुरानघ । । ३३ तस्यात्मजा समुत्पन्ना निक्षुभा सा वराङ्गना । रूपेणाप्रतिमा लोके हारलीला मता तु सा । । ३४ पितुर्नियोगात्सा कन्या विहरेज्जातवेदसि । । ३५ विहरन्ती यथान्यायं समिद्धे पावके तथा । अथ तां देवदेवेशो ह्यंशुमाली ददर्श ह । । ३६ रूपयौवनसम्पन्नां ततः कामवशं गतः । चिन्तयामास देवेशः कथं तां वै भजाम्यहम् । । ३७ अनयावहृतो योऽयं पावको देवपूजितः । वनमाविश्य तन्वङ्गीं भजेयं लोकपूजिताम् । । ३८ इति सञ्चिन्त्य देवेशः सहस्रांशुर्दिवस्पति । विवेश पावकं वीर तत्पुत्रश्चाभवत्तदा । । ३९ ततो विलासलावण्यरूपयौवनशालिनी । समिद्धं लङ्घयित्वाग्निं जगामायतलोचना । । 1.139.४० क्रुद्धः स्वरूपमास्थाय दृष्ट्वा कन्यां स पीडितः । करं करेण सङ्गृह्य ततस्तां हव्यवाहनः । । ४१ उवाच यदुशार्दूल नोदितो भास्करेण तु । वेदोक्तं विधिमुत्सृज्य यथाहं लंघितस्त्वया । ।४ २ तस्मान्मत्तः समुत्पन्नो न च पुत्रो भविष्यति । जरशब्द इति ख्यातो वंशकीर्तिविवर्धनः । । ४३ अग्निजात्या मगाः प्रोक्ताः सोमजात्या द्विजातयः । भोजकादित्यजात्या हि दिव्यास्ते परिकीर्तिताः । ।४४ तामेवमुक्त्वा भगवानादित्योऽन्तरतस्तदा । अथोत्पन्नां प्रजां ज्ञात्वा ध्यानयोगेन वै ऋषिः । । ४५ पतितः स्यान्महातेजा ऋग्जिह्वः सुमहामतिः । शापमुद्यम्य तेजस्वी ऋग्जिह्वो वाक्यमब्रवीत् । । ४६ आत्मापराधात्कामिन्या यथा गर्भो नलावृतः । सम्भूतस्ते महाभागे अपूज्योऽयं भविष्यति । । ४७ पुत्रशोकाभिसन्तप्ता बाला पर्याकुलेक्षणा । चिन्तयामास दुःखार्ता तमेकं ज्वलनाकृतिम् । । ४८ ततो देववरिष्ठस्य मम योनिसमुद्भवः । अयं दत्तो महाशापः पूज्यतां कर्तुमर्हसि । ।४ ९ भवेत्पूज्यो हि मे पुत्रो देवेश्वर तथा कुरु । एवं चिंतयमानस्तु भगवानर्यमा किल । । 1.139.५० आग्नेयं रूपमाश्रित्य चेदं वचनमब्रवीत् । स्निग्धो गम्भीरनिर्घोषः शान्तो ज्वरविवर्जितः । । ५१ ऋग्जिह्रः सुमहातेजा धर्मं चरति सुव्रत । तेनोत्सृष्टं महाशापं नान्यथा कर्तुमुत्सहे । । ५२ किं तु कार्यगरीयस्त्वादात्मनो योग्यमुत्तमम् । तव पुत्रं विधास्यामि चापूज्यं वेदपारगम् । । ५३ वंशश्च सुमहांस्तस्य निवसिष्यति भूतले । ममाङ्गानि महात्मानो वाशिष्ठा ब्रह्मवादिनः । । ५४ मद्गायना मद्यजना मद्भक्ता मत्परायणाः । मम शुश्रूषकाश्चैव मम च व्रतचारिणः । । ५५ त्वां च मां च यथान्यायं वेदं तत्त्वार्थदर्शिनः । पूजयिष्यन्ति निरताः सदा मद्भावभाविताः । । ५६ मत्कर्मणां मदङ्गानां मद्भावविनिवेशनात् । विरजा मत्प्रसादेन मामेवैष्यन्त्यसंशयम् । । ५७ जटाश्मश्रुधरा नित्यं सदा मयि परायणाः । पञ्चकालविधानज्ञा वीरकालस्य यज्विनः । । ५८ पूर्णेकदक्षिणे पाणौ वर्म वामेन धारयन् । पतिदानेन वदनं प्रच्छाद्य नियतः शुचिः । । ५९ प्राणं हि महतां कृत्वा ततो भुञ्जीत वाग्यतः । अयमाच्चाप्रसादाच्च व्याकुलेन्द्रियचेतसा । । 1.139.६० विधिहीनं मंत्रहीन ये वै यक्ष्यन्ति मामतः । तेऽपि स्वर्गाच्च्युताः क्लान्ता रमन्ते सूर्यसन्निधौ । । ६१ एवंविधास्तव सुता भविष्यन्ति महीतले । मगवंशे महात्मानो वेदवेदाङ्गपारगाः । । ६२ एवमाश्वास्य तां देवीं भास्करो वारितस्करः । अन्तदर्धे महातेजाः सा च हर्षमवाप ह । । ६३ एवमेते समुत्पन्ना भोजकाः कृष्णनन्दन । विष्णुभास्ते तथादित्या उत्पन्ना लोकपूजिताः । । ६४ तेषामेतत्पुरं देहि पर्याप्तास्ते प्रतिग्रहे । त्वदीयस्यास्य मे वीर तथा भास्करपूजने । । ६५ तस्य गौरमुखस्येदं वाक्यं श्रुत्वा स यादवः । साम्बो जाम्बवतीपुत्रः प्रणम्य शिरसोक्तवान् । । ६६ क्व वसन्ते महात्मान एते भास्करपुत्रकाः । भोजका द्विजशार्दूल येन तानानयाम्यहम् । । ६७ गौरमुख उवाच नाहं जाने महाबाहो वसन्ते यत्र वै मगाः । जानीते तान्रविर्वीर तस्मात्तं शरणं व्रज । । ६८ ब्राह्मणेनैवमुक्तस्तु प्रणम्य शिरसा रविम् । जगाद भास्करं साम्बः कस्ते पूजां करिष्यति । । ६ ९- विज्ञप्तस्त्वेव साम्बेन प्रतिमा तमुवाच ह । न योग्याः परिचर्यायां जम्बूद्वीपे ममानघ । । 1.139.७० मम पूजाकरं गत्वा शाकद्वीपादिहानय । लवणोदात्परे पारे क्षीरोदेन समावृतः । । ७१ जम्बूद्वीपात्परो यस्माच्छाकद्वीप इति स्मृतः । तत्र पुण्या जनपदाश्चतुर्वर्णसमन्विताः । । ७२ मगाश्च मगगाश्चैव गानगा१ मन्दगास्तथा । मगा ब्राह्मणभूयिष्ठा मगगाः क्षत्रियाः स्मृताः । । ७३ वैश्यास्तु गानगा ज्ञेयाः शूद्रास्तेषां तु मन्दगाः । न तेषां सङ्करः कश्चिद्धर्माश्रयकृते क्वचित् । । ७४ धर्मस्यास्य विचारो वा ह्येकतः सुखिनः प्रजाः । तेजसस्ते मदीयस्य निर्मिता विश्वकर्मणा । । । । ७५ तेभ्यो वेदास्तु चत्वारः सरहस्या मयोदिताः । वेदोक्तैर्विविधैः स्तोत्रैः परैर्गुह्यैर्मया कृतैः । । ७६ ते च ध्यायन्ति मामेव यजन्ते मां च नित्यशः । मन्मानसा मद्यजना मद्भक्ता मत्परायणाः । । ७७ मम शुश्रूषकाश्चैव मम च व्रतचारिणः । अव्यङ्गधारिणश्चैव विधिदृष्टेन कर्मणा । । ७८ कुर्वन्ति ते सदा भद्रां मम पूजां ममानुगाः । तथा देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । । विहरन्ते रमन्ते च दृश्यमानाश्च तैः सह । । ७९ जम्बूद्वीपे त्वहं विष्णुर्वेदवेदाङ्गपूजितः । शक्रोऽहं शाल्मलीद्वीपे क्रौञ्चद्वीपे ह्यहं भगः
1.139.८० प्लक्षद्वीपे त्वहं भानुः शाकद्वीपे दिवाकरः । पुष्करे च स्मृतो ब्रह्मा ततश्चाहं महेश्वरः । । ८१ तान्मगान्मम पूजार्थं शाकद्वीपादिहानय । आरुह्य गरुडं साम्ब शीघ्रं गत्वाविचारयन् । । ८२ तथेति गृह्य तामाज्ञां रवेर्जाम्बवतीसुतः । पुनर्द्वारवतीं गत्वा कान्त्यातीव समन्वितः । । ८३ आख्यातवान्पितुः सर्वं स्वकीयं देवदर्शनम् । तस्माच्च गरुडं लब्ध्वा ययौ साम्बोऽधिरुह्य तम् । । ८४ शाकद्वीपमनुप्राप्य सम्प्रहृष्टतनूरुहः । तत्रापश्यद्यथोद्दिष्टान्साम्बस्तेजस्विनो मगान् । । ८५ विवस्वन्तं पूजयन्तो धूपदीपादिभिः शुभैः । सोऽभिवाद्य च तान्पूर्वं कृत्वाप्येषां प्रदक्षिणाम् । । ८६ पृष्ट्वा चानामयं तेषां प्रशंसासामपूर्वकम् । यूयं हि पुण्यकर्माणो द्रष्टव्यार्थे शुभार्थिनः । । रता येऽर्कस्य पूजायां येषां चैव वरप्रदः । । ८७ तनयं वित्त मां विष्णोः साम्बं नाम्ना च विश्रुतम् । चन्द्रभागातटे चापि मया सूर्यो निवेशितः । । ८८ तेनाहं प्रेषितश्चात्र उत्तिष्ठध्वं व्रजामहे । ते तमूचुस्ततः साम्बमेवमेतन्न संशयः । । ८९ अस्माकमपि देवेन व्याख्यातां पूर्वमेव हि । अष्टादश कुलानीह मगानां वेदवादिनाम् । । यास्यन्ति ये त्वया सार्धं यथा देवेन भाषितम् । । 1.139.९० ततस्तानि दशाष्टौ च कुलानीह समन्ततः । आरोप्य गरुडे साम्बस्त्वरितः पुनरभ्यगात् । । ९१ सोऽल्पेनैव तु कालेन प्राप्तो मित्रवनं ततः । कृत्वाज्ञां तु रवेः साम्बः कृत्स्नं त्वेवं न्यवेदयत् । । ९२ रविः शोभनमित्युक्त्वा प्रसन्नः साम्बमब्रवीत् । मम पूजाकरा ह्येते प्रजानां शान्तिकारकाः । । ९३ मम पूजां करिष्यन्ति विधानोक्तां यदूत्तम । तत्कृते न पुनश्चिन्ता तव काचिद्भविष्यति । । ९४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकानयनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः
भोजकोत्पत्तिवर्णनम् सुमन्तुरुवाच एवं स आनयित्वा तु मगान्साम्बो महीपते । स महात्मा पुरा साम्बश्चन्द्रभागासरित्तटे । । १ पुरं निवेशयामास स्थापयित्वा दिवाकरम् । कृत्वा धनसमृद्धं तु भोजकानां समर्पयत् । । २ तत्पुरं सवितुः पुण्यं त्रिषु लोकेषु विश्रुतम् । सांबेन कारितं यस्मात्तस्मात्साम्बपुरं स्मृतम् । । ३ तस्मिन्प्रतिष्ठितो देवः पुरमध्ये दिवाकरः । सत्कृत्य स्थापिताः सर्वे आत्मनामाङ्किते पुरे । । ४ मगानां तु सदाचारो दृष्टाचारकुलोचितः । देवशुश्रूषणं गीतं वेदप्रोक्तेन कर्मणा । । ५ कृतकृत्यस्तदा साम्बो वरं लब्ध्वा पुनर्युवा । आदिदेवं सुरज्येष्ठमादित्यं प्रणिपत्य सः । । ६ अनन्तरं मगान्सर्वान्प्रणिपत्याभिवाद्य च । प्रस्थितो निर्मलः साम्बः पुरीं द्वारवतीं तदा । । ७ मगानां कारणार्थेन प्रार्थिता भोजवंशजाः । वसुदेवस्य पौत्रेण गोत्रजेन महात्मना । । ८ कन्यादानं कृतं तेषां मगानां भोजकोत्तमैः । सर्वास्ताः सहिताः कन्याः प्रवालमणिभूषिताः । । ९ अर्चयित्वा तु ताः सर्वाः प्रेषिताः सवितुर्गृहम् । पुनर्गत्वा तु सांबेन पृष्टो देवो दिवाकरः । । 1.140.१० मगानां ज्ञानमाख्याहि१ वेदानव्यङ्गमेव च । साम्बस्य वचनं श्रुत्वा भास्करो वाक्यमब्रवीत् । । ११ पृच्छ त्वं नारदं गत्वा स ते सर्वं वदिष्यति । एवमुक्तोऽथ वै साम्बो गतवान्नारदं प्रति । । १२ गत्वा कृत्स्नमिदं सर्वं तस्मै तेन निवेदितम् । स चाप्याह ततः साम्बं न जाने ज्ञानमुत्तमम् । । १३ भोजकानां यदुश्रेष्ठ ज्ञानं व्यासो महामुनिः । तं गत्वा परिपृच्छ त्वं प्रणम्य शिरसा मुनिम् । । १४ कृष्णानुरोधात्ते सर्वं स वक्ष्यति न संशयः । नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः । । १५ व्यासाश्रमं स गत्वा तु प्रणम्य शिरसा मुनिम् । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । १६ शाकद्वीपं मया गत्वा आनीता मगपुङ्गवाः । बाला यौवनसम्पन्नाः सन्निविष्टा मगोत्तमाः । । १७ सत्कृत्य पूजयित्वा तु पुरं तेषां समर्पितम् । सम्प्राप्य तु पुरं ते वै ज्येष्ठमध्यकनीयसः । । १८ भोजवंशसमुत्पन्नाः कन्यकाः समलङ्कृताः । वरयित्वा कृतं तेषां विप्रप्रणयनं शुभम् । । १९ अहो सभाग्याः श्लाघ्याश्च कृतपुण्याश्च ते सदा । पूजायां ये रता भानोर्येषां चैव वरप्रदः । । 1.140.२० पर्याप्तं सर्वमेतेषामिह चामुष्मिकं फलम् । अनित्ये सति मानुष्ये देवपूजारता हि ये । । २१ किन्तु चिन्तयतः सूर्यं चिन्तयित्वा तु भोजकान् । ज्ञानं प्रति तथा चैषां हदये संशयो मम । । २२ कथं पूजाकरा ह्येते के मगाः के च भोजकाः । ज्ञानं किं परमं तेषां ज्ञेयस्तेषां क एव तु । । २३ दिव्येति ते कथं प्रोक्ताः किमर्थं कूर्चधारणम् । सौरव्रतं किमर्थं तु वाचकास्ते कथं स्मृताः । । २४ किमर्थं तेजसा वेदान्गायन्तश्चैव ते कथम् । अथाहिकञ्चुकस्याङ्गं किं प्रमाणं च कस्य वै । । २५ कस्य वै का समाख्याता यदुत्पन्नं कथं स्मृतम् । कथं देवांश्च गायन्ति यज्ञं कुर्वन्ति ते कथम् । । २६ अग्निहोत्रं च किं तेषां पञ्च दोलाश्च काः स्मृताः । एतत्सर्वं समाख्याहि भोजकानां विचेष्टितम् । । २७ साम्बस्य वचनं श्रुत्वा कृष्णद्वैपायनो मुनिः । कालीसुतो महातेजा उवाच परमं वचः । । २८ साधुसाधु यदुश्रेष्ठ साधु पृष्टोऽस्मि सुव्रत । दुर्ज्ञेयचेष्टितं किञ्चिद्भोजकानां न संशयः । । २९ भास्करस्य प्रसादेन ममापि स्मृतिमागतम् । यथाख्यातं वशिष्ठेन तथा ते वच्मि कृत्स्नशः । । 1.140.३० मगानां चरितं श्रेष्ठं शृणु त्वं कृष्णनन्दन । ज्ञानवेदिन एवैते कर्मयोगं समाश्रिताः । । ३१ श्रूयन्ते ऋषयः सर्वे मौनेन नियमस्थिताः । भुञ्जते चापि मौनेन सर्वे वै परमर्षयः । । ३२ मुनिचर्याकृतस्तेऽपि शाकद्वीपनिवासिनः । तस्मान्मौनेन भोक्तव्यमगुणत्वमनिच्छता । । ३३ वचः सूर्यसमाख्यातं कारणं च वरं तथा । अर्चायां ते च ते नित्यमर्चयन्तश्च ते स्मृताः । । ३४ भोजकन्यासुजातत्वाद्भोजकास्तेन ते स्मृताः । ब्राह्मणानां यथा प्रोक्तो वेदाश्चत्वार एव तु । । ३५ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्त्वथर्वणः । ब्रह्मणोक्तास्तथा वेदा मगानामपि सुव्रत । । ३६ त एव विपरीतास्तु तेषां वेदाः प्रकीर्तिताः । वेदो विश्वमदश्चैव विद्वद्वह्निरसस्तथा । । ३७ वेदा ह्येते मगानां तु पुरोवाच प्रजापतिः । मगा वेदमधीयन्ते वेदाङ्गास्तेन ते स्मृताः । । ३८ शेषो न हि महाभागः सर्वसत्त्वसुखावहः । ससूर्यरथमासाद्य रथिभिः सह वर्षति । । ३९ यस्तस्य तु पुनर्मोकं स रवेर्हि महानकः । वन्दितव्यो मगानां तु अस्त्रमन्त्रेण नित्यशः । ।1.140.४ ० यथा स्रजो द्विजानां तु पूजाकाले प्रमीयते । सर्वसंस्कारयज्ञेषु यथा दर्भा द्विजातिषु । ।४ १ पवित्राः कीर्तितास्तेषां तथा धर्मो मगस्य तु । एभिर्जयन्ति भूयिष्ठं तस्मिन्द्वीपे मगाधिपाः । ।४२ विद्यावन्तः कुलश्रेष्ठाः शौचाचारसमन्विताः । यज्ञावसक्ता१ भक्ताश्च जपन्तो मन्त्रमादितः । ।४ ३ प्रियास्तु यदुशार्दूल भोजका यदुनन्दन । अस्त्रमिव वै मन्त्रो वेदस्य परिपठ्यते । ।४४ सर्वेषां ब्राह्मणानां तु सावित्री परिकल्प्यते । अस्माकं तु यदुश्रेष्ठ महाव्याहृतिपूर्तिका । ।४५ अमोहकेनाथ विमानभुञ्जी मौनेन चैवापि यथा हि युक्तम् । न चापि किञ्चित्स्मृतिकं स्पृशेच्च तच्चापि नात्रैव च संस्पृशेद्धि । । ४७ श्वसन्त्यनिच्छंस्तु परिक्षिपेत्तु स्वाभीष्टसूर्यं तु नमेत्सदैव । यथा यज्ञं हि मन्त्रेण वेदप्रोक्तेन कर्मणा । ।४७ तत्त्वमन्यन्मगानान्तु विधिमन्त्रपुरस्कृतम् । हविः सम्पद्यते यस्मात्तेन ते यज्विनः स्मृताः । ।४८ यथाग्निहोत्रं प्रथितं द्विजानां तथाध्वहोत्रं विहितं मगानाम् । अच्छं च नामेति तदध्वरस्य मुनेर्वचो नात्र विचारणास्ति । ।४९ पञ्चधूपाः प्रदातव्याः सिद्धिरस्येह सर्वदा । दण्डनायकवेले द्वे त्रिसन्ध्यं भास्करस्य तु । । 1.140.५० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकोत्पत्तिवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः
भोजकजातिवर्णनम् साम्ब उवाच भोजकानां यत्त्वयोक्तमव्यङ्गो देहशोधकः । व्रतबन्धस्त्वसौ प्रोक्तस्तेषां जातिश्च का स्मृता । । १ व्यास उवाच ते पृष्टा भवता सर्वे भोजकानां कुमारकाः । किमाख्यातं ततस्तैस्तु तदेवाचक्ष्व कृत्स्नशः । । २ साम्ब उवाच सन्निवेषा मया प्रोक्ता भोजकानां समन्ततः । ममैव ब्रूत तत्त्वं तद्वर्णः कोऽत्र कथं स्थितः । । ३ ततस्तु भगवान्प्राह वाक्यं वाक्यविशारदः । ये त्वयोक्ता श्रुताः साम्ब भोजकानां कुमारकाः । । ४ ममैवैते मगा ज्ञेया अष्टौ शूद्रा मदङ्गजाः । एतद्बुद्ध्वा तु वचनं प्रणम्य शिरसा रविम् । । ५ दत्ता भोजकुलोत्पन्ना दशभ्यो दशकन्यकाः । ततस्तु मन्दकेभ्योऽपि दत्ताश्चाष्टौ हि कन्यकाः । । ६ ततो निवेशितं तेषां मया साम्ब पुरं स्मर । दासकन्यास्तु याश्चाष्टौ भोजकन्याश्च या दश । । ७ एतास्तेषां कुमाराणां ज्ञेयास्ता दश चाष्ट च । तत्र ते भोजकन्यासु द्विजैरुत्पादिताः सुताः । । ८ भोजकास्तान्गणान्प्राहुर्ब्राह्मणान्दिव्यसंज्ञितान् । दासकन्यासु ये जाता मन्दगैरन्त्यसंज्ञितैः । । ९ मदङ्गा नाम ते ज्ञेयाः सवितुः परिचारकाः । ते च विप्रपुरे तस्मिन्पुत्रदारशुभैर्वृताः । । 1.141.१० स्वधर्मैर्यष्टुमारब्धैः शाकद्वीपेऽर्चितो रविः । नानाविधैर्वैदिकैस्तु मन्त्रैर्मुनिवरोत्तमाः । । ११ अव्यङ्गधारिणो मर्त्याः पूजयन्ते दिवस्पतिम् । दृष्ट्वा व्यङ्गं तु वै तेषां कौतूहलसमन्वितः । । १२ साम्बः प्राह नमस्कृत्य भूयः सत्यवतीसुतम् । कथं वरोऽयमव्यङ्गः कथितो मुनिसत्तम । । १३ कुत एष समुत्पन्नः कस्माच्च स शुचिः स्मृतः । बन्धनीयः कदा चायं किमर्थं चैव धार्यते । । किं प्रमाणं च भगवन्व्यङ्गश्चायं किमुच्यते । । १४ सुमन्तुरुवाच श्रुत्वैवं वचनं व्यासो जाम्बवत्याः सुतस्य च । । १५ उवाच कुरुशार्दूल साम्बं कालीसुतः स तु । । व्यास उवाच एतच्च मे यथोक्तस्त्वं जातिरेषां न संशयः । । १६ अव्यङ्गस्यापि ते वच्मि लक्षणं गदतः शृणु । । १७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकजातिवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः
व्यड्गोत्पत्तिनामवर्णनम् व्यास उवाच देवता ऋषयो नागा गन्धर्वाप्सरसां गणाः । यक्षरक्षांसि वै भानौ निवसन्ति ऋतुक्रमात् । । १ तत्र तु वासुकिर्ह्यब्दमुद्यत्सूर्यरथं जवात् । स्वस्थानमाजगामाशु नमस्कृत्य दिवाकरम् । । २ अव्यङ्गमेव सूर्याय प्रीत्यर्थं वै समर्पयत् । गाङ्गेयभूषितं दिव्यं नातिरक्तसितं शुभम् । । ३ बबन्ध तं च तत्प्रीत्यै मध्यभागे तमात्मनः । नागराजाङ्गसम्भूतो धृतो यस्माच्च भानुना । । ४ तत्तस्माद्धार्यते सूर्यप्रीत्यै तद्भक्तिमिच्छता । विधानेन च तत्त्वेन शुचिर्भवति भोजकः । । ५ नित्यं च धारणात्तस्य भवेत्प्रीतो दिवाकरः । न धारयन्ति ये त्वेवं भोजकाः पूजकाः रवेः । । ६ सौरहीना न ते याज्या उच्छिष्टा नात्र संशयः । स्मृत्याचारे ते हि भग्ना रविं नार्हन्ति पूजितुम् । । ७ पूजयन्तो रविं ते हि नरकं यान्ति रौरवम् । न वै हसेन्न उत्तिष्ठेद्यावदर्चा लभन्ति ते । । ८ इत्थं ज्ञात्वा न सन्देहो ह्यव्यङ्गेन विना रविः । नागराजस्य संस्पृष्टो ह्यारसुस्तेन संस्मृतः । । ९ एकवर्णः स कर्तव्यः कार्यसिद्धिकरस्तथा । प्रमाणेनाङ्गुलानां तु शताद्धि शतमुत्तरम् । । 1.142.१० उत्कृष्टोऽयं प्रमाणेन मध्यमो विंशदुत्तरः । शतमष्टोत्तरं ह्रस्वो न तु ह्रस्वतरस्ततः । । ११ तदाकृतिः कृतश्चैष निर्मितो विश्वकर्मणा । मध्यमे भोजकानां तु परः शत उदाहृतः । । १२ संस्कृतोऽपि विना तेन शुचिर्नैव भवत्युत । तेनास्य धारणाद्वीर शुचिरेव तदा भवेत् । । १३ हविर्होमादिकाः सर्वा भवन्त्यस्य क्रियाः शुभाः । अव्यङ्गः पतिताङ्गश्च अव्यङ्गोऽथ महीपते । । १४ एष सारश्च सा रम्या वै ज्ञेया जयनामभिः । अहेरङ्गात्समुत्पन्नो ह्यव्यङ्गस्तु ततः स्मृतः । । १५ यस्मादस्मादहेरङ्गमव्यङ्गस्तेन चोच्यते । अर्हेति पूजायां धातोः प्रत्ययो ण्वुल्ततः स्मृतः । । १६ पूजितश्च पवित्रश्च यस्मात्तेनार्हकः स्मृतः । सारसार्तः स्मृतं रूपं प्रधानं सार उच्यते । । १७ षण भक्तौ स्मृतौ धातुस्तस्मात्सारसनः स्मृतः । यस्मादर्चितमेवं तु सुवर्णमणिमौक्तिकैः । । १८ स ज्ञेयः पतिताङ्गस्तु नित्ययज्ञैरुपाहृतः । इत्येते कथिता वीर अव्यङ्गा व्यङ्गभोजकाः । । १९ ऋद्धिवृद्धिकरो नित्यं कायशुद्धिकरस्तथा । सर्ववेदमयश्चायं सर्वदेवमयस्तथा । । 1.142.२० सर्वभूतमयः साम्ब सर्वलोकमयस्तथा । मध्येऽस्य संस्थितो ब्रह्मा मूले विष्णुर्महामते । । २१ शशाङ्कमौलिरन्त्ये तु संस्थितो यदुनंदन । ऋग्वेदोऽस्य स्थितो मूले यजुर्वेदोऽस्य मध्यगः । । २२ अग्रे स्थितः सामवेदो ग्रन्थिराङ्गिरसोनघ । पृथ्वी मूलमाश्रित्य स्थिता च यदुसत्तम । । २३ मूलाशनास्त्वपः साम्ब मध्ये देवो विभावसुः । तासामनन्तरं वात आकाशोऽग्रे समास्थितः । । २४ मूले स्थितस्तु भूर्लोको भुवर्लोकस्तु मध्यगः । स्वर्लोकश्चाग्रमाश्रित्य स्थितो व्यङ्गस्य यावता । । २५ एवं देवमयः सांब एवं लोकमयस्तथा । धारणीयो महान्भक्त्या पूजकः प्रीतये रवेः । । २६ पूजयन्ति रविं ये वै विनानेन यदूत्तम । पूजाफलं न तेषां स्यान्नरकं च व्रजन्ति हि । । २७ तथा तेषां भवेन्नित्यमव्यङ्गो भोजकः सदा । अन्यकाले यदुश्रेष्ठ इत्येतत्कथितं तव । । २८ बन्धने कारणं वीर भूषणानि च सुव्रत । । २९ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने व्यङ्गोत्पत्तिर्नाम द्विचत्वारिंशदधिकशततमोऽध्यायः
धूपादिविविधविधिवर्णनम् सुमन्तुरुवाच श्रुत्वैवमेव साम्बेन व्यासात्सत्यवतीसुतात् । अव्यङ्गस्य च उत्पत्तिं पुनरागान्महामतिः । । १ अथागत्य महातेजाः साम्बो गत्वाश्रमं पुनः । । २ नारदस्य महाबाहोर्नारदं वाक्यमब्रवीत् । कथमुत्क्षिप्य वै धूपं भोजकैः सवितुर्मुने । । ३ स्नानमाचमनं चैवमर्घ्यदानं महात्मने । साम्बस्य वचनं श्रुत्वा नारदो मुनिसत्तमः । । ४ उवाच कुरुशार्दूल साम्बं जाम्बवतीसुतम् । हन्त ते कथयिष्यामि रवेर्धूपविधिक्रमम् । । ५ स्नानमाचमनं चैव स्वर्णदानं तथैव च । आचान्तस्त्रिस्ततः स्नात्वा वाससी निर्मले शुभे । । ६ अनार्द्रे संवसीतैव पवित्रे परिधाय च । उदङ्मुखः प्राङ्मुखो वाप्याचामेच्च प्रयत्नतः । । ७ जले जलस्थो नाचामेज्जलादुत्तीर्य यत्नतः । अप्सु सूर्यस्तथाग्निश्च माता देवी सरस्वती । । ८ तस्मादुत्तीर्य चाचामेन्नाचामेत्तु जलाशये । उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः । । ९ पादौ प्रक्षाल्य हस्तौ च अन्तर्जानुस्तथाचमेत् । प्रसन्नास्त्रिः पिबेत्त्वापः प्रयतः सुसमाहितः । । 1.143.१० सम्मार्जनं तु द्विः कुर्यात्त्रिभिरभ्युक्षणं पुनः । मूर्धानं खानि चात्मानमुपस्पृश्यानु पूर्वशः । । ११ आचान्तोऽर्कं नमस्कृत्य शौचेषु शुचितामियात् । क्रियां यः कुरुते मोहादनाचम्येह नास्तिकः । । १२ भवन्तीह क्रियाः सर्वा वृथा तस्य न संशयः । शुचिकामा हि वै देवा वेदैरेवमुदाहृताः । । १३ इनोपासाकृतश्चैव सर्वे देवाः प्रयत्नतः । शौचमेव प्रशंसन्ति शौचाङ्गैर्हि विधीयते । । १४ आचान्तो मौनमास्थाय देवागारं ततो व्रजेत् । श्वासरोधनिमित्तं तु प्राणमाच्छाद्य वाससा । । १५ शिरः प्रावृत्य यत्नेन केशोदकनिवृत्तये । ततः पूजां रवेः कुर्यात्पुष्पैर्नानाविधैः शुभैः । । १६ गायत्रीं सशिरस्कां च यजमानः प्रयत्नतः । धूपं ततोऽग्नये दद्यात्प्रथमं गुग्गुलाहुतम् । । १७ पुष्पाञ्जलिं ततो गृह्य तच्छिखायां प्रयत्नतः । रवेर्मूर्धनि तं दद्याद्देवमन्त्रमुदाहरन् । । १८ ॐ व्रतेन यद्व्रतिनो वर्जयन्ति देवा मनुष्याः पितरश्च सर्वे । तस्यादित्यं प्रसरं च मनामहे यस्तेजसा प्रथमं नाविभाति । । १९ धूपवेलाः स्मृताः पञ्च धूपेष्वेव तु पञ्चसु । हवनाद्याः क्रियाः पञ्च रक्षिष्येऽहं तथा पुनः । 1.143.२० दण्डनायकवेला तु प्रत्यूषे ऋक्षदर्शनात् । नाज्ञावेला प्रदोषस्तु तत्त्वकार्यं विजानता । । २१ त्रिकालं तु रवेः पूजा कर्तव्या सूर्यदर्शनात् । अर्धोदितस्तु पूर्वाह्णे ततोऽर्द्धस्तु रविर्विभुः । । २२ हेलयेति च पूर्वाह्णे मध्याह्ने ज्वलनाय च । तथैव मण्डले देयं नीचाह्ने ज्वलनाय च । । २३ चन्दनोदकमिश्राणि गन्धोदकयुतानि च । पद्मानि करवीराणि तथा रक्तोत्पलानि च । । २४ कुसुमोदकमिश्राणि कुरुंटकुसुमं तथा । गन्धादीनि च दिव्यानि कृत्वा वै ताम्रभाजने ।।२५ धूपं दत्त्वाग्नये वीर प्रयत्नाद्गुग्गुलाहुतिम् । अर्घ्यपात्रं तदा गृह्य कुर्यादावाहनं रवेः ।।२६ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्प्य मां देव गृहाणार्घ्यं दिवाकर ।।२७ अनेनावाहनं कृत्वा जानुभ्यामवनीं गतः । रवेर्निवेदयेदर्घ्यमादित्यहृदये गतः ।।२८ ॐ नमो भगवते१ आदित्याय विश्वाय खेशाय ब्रह्मणेलोककर्तृणे। ईशानाय पुराणाय सहस्राक्षाय ते नमः ।।२९ सोमाय ऋग्यजुरथर्वाय। ॐ भूर्भुवःस्वःॐमहः ॐजनः ॐतपः ॐ सत्यं ब्रह्मणे मुण्डे मध्ये पुरतः 1.143.३ ० नारद उवाच सावित्र्याश्च परे तन्त्रे त्रैलोक्यत्राणकारिणे । परितः परिगृह्याथ धूपभाजनमुत्क्षिपेत् ।।३ १ निवेदयेत्ततो धूपं वाचमेतामुदीरयेत् । त्वमेक एव रुद्राणां वसूनां च पुरातनः ।।३२ देवानां गीर्भिरभितः संस्तुतः शाश्वतो दिवि । पूर्वाह्णे च त्वया तेन मध्याह्ने चापरेण तु ।।३ ३ ॐ नमो भगवते ज्ञानात्मने त्वां च । विष्णोस्तत्परमं पदं सदा पश्यंति सूरयः ।।३४ दिवाकरस्तु सायाह्ने मन्त्रेणार्घ्यं निवेदयेत् । ॐ नमो वरुणाय शम्भवे ।।३५ ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्।।३६ अनेन विधिना दत्त्वा धूपं सूर्याय भोजकः । उत्क्षिपेच्चैव धूपेन विशेद्गर्भगृहं ततः । । ३७ ततः प्रविश्य धूपं तु प्रतिमार्थं निवेदयेत् । मन्त्रेण मिहिरायेति निक्षुभायेति नित्यशः । । ३८ ततो राज्ञै नमश्चेति निक्षुभायै ततो नमः । दण्डनायकसंज्ञाय पिङ्गलाय च वै नमः । । ३९ तथा राज्ञाय स्रौषाय तथेशाय गरुत्मते । ततः प्रदक्षिणं कुर्वन्दिग्देवेभ्यो निवेदयेत् । । 1.143.४० दिण्डिने तु ततो दद्याद्धेमन्ताय यदूत्तम । महेश्वराय दद्यात्तु तथा व्योमाय यादव । ।४ १ (विश्वेभ्यो देवेभ्यो नमः । रुद्रेभ्यो नमः) । ॐ ब्रह्मणे मुण्डपतये आदित्याय पुरुषेश्वराय सूर्याय नमोनमः । । ४२ ॐ अनेककान्तये नत्वा शेषाय वासुकितक्षककर्कोटकाय पद्मशङ्खकुलिकेभ्यो नागराजेभ्यो नमः । ।४ ३ तलसुतलपातालातलवितलरसातलादिवासिभ्यो दैत्यादानवपिशाचेभ्यो नमः । ततः प्रदक्षिणं कुर्यान्मातृकाभ्यो नमोनमः ( ॐ ग्रहेभ्यो नमः । । ४४ ॐ दण्डनायकाय नमः । ॐ मार्तंडाय नमः । ॐ विनायकाय नमः । । ४५) एवमुद्दिश्य नामानि धूपं दत्त्वा वरानन । उत्क्षिप्तो यत्र वै धूपो मुक्त्वा तत्रैव तं पुनः । । ४६ सूर्यगुप्तैरभिष्टूय एवं विज्ञाय ते ततः । अर्चितस्त्वं यथा शक्त्या मया भक्त्या विभावसो । । ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं वदस्व मे । । ४७ एवं त्रिषवणं स्नात्वा योऽर्चयेत्प्रणतो रविम् । विधिना तु यथोक्तेन सोऽश्वमेधफलं लभेत् । । ४८ यश्चैवं कुरुते नित्यं यथोक्तं धूपविस्तरम् । स पुत्रवानरोगी च मृतः संलीयते रवौ । । ४९ विधिना तु यथोक्तेन क्रियमाणानि यत्नतः । सर्वकार्याणि सिद्ध्यन्ति सफलानि भवन्ति च । । 1.143.५० पुष्पं श्रेष्ठं यदा न स्यात्पत्राणि समुपाहरेत् । पत्रं न स्यात्ततो धूपं धूपो न स्यात्ततो जलम् । । ५१ सर्वं न स्याद्यदा चैव प्रणिपातेन पूजयेत् । अशक्तः प्रणिपातस्य मनसा पूजयेद्रविम् । । ५२ असम्भवे तु द्रव्याणां विधिरेष प्रकीर्तितः । द्रव्याणां सम्भवे चैव सर्वमेवोपहारयेत् । । ५३ मन्त्रैः कर्मयुतो यस्तु मित्रे धूपं निवेदयेत् । उच्चारणाच्च वै तेषां धूपप्रीतो भवेद्रविः । । ५४ शिरो नासामुखं चैव भृशमावृत्य यत्नतः । पूजयेद्भास्करं वीर शिथिलं१ तु न कारयेत् । । ५५ नलिनेन तु राजेन्द्र नरो याति दिवाकरम् । तस्माद्युक्तं सदा कार्यं पूज्यते च दिवाकरः । । ५६ तेऽश्वमेधफलं प्राप्य सूर्यलोकं व्रजन्ति हि । धूपेन पूज्यमानं तु नराः पश्यन्ति यादव । । ५७ यान्ति ते परमं स्थानं यन्न पश्यन्ति सूरयः । क्रियमाणं तथार्कं च भक्त्या पश्यन्ति ये नराः । । सर्वान्कामानिह प्राप्य ते यान्ति परमं पदम् । । ५८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने धूपादिविविधवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः
भोजकस्योत्पत्तिवर्णनम् सुमन्तुरुवाच अथाजगाम भगवान्व्यासो द्वारवतीं पुरीम् । द्रष्टुं नारायणं देवं शङ्खचक्रगदाधरम् । । १ तमागतमृषिं दृष्ट्वा वासुदेवो विशांपते । अभ्युत्थाय महातेजाः पूजयामास भारत । । २ स्वयमेवासनं दत्त्वा पाद्यमर्घ्यं तथैव च । पप्रच्छ प्रयतो भूत्वा व्यासं सत्यवतीसुतम् । । ३ य एते भोजका विप्रा आनीता मत्सुतेन वै । शाकद्वीपमितो गत्वा ज्ञानिनो मोक्षगामिनः । । ४ तान्दृष्ट्वा रूपतो विप्र प्रवेशात्कर्मतस्तथा। कौतूहलं समुत्पन्नं हर्षश्च परमो मम । । ५ कथमेते क्षणमपि तिष्ठन्ते पृथिवीतले । येषां रविः सदा पूज्यस्तेषां मुक्तिः सदा वसेत् । । ६ नागत्वा भोजकत्वं हि मोक्षमाप्नोति कश्चन । इदं मे मनसो ब्रह्मन्सदा सम्प्रतिभाति वै । । ७ व्यास उवाच एवमेव यथात्थ त्वं शङ्खचक्रगदाधर । धन्या एते महात्मानो भोजका नात्र संशयः । । ८ ये पूजयन्ति सततं भानुमन्तं दिवाकरम् । ज्ञानिनः कर्मनिष्ठाश्च सदा मोक्षगतिं गताः । । ९ यजन्ते सततं भानुं बलिपुष्पफलैस्तथा । अन्नेनौषधिभिश्चैव आज्यहोमैश्च कृत्स्नशः । । 1.144.१० होमं च शाश्वतं कृत्वा परं होमं ततः श्रिताः । परहोमस्य करणात्पूतात्मानो ह्यकल्मषाः । । ११ विशन्ति परमां दिव्यां भास्करीं तैजसीं कलाम् । कर्मणः साधने चैका तत्र चाग्नौ प्रतिष्ठिता । । १२ वायुमार्गस्थिता व्योम्नि द्वितीयान्तः प्रकाशिका । ततः परं तृतीया तु तत्स्मृतं सूर्यमण्डले । । १३ मण्डलं तच्च सवितुर्दिव्यं ह्यजरमव्ययम् । तस्याऽसौ पुरुषो मध्ये योऽसौ सदसदात्मकः । । १४ क्षराक्षरस्तु विज्ञेयो महासूर्यस्तथैव च । निष्कलः सकलश्चापि द्वौ च तस्य प्रकल्पितौ । । १५ अक्षरः सकलश्चैव सर्वभूतव्यवस्थितः । सतत्त्वः सकलः प्रोक्तस्तत्त्वहीनस्तु निष्कलः । । १६ तृणगुल्मलतावृक्षवृकसिंहद्विजाधिपान् । सुरसिद्धमनुष्यांश्च स्थलजाञ्जलजान्हरेत् । । १७ व्यवस्थितः स सर्वत्र सर्वेषामन्तरात्मनि । यदा कल्पात्मकश्चैव द्वितीयां तनुमाश्रितः । । १८ निष्कलस्तु सदा ज्ञेयः संस्थितस्तैजसीं कलाम् । हिमं घर्मं च वर्षं च त्रैलोक्ये कुरुते सदा । । १९ द्वितीया या तनुस्तस्य अक्षरं तत्परं पदम् । देवयानं तु पन्थानं कर्मयोगेन संस्थिता । 1.144.२० आदित्यसिद्धान्तरिताः साङ्ख्ययोगविदश्च ये । तेऽभिगच्छन्ति तत्स्थानं स मोक्षः परिकीर्तितः । । २१ निर्द्वन्द्वो निर्गमश्चैव तत्र गत्वा न शोचति । वेदेषु ब्रह्म वदन्ति ध्यायन्ते तत्त्ववेदिनः । । २२ अकारं तत्त्वतश्चापि ध्यायन्ते पुरुषोत्तम । त्र्यक्षरं च तमोंकारं सार्धमात्रात्रये स्थितम् । । २३ वदन्ति चार्धमात्रस्थं मकारं व्यञ्जनात्मकम्। ध्यायन्ति ये मकारीयं ज्ञानं ते हि सदात्मकम् । । २४ मकारो भगवान्देवो भास्करः परिकीर्तितः । मकारध्यानयोगाच्च मगा ह्येते प्रकीर्तिताः । । २५ धूपमाल्यैर्युतश्चापि उपहारैस्तथैव च । भोजयन्ति सहस्रांशुं तेन ते भोजकाः स्मृताः । । २६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकस्योत्पत्तिवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः
भोजकज्ञानवर्णनम् वासुदेव उवाच ज्ञानोपलब्धिं विप्रेन्द्र भोजकानां महामुने । ब्रूहि तत्त्वं द्विजश्रेष्ठ कौतुकं परमं मम । । १ व्यास उवाच इमां ज्ञानोपलब्धिं तु निबोध गदतो मम । अस्थिस्थूलं स्नायुयुतं मांसशोणितलेपनम् । । चर्मावनद्धं दुर्गंधिपूर्णं मूत्रपुरीषयोः । । २ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् । । ३ कपालं वृक्षमूलानि कुचैलमसहायता । समता सर्वभूतेषु एवं मुक्तस्य लक्षणम् । । ४ तिले तैलं गवि क्षीरं काष्ठे पावकसन्ततिः । उपायं चिन्तयेदस्य धिया धीरः समाहितः । । ५ प्रमाथि च प्रयत्नेन मनः संयम्य चञ्चलम् । बुद्धीन्द्रियाणि संयम्य शकुनानिव पञ्जरे । । ६ इन्द्रियैर्नियतैर्देही धाराभिरिव तृप्यते । सततममृतस्यैव जनार्दन महामते । । ७ प्राणायामैर्दहेद्दोषान्धारणाभिश्च१ किल्बिषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ८ ध्यायमानस्य दह्यन्ते चान्ते दोषा यथाग्निना । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ९ चित्तं चित्तेन संशोध्य भावं भावेन शोधयेत् । मनस्तु मनसा शोध्यं बुद्धिं बुद्ध्या तु शोधयेत् । । 1.145.१० चित्तस्यातिप्रसादेन भाति कर्म शुभाशुभम् । शुभाशुभविनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः । । निर्ममो निरहङ्कारस्ततो याति परां गतिम् । । ११ पर्वाह्णे लोहितं रूपं प्रथममृङ्ममयं स्मृतम् । यजुर्मयं द्वितीयं तु श्वेतं माध्याह्निकं स्मृतम् । । १२ कृष्णं तृतीयं सायाह्ने साम्नो रूपं तु तत्कृतम् । प्रथमं राजसं देव द्वितीयं सात्त्विकं स्मृतम् । १३ तृतीयं तामसं रूपं त्रैगुण्यं तस्य कल्पितम् । त्रयाणां व्यतिरेकेण चतुर्थं सूर्यमण्डलम् । । १४ ज्योतिः प्रकाशकं सूक्ष्मं प्रोक्तं देवनिरञ्जनम् । चतुर्थं तु वेदविदः सूर्यसिद्धान्तवेदिनः । । १५ ॐकारप्रणवैर्युक्ता ध्याननिर्भूतकल्मषाः । स्थिताः पद्मासने वीरा नाभिसंन्यस्तपाणयः । । १६ सुषुम्नानाडिकामार्गं कुम्भरेचकपूरकैः । त्रिभिः संशोध्य तान्पञ्च मरुतो देहमध्यगान् ।। १७ पदाङ्गुष्ठान्वितः स्विन्नमूर्ध्वमुत्क्षेपयेत्क्रमात् । नाभिदेशे तु तं दृष्ट्वा देवमग्निमनामयम् ।। १८ सोमं च हदये दृष्ट्वा मूर्ध्नि वाग्निशिखां ततः । वातरश्मिभिरासाद्य तं भित्त्वा मण्डलं परम् ।। १९ ततः परं तु यो गच्छेद्योगस्थः सूर्यमण्डलम् । यत्र गत्वा न शोचन्ति तत्सौरं परमं पदम् ।।1.145.२ ० देवार्चनं महाबाहो कीर्तितः केशिसूदन । प्रथमं हदयं स्थानं द्वितीयं चाग्निमाश्रितम् ।।२ १ तृतीयं नाभिसंस्थं च चतुर्थं सूर्यमण्डलम् ।।२२ स्थानं परं वै परमात्मसंस्थं भानोः सुरेशस्य वदन्ति तज्ज्ञाः । ज्ञेयः स मोक्षश्च नृणां स एव संसारविच्छित्तिकरं पदं ततः ।।२३ इदममृतसमं परस्य वेद्यं किरणसहस्रमृतो हितं जनानाम् । ऋषिचरितमवेत्य तत्त्वसारं व्यपगतमोहधियः प्रयान्ति मोक्षम् ।।२४ इदं मगानां चरितं मया ते प्रख्यापितं यानवरेण युक्तम् । ज्ञात्वात्विमं मोक्षविदो वदन्ति सिद्धाश्च तत्स्थानमवाप्नुवन्ति ।।२५ यन्मयोक्तमिदं ज्ञानं देयं श्रद्धावतां नृणाम् । नास्तिकानामबुद्धीनां न देयं भूतिमिच्छता ।।२६ सुमन्तुरुवाच इत्युक्त्वा भगवान्व्यासो भोजकज्ञानमुत्तमम् । नारायणं महाबाहो जगामायतनं हरेः ।।२७ ख्यातो यस्त्रिषु लोकेषु गंगया परितोषितः । बदर्या मण्डितो वीर नरनारायणाश्रमः । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भोजकज्ञानवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः
भोजकवर्णनम् शतानीक उवाच य एते भोजकाः प्रोक्ता देवदेवस्य पूजकाः । नान्यं भोज्यमथैतेषां ब्राह्मणैश्च कदाचन । । १ भास्करस्य प्रिया ह्येते पूज्यत्वं च तथा गताः । दिव्याश्चैते स्मृता विप्रा आदित्याम्भः समुद्भवाः । । २ अभोज्यत्वं कथं याता भोजकास्तद्वदस्व मे । किं कुर्वाणास्तथा कर्म भोज्यतां यान्ति मे वद । । ३ सुमन्तुरुवाच इममर्थं पुरा पृष्टो वासुदेवो महीपते । कृतवर्मणा पुरा राजंस्तथा साम्बो महाबलः । । ४ गतौ साम्बपुरीं वीर तथा नारदपर्वतौ । भुक्तवन्तो गृहे सर्वे भोजकस्य महात्मनः । । ५ आदित्यकर्मणो लोके देवान्नख्यातिमागताः । तेन ते पूजिताः सर्वे भक्त्या भोज्यैरनेकशः । । ६ आगतास्ते पुरीं वीर पुण्यां द्वारवतीं विभोः । तावृषी दिवमारुढौ राजन्नारदपर्वतौ । ७ वासुदेवं महातेजा हार्दिक्यो वाक्यमब्रवीत् । य एते भोजका विप्र पूजका भास्करस्य तु । । ८ अन्नमेषां कथं विप्रौ भुक्तवन्तौ जनार्दन । तावृषी दिव्यमाख्यातौ यौ तौ नारदपर्वतौ । । अभोज्याः किल एते वै ब्राह्मणानां जनार्दन । । ९ वासुदेव उवाच न ते भोज्या महाबाहो भोज्या भोजाश्च सर्वदा । अभिवाद्यां प्रयत्नेन यथादित्यो महामते । । 1.146.१० आचरन्तश्र तत्कर्म भोज्यत्वं प्रवजन्ति ते । तच्छ्रूयतां यदुश्रेष्ठ यत्कार्यं चापि तैर्विभो । । यतमानैर्महाबाहो तदिहैकमनाः शृणु । । ११ वृषली यस्य वै भार्या यश्चाव्यङ्गं न धारयेत् । अभोज्यः स तु विज्ञेयो भोजको नात्र संशयः । । १२ अस्नातः पूजयेद्यस्तु तथाभ्यङ्गविवर्जितः । आदित्यं यदुशार्दूल तथा च विधिना विभो । । १३ सेवको भोजको यस्तु शूद्रान्नं येन भुज्यते । कृषिं च कुरुते यस्तु देवार्चामपि वर्जयेत् । । १४ जातकर्मादयो यस्य न संस्काराः कृता विभो । आरुणेयैश्च मन्त्रैश्च सावित्रीं न च वै पठेत् । । तस्य गेहे द्विजो भुक्त्वा कृच्छ्रपादेन शुध्यति । । १५ पितृदेवमनुष्याणां भूतानां भास्करस्य तु । अकृत्वा विधिवत्पूजां यस्तु भुङ्क्ते स धर्महा । । १६ अभ्यङ्गेन विहीनो यः शंखहीनस्तथैव च । शिरसा धारयेत्केशान्स ज्ञेयो भोजकाधमः । । १७ देवार्चनं तथा होमं स्नानं तर्पणमेव च । दानं ब्राह्मणपूजां च कुर्वतो भोजकस्य तु । । अभ्यङ्गेन विहीनस्य सर्वं भवति निष्फलम् । । १८ सर्वदेवमयो ह्येष सर्ववेदमयस्तथा । अभ्यङ्गो यदुशार्दूल पवित्रः परमः स्मृतः । । १९ भोजकानां यदुश्रेष्ठ तस्य मूले स्थितो हरिः । मध्ये ब्रह्मा महातेजा अग्रे गोश्रुतिभूषणः । । 1.146.२० ऋग्वेदो यस्य मूलस्थो मध्ये सामानि कृत्स्नशः । यजुर्वेदस्तथा श्रेष्ठश्चाथर्वसहितः स्थितः । । २१ त्रयोऽग्नयस्तथा राजंस्त्रयो लोकाः स्थिताः क्रमात् । एवमेव पवित्रस्तु अभ्यङ्गो भोजकस्य तु । । २२ यस्त्वनेन विहीनस्तु भोजको भोजकाधमः । अभोज्यः स तु विज्ञेयः सोऽशुचिर्नात्र संशयः । । २३ निर्माल्यमथ नैवेद्यं कुङ्कुमं देवहेलिनाम् । ये प्रयच्छन्ति शूद्राणां विक्रीणन्ति च भोजकाः । । तेऽधमा भोजका ज्ञेया ये च देवस्वहारिणः । । २४ न पूजयन्ति देवेशं देवस्वं क्षपयन्ति च । न ते देव प्रियास्तात विज्ञेया भोजकाधमाः । । २५ यस्मिन्न भुक्ते नैवेद्यं भोजकोऽश्नाति मानद । तदन्नं भुङ्जतस्तस्य नरकाय न शान्तये । । २६ नैवेद्यं भोजयेत्तस्माद्भास्करस्य नरः सदा । प्रथमं यदुशार्दूल तच्च देहविशोधनम् । । २७ ब्राह्मणानां पुरोडाशो यथा कायविशोधनः । भोजकानां तथा वीर नैवेद्यं कायशोधनम् । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः
भोजकब्राह्मणवर्णनम् वासुदेव उवाच अत्र पृष्टो यथा देवो भास्करो देवपूजितः । अरुणेन महाबाहो के प्रिया भोजकास्तथा । । १ पूजायां तव के योग्याः के न योग्या भवन्ति च । इति पृष्टः स भगवानरुणेन दिवाकरः । । यदुवाच महाबाहो तदिहैकमनाः शृणु । । २ भास्कर उवाच परदारान्परद्रव्यं ये न हिंसन्ति भोजकाः । ते प्रिया मम वै नित्यं ये न निंदन्ति दैवतान् । । ३ वाणिज्यं कृषिसेवां तु वेदानां निन्दनं च ये । कुर्वन्ति भोजका ज्ञेयाः सर्वे ते मम वैरिणः । । ४ येषां भार्यासङ्ग्रहणं कर्षणं ये प्रकुर्वते । नृपसेवां खगश्रेष्ठ विज्ञेयाः पतितास्तु ते । । भुञ्जते ये च शूद्रान्नं ज्ञेयास्ते शत्रवो मम । । ५ पूजा कृता तु या तैस्तु तथार्घ्यं च खगोत्तम । पूजां तामथ चाप्यर्घ्यं नाहं गृह्णामि खेचर । । ६ य एते कथिता वीर ये च शङ्खविवर्जिताः । निर्माल्यं ये मदीयं तु नैवेद्यं कुङ्कुमं तथा । । ७ शूद्राय ये प्रयच्छन्ति विकीर्णन्ति च ये खग । यच्छन्ति ये च वैश्याय भोजका मे न ते प्रियाः । । ८ यजन्ते ये च सावित्रीं महाश्वेतां च गोपतेः । ये न जानन्ति मे मुद्रां किङ्कराणां च नामतः । । ९ य एते१ कथिता वीर भोजकास्ते मया खग । नैते पूजयितुं शक्ता ये प्रिया मम भोजकाः । । ताञ्छृणुष्व खगश्रेष्ठ भूत्वा चैकाग्रमानसः । । 1.147.१० देवद्विजमनुष्याणां पितॄणां चापि पूजकाः । ते प्रिया मम वै नित्यं शक्ताः पूजयितुं रविम् । । ११ येषां मुण्डं शिरो नित्यं ये चाभ्यङ्गसमन्विताः । वादयन्ति च ये शङ्खं दिव्यास्ते भोजका मताः । । १२ त्रिकालं ये च मां नित्यं सुस्नाताः क्रोधवर्जिताः । पूजयन्ति खगश्रेष्ठ ते प्रिया मम भोजकाः । । १३ वारे मदीये नक्तं तु षष्ठ्यां ये च प्रकुर्वते । सप्तम्यामुपवासं तु तथा सङ्क्रमणे मम । । १४ दिव्यास्ते ब्राह्मणा ज्ञेया भोजका मम पूजकाः । पूजयन्ति च ये विप्रान्मद्भक्ता मत्परायणाः । । ते प्रियाः सततं मह्यं भोजका गरुडाग्रज । । १५ मयि भक्तिं न कुर्वन्ति ब्राह्मणान्पूजयन्ति नो । न ते पूज्या न वन्द्याश्च ये द्विषन्ति च मां सदा । । १६ ये कुर्वन्ति महायज्ञान्भोजका गरुडाग्रज । पितृदेवमनुष्याणां पूजार्थं सन्ततं खग । । १७ प्रियास्ते सततं वीर भोजकानां तथोत्तमाः । तस्मात्सर्वप्रयत्नेन पञ्चयज्ञान्प्रवर्तयेत् । । १८ एकभक्तेन ये नित्यं वर्तन्ते कश्यपात्मज । भुञ्जते न च ये रात्रौ भोजकास्ते प्रिया मम । । १९ मम वारे च ये वीर तथा षष्ठ्यां च केशव । न रात्रौ भुञ्जते प्राज्ञा मत्प्रियास्ते मगाः खग । । 1.147.२० प्रतिसंवत्सरं ये तु भोजका गरुडाग्रज । न यच्छन्ति पितुर्मातुर्दिवसे तेन मे प्रियाः । । २१ इत्थं भूता भोजका या माघमासे च सप्तमी । पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । । २२ वाचको ब्राह्मणानां तु नैवेद्यं मोदकास्तथा । घृताहुत्यो गुग्गुलश्च क्षीरेण स्नपनं तथा । । २३ वाद्यानां शङ्खशब्दश्च नृत्यं नाट्यं मतं मम । पञ्चवर्णा पताकास्तु श्वेतं छत्रं च मे प्रियम् । । २४ नान्यवर्णैः कृता पूजा तथा प्रीणाति मां खग । यथा कृता भोजकेन पूजा प्रीणाति मां सदा । । नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु । । २५ वासुदेव उवाच इत्युक्त्वा भगवान्देवश्चारुणाय पुरानघ । लक्षणं भोजकानां तु ततो मेरुमथाक्रमत् । । २६ एवं भोज्या भोजकास्तु न चाभोज्याः कदाचन । अनुष्ठानविहीना ये न ते भोज्यास्तु भोजकाः । । २७ भौमास्तु ब्राह्मणा ये तु अनुष्ठानविवर्जिताः । तेऽप्यभोज्या भवन्तीह विकर्मस्था विशेषतः । । २८ नास्ति पूज्यतमं किञ्चिन्माङ्गल्यं पावनं तथा । चतुर्णामिह वर्णानां मुक्त्वा भोजकमुत्तमम् । । पूजिते भोजके वीर आदित्यः पूजितो भवेत् । । २९ भुञ्जते यस्य वै गेहे भोजका यदुनंदन । तस्य भुङ्क्ते स्वयं भानुर्ब्रह्मा विष्णुस्तथा शिवः । । 1.147.३० यथेह सर्वसत्त्वानां प्रधानत्वे स्थितो रविः । तथेह सर्वभूतानां भोजकः पूज्य उच्यते । । ३१ तीर्थानां तु कुरुक्षेत्रं सरसां सागरो यथा । तथा पूज्यतमो ज्ञेयः पूज्यानां भोजको विभो । । ३२ विशेषेण च सौराणां भोजकः पूज्य उच्यते । भर्ता पूज्यो यया स्त्रीणां शिष्याणां च यथा गुरुः । । भोजकस्तु तथा पूज्यः सौराणां हृदिकात्मज । । ३३ यस्य भुङ्क्ते भोजकस्तु गन्धपुष्पादिनार्चितः । तस्य भुङ्क्ते स्वयं भानुः पितरो देवतास्तथा । । ३४ एवं पूज्यास्तथा भोज्या भोजका हृदिकात्मज । ये सौरा भोजकस्यान्नं भुञ्जते निर्विकल्पतः । । ते सर्वे पापनिर्मुक्ता यान्ति सूर्यसलोकताम् । । ३५ कथितो यत्र यो भोज्यो यथा भोज्यः स वर्जितः । अथ किं बहुनोक्तेन श्रूयतां वचनं मम । । ३६ नास्ति वेदात्परं शास्त्रं नास्ति गङ्गासमा सरित् । अश्वमेधसमं पुण्यं नास्ति पुत्रसमं सुखम् । । ३७ नास्ति भानुसमो देवो नास्ति मातृसमा गतिः । यथैतानि समस्तानि उत्तमानि यदूत्तम ।। तथोत्तमो भोजकस्तु सम्प्रोक्तो भास्करेण तु । । ३८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकलक्षणवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः
कालचक्रवर्णनम् सुमन्तुरुवाच अध साम्बो महातेजा दृष्ट्वा चक्रं पितुः करे । ज्वालामालाकरालं तु महता तेजसान्वितम् । । १ पप्रच्छ पितरं साम्बो भक्त्या श्रद्धासमन्वितः । कुतस्तात त्वया प्राप्तं चक्रमादित्यसन्निभम् । । २ किमर्थं वहते देव दिव्यमायुधमुत्तमम् । एतदाख्याहि मे सर्वं श्रोतुकामस्य१ कौतुकात् । । ३ वासुदेव उवाच साधुसाधु२ महाबाहो साधु पृष्टोस्म्यऽहं त्वया । शृणुष्वैकमनाः पुत्र चक्रस्य विधिनिर्णयम् । ।४ दिव्यं वर्षसहस्रं तु भानुमाराध्य श्रद्धया । प्राप्तं चक्रं मया तस्माद्भास्कराल्लोकपूजितात् । ।५ नभोगः पञ्चकारूढः स्थितः साक्षाद्दिवाकरः । ग्रहाः सोमादयो यस्य संस्थिता नाभिमण्डले । । ६ आदित्या द्वादश समा अरेषु क्रमशस्तथा । प्रोक्तं पथिषु तत्त्वानि पृथिव्यादीनि यानि वै । ।७ एतैस्तत्त्वैः परिव्याप्तं चक्रं कालात्मकं परम् । संक्षेपात्ते मयाख्यातं दत्तं चक्रमिवापरम् । । ८ साम्ब उवाच कथं कालमयं देव चक्रं कमलमुच्यते । इदं तावन्ममाचक्ष्व ज्ञातुमिच्छामि तत्त्वतः । । ९ वासुदेव उवाच कमलं ह्यृतुभिः षड्भिः षट्दलं चाक्षयाश्रितम् । पुरुषाधिष्ठितं तद्धि तत्र साङ्गो रविः स्थितः । । 1.148.१० यच्च कालत्रयं लोके तन्नाभित्रयमुच्यते । मासा अरा महाबाहो पक्षाश्च प्रधयः स्मृताः । । ११ नेमी चैव परे प्रोक्ते अयने दक्षिणोत्तरे । पथिनाभिषु योगे च योगाख्यास्तपनादिभिः । । १२ नक्षत्राणि ग्रहाश्चैव सदा चात्र स्थिताः स्मृताः । एतैर्व्याप्तमिदं चक्रं स्थूलसूक्ष्मप्रभेदतः । । १३ अत्रोद्दिष्टेषु कालेषु ये नोद्दिष्टा मया तव । युगादिकल्पपर्यन्तास्तेऽपि चात्र स्थिताः क्रमात् । । १४ यत्ते कालात्मकं चक्रमिदं संक्षेपतो मया । कथितं तद्विनिष्क्रान्तं प्रदीप्तात्सूर्यमण्डलात् । । १५ असुराणां वधायेदं मया लब्धं दिवाकरात् । आराध्य तपसा सूर्यं पुरा कल्पे जगद्गुरुम् । । अतः सम्पूज्ययाम्येनं ग्रहैस्तत्त्वैर्वृतं सदा । । १६ अर्कं भक्तो हि चक्रस्थं यः पूजयति भक्तिमान् । तेजसा रविसंकाशः पुष्पोत्तरपुरं व्रजेत् । । १७ तस्मात्तं मत्कुलानन्दं मित्रं सम्पूजयाम्यहम् । ग्रहैस्तत्त्वैर्वृतं भक्त्या स्वमन्त्रैः सततं विभुम् । । १८ सप्तम्यां चक्रमालिख्य ये यजन्ति दिवाकरम् । रक्तचन्दनपूर्णेन कुंकुमेन सुगंधिना । । १९ पिष्टगन्धादिभिर्वापि रक्तवर्णकमिश्रकैः । रक्तैश्च कमलैः शुद्धैः करवीरैः सुगन्धिभिः । । 1.148.२० अन्यैर्वा कुसुमैर्वन्यैः प्रत्यग्रैर्जन्तुवर्जितैः । अपर्युषितनिश्छिद्रैः शुभधन्यैर्दलैरपि । । २१ फलैः पक्वैरोषधिभिस्तथा दूर्वाङ्कुरैः कुशैः । धूपैश्च विविधैर्गन्धैस्तथा वस्त्रैश्च भूषणैः । । २२ भक्ष्यैर्भोज्यैश्च पेयैश्च चोष्यैर्लेह्यैश्च शक्तितः । वितानशोभासिकतैः पलाशैरुपशोभितैः । । २३ छत्रचामरघण्टाभिर्भूषणैर्दर्पणादिभिः । नृत्यवादित्रगीतैश्च वेदैः पुण्यकथास्वनैः । । २४ सर्वत्र जयघोषैश्च सम्पूर्णे पूजयन्ति ये । सम्पूर्णान्विविधान्कामान्निर्विघ्नान्प्राप्नुवन्ति ते । । २५ स्वचक्रं चापि निर्विघ्नं वृद्धिमायाति सुव्रत । हन्यते परचक्रं च यत्रेदं पूज्यते सकृत् । । २६ सङ्क्रान्तौ ग्रहणे चापि लिखित्वा यो जपेदिदम् । भवन्ति नियताः साम्ब तस्य सानुग्रहा ग्रहाः । । २७ सर्वरोगविहीनस्तु सर्वदुःखविवर्जितः । चिरं जीवति धर्मात्मा सर्वैश्वर्यसमन्वितः । । २८ एष वै कथितो वत्स चक्रयोगो मया तव । अर्कस्य सर्वयज्ञानां श्रेष्ठं सिद्धिप्रदो भृशम् । । २९ पुण्यो धर्मस्तथा पुष्ट्यः शत्रुघ्नश्च विशेषतः । श्वेतो रक्तोऽथ पीतश्च कृष्णश्चापि विभागशः । । 1.148.३० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने कालचक्रवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः
सूर्यदीक्षावर्णनम् साम्ब उवाच किं प्रमाणं लिखेच्चक्रं तत्र पद्मं च किं भवेत् । नेमिप्रध्यारनाभीनां विभागः क्रियते कथम् । । १ वासुदेव उवाच चतुःषष्ट्यङ्गुलं चक्रं कृत्वा वृत्तं प्रमाणतः । अष्टाङ्गुला भवेन्नेमिः सेयं विभवतः सदा । । २ नाभिक्षेत्रं तथैव स्यात्पद्मं तत्त्रिगुणं भवेत् । अरक्षेत्रं च पद्मस्य कणिकाकेसराणि च । । ३ केसरस्य च पादेन शेषपत्राणि कल्पयेत् । पत्रसन्धिश्च पादाङ्गं क्रमात्तत्रापि भिद्यते । ।४ उन्नतं कमलं तत्तु कुर्यान्नाभ्यां न संशयः । आकीर्णाः संविभक्ताश्च कर्तव्याः प्रधयः क्रमात् । ।५ अङ्गुलस्थूलमूलं स्यादराग्रं त्रिगुणं ततः । भूमिः पीता बहिर्ज्ञेया कर्णिकाकेसराणि च । । ६ सितं नाभिस्थलं तत्र द्वाराणि परिकल्पयेत् । हस्तमात्रं भवेत्तस्य तन्मानं द्वारसन्निभम् । ।७ शेषं रक्तं समुद्दिष्टं संहताः पत्रसन्धयः । नाभिनेम्यन्तरे लेखाः सिताश्चाङ्गुलमानतः । । ८ सितरक्तसिताभिश्च समन्तादुपशोभितम् । कपोलं द्वारपद्मं च द्वारकोणे प्रकल्पयेत् । । ९ चतुर्द्वारं भवेदेवमैन्द्रद्वारं प्रकल्पयेत् । अपराह्णेऽथ पूर्वाह्णे वरुणमावाहयेत्सदा । । 1.149.१० द्वाराण्येतानि संवर्त्य यथोक्तविधिना यजेत् । यथोक्ता देवताः सर्वाः स्वमन्त्रैरेव भक्तितः । । १ १ चक्रमेवं समुद्दिष्टं यजनार्थं मया तव । यज्ञेनानेन सम्बद्धो दीक्षितश्चार्कमण्डले । । इत्थं मे भानुना पूर्वमिदमुक्तं वरानन । । १२ साम्ब उवाच के मन्त्राश्चक्रयज्ञेऽस्मिन्देवतानां प्रकीर्तिताः । यज्ञक्रमश्च कः प्रोक्तो रूपं किं च पृथक्पृथक् । । १३ वासुदेव उवाच खषोल्कं हदयाध्यक्षं पूर्वोक्ते कमले यजेत् । कर्णिकायां दलेष्वेवमङ्गानि हृदयादि च । । १४ नाममन्त्राश्चतुर्थ्यंतास्तेषां पूर्वोक्तकोटयः । नमस्कारश्च सर्वत्र एष एव विधिः स्मृतः । । १५ स्वाहान्ता होमकाले च कर्मस्वन्येषु ते पुनः । यथा कर्मावसानाश्च प्रयोक्तव्याः समासतः । । १६ ॐ खषोल्काय विद्महे दिवाकराय धीमहि । तन्नः सूर्यः प्रचोदयात् । । १७ सावित्री च महाबाहो चतुर्विंशाक्षरा मता । सर्वतत्त्वमयी पुण्या ब्रह्मगोत्रार्कवल्लभा । । १८ एवं मन्त्राः प्रयोक्तव्याः सर्वकर्मस्वतंद्रितैः । अन्यथा विफलं कर्म भवेदिह परत्र च । । १९ तस्मात्सर्वप्रयत्नेन मन्त्राञ्ज्ञात्वा विधिं तथा । यथावत्कर्म तत्कृत्वा साधयेदीप्सितं फलम् । । 1.149.२० साम्ब उवाच आदित्यमण्डले दीक्षा कस्य कार्या कथं च सा । कदा केन किमर्थं च कथयेदं ममाखिलम् । । २१ वासुदेव उवाच ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रमेव च । पुरुषं वा स्त्रियं वापि दीक्षयेत्सूर्यमण्डले । । २२ स्वयं भक्त्योपपन्नश्च प्रणिपत्य गुरुं तथा । गुरुस्तं दीक्षयेद्विप्रः कल्पज्ञः सत्यवाक्छुचिः । । २३ षष्ठ्यामग्निं समाधाय पूर्वोक्तविधिना क्रमात् । सम्पूज्यार्कं तथा वह्नौ हुत्वा वै हविषा रविम् । । २४ शिष्यं स्नातमथाचान्तं खषोल्काकृतिविग्रहम् । स्वाङ्गैरालभ्य चाङ्गेषु दर्भवद्भिस्तथाक्षतैः । । २५ पुष्पैः सम्पूज्य चाङ्गानि देयः कार्यो बलिस्तथा । आदित्यो वरुणोऽर्कोऽग्निः साधितो हृदयेन च । । २६ भवेद् घृतगुडक्षीरैस्तन्दुलैश्च१ प्रमाणतः । त्रिभिरञ्जलिभिर्हुत्वा देवायाग्नौ हुतं पुनः । । २७ दत्त्वा शिष्टाय मुक्त्वैवं दत्त्वान्ते दन्तधावनम् । क्षीरं वृक्षोद्भवं तस्मै द्वादशाङ्गुलसन्निभम् । । २८ दन्तश्लिष्टेऽपनीते च तेन प्राच्यां क्षिपेत्ततः । दन्तधावनमास्यं च तदा तस्योपरि क्षिपेत् । । २९ मैत्रावारुणमीशानं वक्रं सौम्यसमाश्रितम् । प्रशस्तं दन्तकाष्ठस्य मुखमन्यत्र निन्दितम् । । 1.149.३० यां दिशं दन्तकाष्ठस्य मुखं पश्यति तत्पतिम् । अर्चयेत्तेन शांतिः स्यादित्युक्तं भानुना स्वयम् । । ३१ पुनस्तद्वचनं श्रुत्वा अङ्गैरालभ्य च क्रमात् । सम्पूज्य लोचने तत्र सञ्चिंत्य परिजप्य च । । ३२ कारयित्वा च सङ्कल्पं तथा चेन्द्रियसंयमम् । स्थापयेत स्वयं चापि वरं श्रुत्वा समाहितः । । ३३ आचम्य कृतरक्षस्तु कृतद्रव्याधिवासनः । हदयेन नमेत्प्रातः स्नात्वा हुत्वा हुताशनम् । । ३४ स्वप्नं पृच्छेद्यथा दृष्टं शुभं संवादयेच्च तम् । हदयेनाशुभे दृष्टे शतहोमं समाचरेत् । । ३५ स्वप्ने पश्यति हर्म्याणि देवतानां हुताशनम् । नदीयानानि रम्याणि उद्यानोपवनानि च । । ३६ पत्रपुष्पफलाढ्यानि कमलानि च राजतम् । सम्पश्यति यदि स्वप्ने ब्राह्मणं वेदपारगम् । । ३७ राजानं शौर्यसम्पन्नं धनाढ्यं क्षत्रियोत्तमम् । शुश्रूषणपरं शूद्रं यदि तत्त्वार्थमादिशेत् । । ३८ प्रशस्तं भाषणं चैव यथासम्भवतो मतम् । एतैः स्पर्शनमेतेषां श्रेष्ठमारोहणं ततः । । ३९ वाहनानि प्रशस्तानि प्रासादं नावमेव च । पर्वतं च समारुह्य विपुलां भार्गवीं भजेत् । । 1.149.४० पीत्वा सुरां समुद्रं च दध्याज्यं क्षीरमेव च । सोमं मांसं हविर्भुक्त्वा काश्यपीं लभते नरः । । ४१ लब्ध्वा वस्त्राणि रत्नानि विविधाभरणानि च । वाहनानि महीं गाश्च धान्योपकरणानि च । । ४२ समृद्धिमाप्नुयात्किञ्चित्स्वप्नानां दर्शनं शुभम् । शुभकर्मानुगं यच्च तत्सर्वं शुभमुच्यते । ।४ ३ तस्मादन्यदनिष्टं स्यात्तस्माद्युक्ता प्रतिक्रिया । क्रमादालिख्य सप्तम्यां तत्र सम्पूज्य भास्करम् ।४४ तर्पयित्वा द्विजाञ्च्छिष्टानानम्य पूर्ववद्गुरुम् । सृष्टिक्रमेण भृत्यर्थं मुक्त्यर्थं नान्यथा भवेत् । ।४५ दिवाकरं समालभ्य पुरुषोऽथ यथाक्रमम् । सर्वग्रहेषु तत्त्वेषु यथावत्तन्नियोजयेत् । ।४६ विशुद्धेषु विशुद्धं तं ध्यात्वा चादित्यवत्क्रमात् । नियोजयेत्पृथिव्याश्च ततः प्रभृति सर्वशः । ।४७ आदित्यमण्डलं शुद्धं सर्वमुक्तं नियोजयेत् । एवं तु मनसा ध्यात्वा जुहुयाच्चैव तं शतम् ।। ४८ सर्वैर्मन्त्रैः क्रमादेवं दीक्षा प्रोक्ता वरापरा । कृत्वैव पुष्पपातं तु तस्मिन्नादित्यमण्डले । । ४९ बद्ध्वास्यमञ्जलौ पुष्पं कृत्वा दत्त्वा च मन्त्रितम् । क्षिपेद्वै कुलशुद्ध्यर्थं नामार्थं च विशेषतः । 1.149.५० यत्र तत्पतितं पुण्यं तस्य तत्कुलमादिशेत् । नाम चादित्यसंयुक्तमित्युक्तं भानुना स्वयम् । । ५१ सम्पूज्य श्रावयेत्तत्र समयानर्कभाषितान् । प्रातः सायं मध्याह्ने रवेरभिमुखः स्थितः । । ५२ उपस्थानं सदा कुर्यादर्चनं च सदा नरः । अदृष्ट्वार्कं न भोक्तव्यं दिवा रात्रौ हुताशनम् । ।५ ३ दृष्ट्वा भोक्तव्यमर्काख्यं न भोक्तव्यं कदाचन । न च पद्या स्पृशेत्तद्वन्नासनं परिवर्जयेत् । । ५४ न लङ्घ्या प्रतिमाच्छाया न लङ्घ्यास्तिथयः क्वचित् । नक्षत्राणि ग्रहा योगा मासा मासाधिपाश्च ये । । ५५ अयने ऋतवः पक्षास्तथैव दिवसानि च । कालः संवत्सरश्चापि यः कश्चित्काल उच्यते । । ५६ अभिवन्द्यः स सर्वोऽपि नमस्यः पूज्य एव च । तस्मात्कालाधिपः सूर्यः स्वयं कालश्च पठ्यते । ।५७ ज्योतिर्गणस्य सर्वस्य स्थावरास्थावरस्य च । चेतनाचेतनस्यापि सर्वात्मा यः प्रकीर्तितः । । ५८ स्तुत्यो वन्द्यः सदा पूज्यस्त्वयायं सर्वथा नृप । मनसा कर्मणा वाचा देवनिन्दां परित्यजेत् । ।५ ९ प्रेषयित्वा१ च निर्माल्यं तदश्वेभ्यो निवेदयेत् । प्रक्षाल्य हस्तौ पादौ च नमस्कुर्याद्दिवाकरम् । । 1.149.६० इत्येषा परमा दीक्षा तव संक्षेपतो मया । भुक्तिमुक्तिकरी चापि कथिता प्रविभागतः । । ६१ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यदीक्षावर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः
आदित्यपूजाविधिवर्णनम् वासुदेव उवाच अतः परं प्रवक्ष्यामि यथा पूज्यो दिवाकरः । स्थण्डिले यदुशार्दूल निबोधैकाग्रमानसः । । १ मण्डलैरष्टभिः कार्यं चक्रं कालात्मकं शुभम् । मध्ये पद्माकृतं चक्रमरैर्द्वादशभिर्युतम् । । २ तन्मध्ये कमलं प्रोक्तं पत्राष्टकसमन्वितम् । सर्वात्मा सकलो देवः खषोल्कः किरणोज्ज्वलः । । ३ पूजनीयः सदा मध्ये सहस्रकिरणायुधः । प्रणवेन महाबाहो चतुर्बाहुसमन्वितः । ।४ अरुणं१ पूजयेत्प्राज्ञः सदा देवाग्रजं२ शुभम् । दक्षिणे पूजयेद्देवीं निक्षुभां भास्करस्य तु । । ५ रेवतं दक्षिणे पार्श्वे उत्तरे पिङ्गलं सदा । संज्ञां च यदुशार्दूल श्रेयसे सततं बुधः । । ६ आग्नेय्यां लेखकं वीर नैर्ऋत्यामश्विनौ तथा । वायव्यां पूजयेद्देवं मनुं वैवस्वतं विभुम् । । ७ ऐशान्यां पूजयेद्देवीं यमुनां लोकपावनीम् । द्वितीयावरणे वीर पूर्वतः पूजयेद्वियत् । । ८ दक्षिणे च ततो देवीं पश्चिमे गरुडं तथा । उत्तरे नागराजानं पुत्रमैरावतं शुभम् । । ९ आग्नेय्यां पूजयेद्धेलिं प्रहेलिं नैर्ऋते तथा । वायव्यामुर्वशीं देवीमीशाने विनतां तथा । । 1.150.१० तृतीयावरणे पूर्वे पूजयेद्गुरुमादरात् । पश्चिमे त्वर्कपुत्रं तु उत्तरे धिषणं तथा । । ११ ऐशाने शशिपुत्रं तु सोममाग्नेयमण्डले । पूजयेद्दक्षिणे कोणे नैर्ऋते राहुमादरात् । । १२ वायव्ये विकचं वीर पूजयेत्सततं बुधः । चतुर्थावरणे देवं पूजयेल्लेखमादरात् । । १३ आग्नेये शाण्डिलीपुत्रं दक्षिणे दक्षिणाधिपम् । विरूपाक्षं नैर्ऋते देवं जलेशं पश्चिमे तथा । । १४ वायुपुत्रं च वायव्यां सततं पूजयेन्नरः । ईशाने देवमीशानं पूजयेत्सततं बुधः । । १५ उत्तरे यक्षराजानां कुबेरं पूजयेद्बुधः । पञ्चमे पूजयेद्वीर सदा स्वावरणे द्विजाः । । १६ पूर्वतः परमां देवीं महाश्वेतां महामतिः । श्रियमृद्धिं विभूतिं च धृतिं चैवोन्नतिं तथा । । १७ पृथिवीं यदुशार्दूल महाकीर्तिं तथैव च । इन्द्रं विष्णुं चार्यमणं भगं पर्जन्यमेव च । । १८ विवस्वन्तं तथार्कं च त्वष्टारं किरणोज्ज्वलम् । पूजयेद्वरुणं षष्ठे चैवमेतान्दिवाकरान् । । १९ शिरो नेत्रे तथा वर्म अस्त्रं च यदुसत्तम । अरुणं सरथं वीर सप्तमे पूजयेद्बुधः । । 1.150.२० तथाश्वान्यदुशार्दूल सदा चावरणे बुधः । यक्षरक्षांसि गन्धर्वान्मासान्पक्षानहानि तु । । २१ संवत्सरं तथा पुत्र ह्येतान्संपूजयेत्पुरा । य एवं पूजयेद्देवं भास्करं सततं नरः । । स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति । । २२ ( ॐ खषोल्काय नमः) मूलमन्त्राक्षराणीह चाङ्गानि परिचक्षते । अनेन विधिना यस्तु पूजयेत्सततं रविम् । । २३ नित्यमुभयसप्तम्यां स गच्छेत्परमं पदम् । इत्युक्त्वा भगवान्देवो जगामाशु गृहं रविः । । २४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने आदित्यपूजाविधिवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः
सौरधर्मवर्णनम् सूत उवाच अथ राजा महातेजाः शतानीको द्विजोत्तमम् । प्रणम्य शिरसा भक्त्या सुमन्तुं वाक्यमब्रवीत् । । १ अहो देवस्य माहात्म्यं भास्करस्यामितौजसः । कीर्तितं भवता मह्यं सर्वपापप्रणाशनम् । । २ तस्मान्नार्कसमं देवं लोके पश्यामि सुव्रत । न चाप्यस्य स्थिता विप्र गतिर्लोकेषु विद्यते । । ३ प्रवर्तते जगद्विप्र सर्गकाले दिवाकरात् । स्थितौ पालयते चापि कल्पान्ते संहरेत्पुनः । । ४ श्रुत्वैवं देवमाहात्म्यं भास्करस्यामितौजसः । कीर्तितं भवता मह्यमश्वमेधशताद्वरम् । । ५ किं तु मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । केनोपायेन विप्रेन्द्र मुच्यते सम्भवार्णवात् । । ६ दिवाकरप्रसादाद्वै सुप्रसन्नाद्वृषध्वजात् । कथं तुष्येत्सदा देवो धर्मेण कतरेण तु । । ७ श्रुता मे बहवो धर्माः श्रुतिस्मृत्युदितास्तथा । वैष्णवाः शैवधर्माश्च तथा पौराणिकाः श्रुताः । । ८ श्रोतुकामो ह्यहं विप्र सौरं धर्ममनौपमम् । भगवन्सर्वधन्यास्ते सौरधर्मपरायणाः । । ९ ब्रूहि मे देवदेवस्य भानोर्धर्ममनौपमम् । शृण्वतो नास्ति मे तृप्तिरमृतस्यैवमेव च । । 1.151.१० अश्वमेधादयो यज्ञा बहुसम्भारविस्तराः । न शक्यास्ते यतः कर्तुमल्पवित्तद्विजातिभिः । । ११ सुखोपायमतो ब्रूहि धर्मकामार्थसाधकम् । हिताय सर्वमर्त्यानां सर्वपापभयापहम् । । १२ सौरधर्मपरं पुण्यं पवित्रं पापनाशनम् । श्रुत्वा तु वचनं राज्ञो व्यासशिष्यो महामुनिः । । प्रणम्य शिरसा व्यासमिदं वचनमब्रवीत् । । १३ सुमन्तुरुवाच श्रूयतामभिधास्यामि सुखोपायं महाफलम् । परमं सर्वधर्माणां सर्वधर्ममनौपमम् । । १४ रविणा कथितं पूर्वमरुणस्य विशांपते । कृष्णस्य ब्रह्मणो वीर शङ्करस्य न विद्यते । । १५ संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् । सौरधर्मतमः श्रीमान्हिताय जगतोदितः । । १६ यैरयं शान्तहृदयैः सूर्यभक्तैर्भगार्थिभिः । संसेव्यते परो धर्मस्ते सौरा नात्र संशयः । । १७ एककालं द्विकालं वा त्रिकालं नित्यमेव च । ये स्मरन्ति रविं भक्त्या सकृदेवापि भारत । । सर्वपापैर्विमुच्यन्ते सप्तजन्मकृतैरपि । । १८ स्तुवन्ति ये सदा भानुं न ते प्रकृतिमानुषाः । स्वर्गलोकात्परिभ्रष्टास्ते ज्ञेया भास्करा भुवि । । १९ नानर्कः स्मरतेऽर्कं वै नानर्कोऽर्कं समर्चयेत् । नानर्कः कीर्तयेदर्कं नानर्कोऽर्कमवाप्नुयात् । । 1.151.२० सौरधर्मस्य सारोऽयं सूर्यभक्तिः सुनिश्चला । षोडशाङ्गा च सा प्रोक्ता रविणेह दिवौकसाम् । । २१ प्रातः स्नानं जपो होमस्तथा देवार्चनं नृप । द्विजानां पूजनं भक्त्या पूजा गोश्वत्थयोस्तथा । । २२ इतिहासपुराणेभ्यो भक्तिश्रद्धापुरस्कृतम् । श्रवणं राजशार्दूल वेदाभ्यासस्तथैव च । । २३ मद्भक्त्या जनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चयेद्भक्त्या ममाग्रे वाचकं परम् । । २४ पुस्तकस्य सदा श्रेष्ठ ममातीव प्रियं सुराः । मत्कथाश्रवणं नित्यं स्वरनेत्राङ्गविक्रिया । । २५ ममानुस्मरणं नित्यं भक्त्या श्रद्धापुरस्कृतम् । षोडशाड्गा भक्तिरियं यस्मिन्म्लेच्छेऽपि वर्तते । । विप्रेन्द्रः स मुनिः श्रीमान्सजात्यः स च पण्डितः । । २६ न मे पृथक्चतुर्वेदा मद्भक्तः श्वपचोऽपि यः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् । । २७ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । । २८ यो मां सर्वगतं पश्येत्सर्वं च मयि संस्थितम् । तस्याहमास्थितो नित्यं स च नित्यं मयि स्थितः । । २९ अष्टादशार्धकक्षायाः परं चाष्टभिरुद्भवैः । रोधयित्वा महाबाहो तथा ज्ञानतरेण तु । । 1.151.३० दुर्गपालं विजित्याशु भास्करार्धं तु दुर्जयम् । जित्वा च पुरराजानां महातेजमनौपमम् । । ३१ मनसाचलया भक्त्या यो मां ध्यायति मानवः । अहं तमेव चिंतामि आत्मवत्सततं नरम् । । ३२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः
सूरधर्मेषु प्रश्नवर्णनम् सुमन्तुरुवाच सूरे च दुर्लभा भक्तिर्दुर्लभं सुरपूजनम् । सूराय दुर्लभं दानं सूरहोमश्च दुर्लभः । । १ सुदुर्लभं रवेर्ज्ञानं तदभ्यासोऽपि दुर्लभ । सुदुर्लभतरं ज्ञेयं खषोल्कज्ञानमुत्तमम् । । २ सुदुर्लभतरं ज्ञानं सदा वै भास्करस्य तु । प्रदक्षिणां चक्रतुर्वै पादौ भक्त्याऽर्कमन्दिरे । । ३ तौ करौ श्लाघ्यतां प्राप्तौ यौ पूजां चक्रतू रवेः । सैवैका रसना धन्या स्तोत्रं या कुरुते रवेः । । ४ तन्मनः पुण्यतां प्राप्तं यद्धित्वा विषयं नृप । निश्चला च रवेर्लीला निर्भीका क्रोधवर्जिता । । ५ शतानीक उवाच सूर्यार्चनविधिं कुर्वञ्छ्रोतुमिच्छामि तत्त्वतः । त्वत्प्रसादाद्द्विजश्रेष्ठ कौतूहलमतीव मे । । ६ यत्पुण्यं स्थापिते सूर्ये कृते सूर्यालये च यत् । सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने। । ७ स्थाने कृते च यत्पुण्यं तथा नीराजने कृते । नीलौषधिप्रवापेन नृत्यमङ्गलवादितैः । । ८ अर्घ्यदानेन यत्पुण्यं तोयस्नानेन यद्भवेत् । पञ्चामृतमयस्नाने दधिस्नाने च यत्फलम् । । ९ चक्राभ्यङ्गे च यत्प्रोक्तं वज्रस्नाने च यत्फलम् । मधुस्नाने पयःस्नाने स्नान इक्षुरसस्य तु । । 1.152.१० उद्वर्तनं शुचिस्थाने कुशपुष्पोदकेन तु । सुवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः । । ११ कर्पूरागुरुतोयेन स्वच्छतो येन यत्फलम् । विलेपनैश्च गन्धाढ्यैर्विलेपनफलं लभेत् । । १२ तालपत्रप्रदाने तु प्रदाने चामरस्य तु । रक्तपुष्पार्चने यच्च दामभिः पूजनेन च । । १३ सुमानां मण्डपे यच्च पुष्पमालावलम्बनात् । पूजाभक्तिविशेषैश्च गृहमालावलम्बने । । १४ पुष्पदानविशेषेण धूपदीपैश्च यत्फलम् । वस्त्रालङ्कारदाने तु पुण्यश्रवणकीर्तने । । १५ ब्रह्मश्रवस्य दाने तु अव्यङ्गस्य च गोपते । मगानां मत्प्रसादेन अभिवादनपूजने । । १६ व्योमपूजाफलं यच्च अरुणस्य च पूजनम् । तथान्यदपि यत्प्रोक्तमज्ञानाद्ब्राह्मणोत्तम । । १७ तत्सर्वं ब्रूहि मे ब्रह्मन्भक्तानामनुकम्पया । । १८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सूरधर्मेषु प्रश्नवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः
सूर्यतेजोवर्णनम् सुमन्तुरुवाच सुमतिश्च रवेर्भक्तः पाण्डवेय महामते । अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १ कल्पादौ सृजतो वीर ब्रह्मणो विविधाः प्रजाः । अहंकारो महानासीन्नास्ति लोके मदुत्तमः । । २ तथा पालयतो वीर केशवस्य धरापते । तथा संहरतो जज्ञेऽहङ्कारस्त्र्यम्बकस्य च । । ३ चिंतयन्तोथ ते देवाः केशवश्च नराधिप । मिथस्ते स्पर्धया युक्ताः परस्परविरोधिनः । । ४ विवादस्तु महानासीत्कञ्जाम्बुनगौकसाम् । परस्परं महाबाहो मनसाश्रित्य केवलम् । । ५ अहं कर्ता विकर्ताऽहं पालकोऽहं जगत्प्रभुः । इत्याह भगवान्ब्रह्मा कृष्णभीमौ समर्चितौ । । ६ तथैत्य शंकरः क्रुद्धः कः शक्तो मदृते भुवि । संहर्तुं जगदेतद्धि स्रष्टुं पालयितुं तथा । ।७ नारायणोऽप्येवमेव मनाक् क्रोधसमन्वितः । न वा शक्तो जगत्स्रष्टुं संहर्तुं रक्षितुं तथा । । ८ एवं तेषां प्रवदतां क्रुद्धानां च परस्परम् । समाविशत्तदाऽज्ञानं तमो मोहात्मकं विभो । । ९ तेन क्रान्तधियः सर्वे न पश्यन्ति परस्परम् । अत्यर्थं मोहमापन्ना न जानन्तीह किञ्चन । । 1.153.१० अपश्यन्तो मिथस्ते तु निषण्णाः क्ष्मातले विभो । आरमन्ति हि ये चान्ये ते दिवाकरमास्थिताः । । ११ तमसा मोहिताः सर्वे निद्रावत्क्रान्तचेतसः । मनाग्ज्ञानेन चाक्रान्ताः किं कुर्यामेति मोहिताः । । १२ अथ भूताधिपो देवो गोश्रुताभरणोज्ज्वलः । चन्द्रार्धकृतशोभस्तु शीतलांशुविशोधितः । । १३ आर्तिमेत्य परां वीर मोहितस्तमसा विभो । अपश्यन्नब्रवीद्देवं माधवं भूधरं हरिम् । । १४ महादेव उवाच कृष्ण कृष्ण महाबाहो क्व गतस्त्वं महामते । ब्रह्मा च क्व गतो वीर नाहं पश्यामि वां क्वचित् । । १५ मोहेन महताहं वै तमसा च विमोहितः । किं करोमि क्व गच्छामि क्व चाहमधुना स्थितः । । १६ क्ष्माधरं पृथिवीं वृक्षान् देवगन्धर्वदानवान् । विपुलं सागरं सिन्धून्नहि पश्यामि किञ्चन । । १७ केनोपायेन पश्येयं जगत्स्थावरजङ्गमम् । ब्रूहि मे देवशार्दूल व्रीडा मेऽतीव जायते । । १८ शङ्करस्य वचः श्रुत्वा हरिर्वचनमब्रवीत् । शोकगद्गदया वाचा तमसा मोहितो नृप । । १९ विष्णुरुवाच भीम भीम न जानेऽहं क्व भवान्वर्ततेऽधुना । ममापि मोहितं चेतस्तमसातीव शङ्कर । । 1.153.२० क्व गच्छामि क्व तिष्ठामि कथं तत्स्वस्थतां व्रजेत् । तमसा पूरितं सर्वं जगद्धि परमेश्वर । । २१ यद्यसौ दृश्यते देवः सुरज्येष्ठोऽम्बुजोद्भवः । पृच्छावस्तं महात्मानं यदि ते रोचते हर । । २२ हित्वा दर्पमहङ्कारं सममास्थाय केवलम् । पद्माननं पद्मयोनिं पद्मपत्रनिभेक्षणम् । । २३ इत्येवं गदतो वाक्यं विष्णोरमिततेजसः । श्रुत्वोवाच विभुर्ब्रह्मा गङ्गाधरमहीधरौ । । २४ कृष्ण कृष्ण महाबाहो भीम भीम महामते । क्व भवन्तौ ब्रूत किं च किं युवामूचथुर्मिथः । । २५ ममातीव मनोबुद्धी तमसा वशमागते । न शृणोमि न पश्यामि निद्रामोहवशं गतः । । २६ अहो बत जगत्सर्वं सदेवासुरमानुषम् । तमसा व्याष्टतं देवौ न जाने क्व गतं महः । । २७ अथ तेषां प्रवदतां ब्रह्मादीनां दिवौकसाम् । दर्पक्रोधभयार्तानां तमसाक्रान्तचेतसाम् । । २८ तेषां दर्पापहाराय प्रबोधार्थं च गोपतेः । तेजोरूपं समुद्भूतमष्टशृङ्गमनौपमम् । । २९ अलक्ष्यं पापतमसा महद्व्योम नराधिप । ज्वालामालावृतं वीर बहुरूपं च भासते । । 1.153.३० शतयोजनविस्तीर्णं गतमूर्ध्वं भ्रमत्तथा । गोमध्यतो महाराज कर्णिकेवाम्बुजस्य तु । । ३१ प्रकाशं तेजसा तस्य जगत्सर्वमिदं नृप । पुरेष्वन्तर्यथा वीर अम्बुजस्यार्चिभिः सदा । । ३२ दृष्ट्वा परस्परं सर्वे हुङ्कारादिविकारिणः । तेजसा मोहितास्तस्य जगत्सर्वमिदं नृप । । ३३ तेजसा मोहितं तस्य महद्व्योम नराधिप । ततो विस्मयमासीनः दृष्टगोपतयो नृप । । ३४ पश्यमाना महो व्योम्नि मिथो वचनमब्रुवन् । अहो तेजः समुद्धूतमस्माकं श्रेयसे नृप । । ३५ प्रकाशाय च लोकानां सर्वे पश्याम किं न्विदम् । ज्ञानायोर्ध्वं गतो ब्रह्मा चाधस्तात्त्रिपुरान्तक. । । ३६ तिर्यग्जगाम देवेशश्चक्राम्बुजगदाधरः । अलब्ध्वा तस्य ते सर्वे प्रमाणं गैरिकाधिपाः । । ३७ विस्मयोत्फुल्लनयना समागम्य परस्परम् । सर्वे कञ्जादिका देवा इदं वचनमब्रुवन् । । ३८ कोऽयं किमात्मकश्चायं किमिदं तेजसां निधिः । अहोऽस्य दर्शनात्सर्वे सञ्जाता ज्ञानिनो वयम् । । ३९ तस्मात्सर्वे प्रणम्यैनं स्तुवीमोऽद्भुतदर्शनम् । कृताञ्जलिपुटाः सर्वे चास्तुवंस्त्रिदिवौकसः । । 1.153.४० स्तुवतामप्यथैतेषां सहस्रकिरणो रविः । आत्मानं दर्शयामास कृपया परया वृतः । । ४१ ज्ञात्वा भक्तिं महाबाहो ब्रह्मादीनां महोपमाम् । अथ ते व्योम्नि देवेशं ददृशुः परमेश्वरम् । । ४२ खषोल्कलोकनाथेशं सहस्रकिरणोज्ज्वलम् । कृत्तिकाभिरसंस्पृष्टं यद्वा तत्कार्तिकास्थितम् । । ४३ दुर्जयं कृत्तिकानां तु तथैकेन विवर्जितम् । तथा हस्तविहीनं च सप्तर्षिरहितं तथा । । ४४ वर्षाब्दरहितं देवं सप्तस्वरविवर्जितम् । सकलं निष्कलं चैव सदैकाकाररूपिणम् । ।४५ तद्दृष्ट्वानेकशिरसमनेकचरणं तथा । अनेकोदरबाह्वंसमनेकाभरणान्वितम् । ।४ ६ अनेकाननमक्षीबं सहस्राक्षमनौपमम् । अनेकवर्णरूपं च अनेकमुकुटोज्ज्वलम् । ।४७ दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः । विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् । । ४८ कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे । प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् । । ४९ ब्रह्मोवाच नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल । लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ । । 1.153.५० भास्कराय नमो नित्यं खषोल्काय नमोनमः । विष्णवे कालचक्राय सोमायामिततेजसे । । ५१ नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे । खगाय लोकनाथाय एकचक्ररथाय च । । ५२ जगद्धिताय देवाय शिवायामिततेजसे । तमोघ्नाय सुरूपाय तेजसां निधये नमः । । ५३ अर्थाय कामरूपाय धर्मायामिततेजसे । मोक्षाय मोक्षरूपाय सूर्याय च नमोनमः । । ५४ क्रोधलोभविहीनाय लोकानां स्थितिहेतवे । शुभाय शुभरूपाय शुभदाय शुभात्मने । । ५५ शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः । नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमोनमः । । ५६ ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने । ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते । । ५७ एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो । तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना । । ५८ ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः । त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ।।५९ महादेव उवाच जय भाव जयाजेय जय हंस दिवाकर । जय शम्भो महाबाहो खग गोचर भूधर ।।1.153.६० जय लोकप्रदीपेन जय भानो जगत्पते । जय काल जयानन्त संवत्सर शुभानन ।।६ १ जय देवादितेः पुत्र कश्यपानन्दवर्धन । तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ।।६२ महेश जय कान्तीश जय कालेश शङ्कर । अर्थकामेश धर्मेश जय मोक्षेश शर्मद ।।६३ जय वेदाङ्गरूपाय ग्रहरूपाय वै नमः । सत्याय सत्यरूपाय सुरूपाय शुभाय च ।।६४ क्रोधलोभविनाशाय कामनाशाय वै जय । कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ।।६५ विश्वाय विश्वरूपाय विश्वकर्माय वै जय । जयोङ्कार वषट्कार स्वाहाकार स्वधामय ।।६६ जयाश्वमेधरूपाय चाग्निरूपार्यमाय च । संसारार्णवपीताय मोक्षद्वारप्रदाय च ।।६७ संसारार्णवमग्नस्य मम देव जगत्पते । हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ।।६८ ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः । विरराम महाराज प्रणम्य शिरसा रविम् ।।६९ अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् । उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ।।1.153.७० विष्णुरुवाच नमामि देवदेवेशं भूतभावनमव्ययम् । दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ।।७१ इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् । त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् । ।७२ षण्मुखाय नमो नित्यं त्रिनेत्राय नमोनमः । चतुर्विंशतिपादाय नमो द्वादशपाणये
नमस्ते भूतपतये लोकानां पतये नमः । देवानां पतये नित्यं वर्णानां पतये नमः । ।७४ त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः । त्वं सोमस्त्वं तथादित्यस्त्वमोंकारक एव हि । । ७५ बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः । यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज । । ७६ त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् । त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् । । ७७ ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते । कल्पादौ तु पुरा देव स्थितये जगतोऽनघ । । ७८ नमस्ते वेदरूपाय अहोरूपाय वै नमः । नमस्ते ज्ञानरूपाय यज्ञाय च नमोनमः । ।७९ प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल । संसारार्णवमग्नानां प्रसादं कुरु गोपते । ।1.153.८० वेदान्ताय नमो नित्यं नमो यज्ञकलाय च । । सुमन्तुरुवाच स्तुत्वैवं भास्करं भक्त्या विष्णुर्भरतसत्तम । प्रदध्यौ नृपशार्दूल रविं तद्गतमानसः । ८१ एवं ते नरशार्दूल देवा ब्रह्मादयोऽनघ । स्तुवन्ति तं महात्मानं सहस्रकिरणं रविम् । । ८२ इत्येवं स्तुवतां तेषां रविं भक्त्या महात्मनाम् । अथ तुष्टो रविस्तेषां ब्रह्मदीनां जगत्पतिः । ८३ विज्ञाय भक्तिं परमां श्रद्धां च परमां विभुः । उवाच स महातेजाः प्रहृष्टेनान्तरात्मना ।८४ ग्रहेशो व्योम चारूढस्तेजसा प्रज्वलन्दिशः । ब्रह्माणं विष्णुमीशानमामन्त्र्यैतान्विशांपते । ।८५ दृष्ट्वा तान्प्रणतान्त्सर्वाञ्छिरोभिरवनिं गतान् । तुष्टोऽस्मि ते सुरज्येष्ठ चतुर्मुख जगत्पते । । वरं वरय भद्रं ते मनसा त्वं यदिच्छसि ।।८६ कृत्वा तु वचनं भानोर्ब्रह्मा लोकगुरुर्नृप । जगाम शिरसा भूमावुवाच स कृताञ्जलिः ।।८७ ब्रह्मोवाच कृतकृत्योऽस्मि देवेश पूतश्चास्मि खगाधिप । धन्योऽस्म्यनुगृहीतोऽस्मि गतोऽस्मि परमां गतिम् । ।८८ सहस्रकिरणैर्यन्मे भवान्दर्शनमागतः ।।८९ अपश्यतश्च देवेश मूढमासीन्मनो मम । भगवन्सम्प्रसीद त्वं ममोपरि विभावसो । ।1.153.९ ० प्रयच्छ त्वं बलं भक्तिमात्मनो मम गोपते । गत्वा शिरोभिरवनिमष्टाङ्गैः पतितस्य च । । भक्त्या विज्ञप्तिमाकर्ण्य प्रसादं कुरु गोपते । । ९१ ब्रह्मणो वचनं श्रुत्वा पूषा देवो जगत्पतिः । तथेत्याह महाराज विराट प्रश्रयान्वितम् । । ९२ ब्रह्मणे च वरं दत्त्वा राजन्देवो दिवाकरः । उवाच त्र्यम्बकं देवं शशाङ्ककृतशेखरम् । । ९३ वरं वरय भूतेश भूभृज्जादयितानघ । यमिच्छसि महादेव ददेऽहं तदशेषतः । । ९४ भास्करस्य वचः श्रुत्वा ईश्वरस्त्रिपुरान्तक । गत्वा तु शिरसा भूमौ प्रणम्योवाच भास्करम् । । ९५ महादेव उवाच पुण्योऽहं पुण्यकर्माहं नास्ति धन्यतरो मम । गतोऽहं परमां सिद्धिं गतश्च परमां गतिम् । । ९६ नाप्राप्यमस्ति देवेश नासाध्यं मम किंचन । यस्य मे भगवान्देवः प्रसादप्रवणः स्थितः । । ९७ त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् । त्वत्त एव समुत्पन्नं लयं च त्वयि यास्यति । । ९८ यदि तुष्टो मम विभो अनुग्राह्योऽस्मि ते यदि । अचलां देहि मे भक्तिमात्मनश्चरणं नय । । ९९ व्योमकेशवचः श्रुत्वा पूषा देवो दिवाकरः । तथेत्याह हरं वीर ततो हरिमुवाच । । 1.153.१०० नारायण महाबाहो वरं वरय गोधर । परितुष्टोऽस्मि ते देव यमिच्छसि महाबल । । १०१ श्रुत्वा तु भास्करवचः कीलालजनको हरिः । उवाच परया भक्त्या नत्वा च शिरसा रविम् । । १०२ नारायण उवाच जय देव जगन्नाथ जय देव गुरो रवे । प्रसीद मम देवेश भक्तिं यच्छात्मनो रवे । । १०३ येनाहं सर्वदेवानामुत्तमः स्यां जगत्पते । अजेयश्च तथा देव दैत्यदानवरक्षसाम् । । १०४ त्वद्भक्त्या बृंहितबलस्तेजसा महतान्वितः । ततो मया महत्कर्म कर्तव्यं तव शासनात् । । १०५ प्रजानां पालनं देव देवानां च ग्रहाधिप । वर्णानामाश्रमाणां च वर्णधर्मस्य वा विभो । । १०६ दुष्टदैत्यविनाशाय लोकानां पालनाय च । सृष्टोऽहं भवता पूर्वं कल्पादौ च कृतोऽनघ । । १०७ यस्य रुष्टो भवान्स्याद्वै कथञ्चित्पुरुषस्य तु । व्याधिर्दुःखं मनोरोगं दारिद्र्यं सन्ततिक्षयः । । १०८ तस्यैतानि भवन्तीह आधयो विविधास्तथा । तस्मात्त्वं च ततो देव संस्तव्यः सततं बुधैः । । १०९ एवं त्वां गोपते देव भक्त्या श्रद्धासमन्वितः । अहमर्चितुमिच्छामि तस्मान्मयि कृपां कुरु । । 1.153.११० इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यतेजोवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः
त्रयी-उपाख्यानवर्णनम् सुमन्तुरुवाच श्रुत्वा तु वचनं भानुर्विष्णोरमिततेजसः । उवाच कुरुशार्दूल आदित्यः कृपयान्वितः । । १ आदित्य उवाच कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः । यदर्थं प्रार्थितः कृष्ण तत्सर्वं ते भविष्यति । । २ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अजेयस्त्वं महाबाहो भविष्यसि न संशयः । । ३ जगत्पालयितुं सर्वं समर्थश्च भविष्यसि । अचला तव भक्तिश्च भविष्यति ममोपरि । ।४ ब्रह्मापि सततं शक्तो जगत्स्रष्टुं भविष्यति । संहर्तुं शङ्करश्चापि मत्प्रसादाद्भविष्यति । ।५ भवन्तो मत्प्रसादेन ज्ञानिनामुत्तमं पदम् । गमिष्यन्ति न सन्देहो मत्पूजाप्रसादतः । ।६ रवेर्वचनमाकर्ण्य गोश्रुताभरणो विभो । उवाच गोपतिर्गोगो गोपतिं गोवृषध्वजः । ।७ त्वामाराध्य भविष्यामो वयं सर्वे सुरोत्तमाः । कथमाराधयामो हि भवन्तं श्रद्धयान्विताः । । श्रेयसे सततं देव ब्रूहि नस्तत्त्वमात्मनः । ।८ भवतो हि न पश्यामो मूर्तिं परमपूजिताम् । पश्यामः केवलं तेजो ह्यब्धेस्तोयमिवोज्झितम् । । ९ ज्वालामालाकुलं सर्वमनेकाकृति चाद्भुतम् । न चाकारविहीनं तु चेतसो लम्बनं भवेत् । । 1.154.१० आलम्बनादृते देव न चित्तरमणं क्वचित् । चेतसोऽरमणे भक्तिर्न पुंसां जायते क्वचित् । । ११ भक्तिं विना पूजयितुं न शक्यन्ते दिवौकसः । त्वत्पूजने हि प्राप्यन्ते देव धर्मादयो नरैः । । १२ तस्माद्दर्शय तां मूर्तिमात्मनो या परा मता । येन त्वां पूजयित्वा तु वयं सिद्धा भवामहे । । १३ सूर्य उवाच साधु साधु महादेव साधु पृष्टोऽस्मि सुव्रत । शृणु चैकमनाः कृत्स्नं गदतो मम मानद । । १४ चतुर्मूर्तिरहं देव जगद्व्याप्य व्यवस्थितः । श्रेयसे सर्वलोकानामादिमध्यान्तकृत्सदा । । १५ एका मे राजसी मूर्तिर्ब्रह्मेति परिकीर्तिता । सृष्टिं करोति सा नित्यं कल्पादौ जगतां विभो । । १६ द्वितीया सात्त्विकी प्रोक्ता या परा परिकीर्तिता । जगत्सा पालयेन्नित्यं दुष्टदैत्यविनाशिनी । । १७ तृतीया तामसी ज्ञेया ईशेति षरिकीर्तिता । त्रैलोक्यं संहरेत्सा तु कल्पान्ते शूलपाणिनी । । १८ चतुर्थी तु गुणैर्हीना सत्यादिभिरनुत्तमा । सा चाशक्या क्वचिद्द्रष्टुं स्थिता सा चाभवत्सदा । । १९ तया ततमिदं सर्वं यच्चोद्गीथं तु मे गतिः । निष्कला सकला सा तु सुरूपा रूपवर्जिता । । 1.154.२० अन्तर्गता च लोकानां न च कर्मफलं गता । तिष्ठमानाप्यलिप्ता सा पद्मपत्रमिवाम्भसा । । २१ अनष्टा च सदा षड्भिः सप्तातीत्य व्यवस्थिता । चतुस्तना च सा षड्भ्यस्तुरीयाख्या सुपूजिता । । २२ न सा स्प्रष्टुं त्वया शक्या हरिणा ब्रह्मणा न च । मामनाराध्य भूतेश व्योमरूपं कदाचन । । २३ यदेतद्भवतां देव प्रबोधार्थमुपस्थितम् । अहंकारविमूढानां तमसा च त्रिलोचन । । २४ प्रकाशाय च लोकानां ज्वालामालासमाकुलम् । कर्णिकेव स्थितं देव भूपद्मस्याखिलस्य च । । २५ यस्य संदर्शनादेव यूयं सर्वे प्रबोधिताः । प्रकाशमभवद्वापि जगत्सर्वमथार्चिभिः । । २६ तस्मादाराधयस्वैनमस्पृष्टं गमनोपमम् । मन्मूर्तिं येन तां दिव्यां द्रक्ष्यसि त्वं त्रिलोचन । । २७ यत्त्वाद्यमीश्वरं जज्ञे तद्व्योम परिकीर्तितम् । कल्पान्ते ह्यत्र वै व्योम्नि लीयन्ते सर्वदेवताः । । २८ दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः । त्वं सदा कचदेशे तु लीयसे त्रिपुरान्तक । । २९ गायत्री लीयते तस्य हृदये लोकमातरः । लीयन्ते मूर्द्ध्नि वै वेदः सषडङ्गपदक्रमः । । 1.154.३० जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् । पुनरुत्पद्यते ह्यस्माद्ब्रह्माद्यं सचराचरम् । । ३१ आकाशं व्योम इत्याहुः पृथिवी निक्षुभा मता । भूतश्रेयोहऽमाकाशो निक्षुभा दयिता मम । । ३२ मया निक्षुभया सर्वं जगद्व्याप्तं त्रिलोचन । तस्मादाराधय व्योम त्वं ब्रह्मा केशवस्तथा । । ३३ तन्मे रूपं महद्व्योम पूजयित्वा त्रिलोचन । दिव्यं वर्षसहस्रं हि गिरौ त्वं गन्धमादने । । ततो यास्यसि संसिद्धिं षडङ्गां परमां शुभाम् । । ३४ कलापग्राममाश्रित्य शङ्खचक्रगदाधरः । आराधयतु मां भक्त्या व्योमरूपं जनार्दनः । । ३५ अन्तरिक्षगतं तीर्थं पुष्करं लोकपावनम् । तत्र गत्वा विरिञ्चो मे व्योमरूपं सदार्चतु । । ३६ एवं मां सततं यूयं समाराध्य जगत्पतिम् । समानां च सुदिव्यानां सहस्रत्रयमादरात् । । ३७ ततो द्रक्ष्यथ मे मूर्तिं परमां यां विदुर्बुधाः । कदम्बगोलकाकारां रश्मिमालाकुलां पराम् । । ३८ अथ नारायणो देवः प्रणम्य शिरसा रविम् । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । ३९ विष्णुरुवाच यदि ते परमं रूपं मतं व्योम ह्यनौपमम् । तमाराध्य वयं सर्वे यास्यामः सिद्धिमुत्तमाम् । ।1.154.४ ० कीदृग्व्योम त्वहं ब्रह्मा हरश्च त्रिपुरान्तकः । आराधयामहे देव भक्त्या श्रेयोऽर्थमात्मनः । ।४ १ येन सिद्धिं गमिष्यामस्तमाराध्य दिवाकरम् । तस्मान्नो लक्षणं ब्रूहि व्योम्नः परमपूजित । ।४२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रय्युपाख्याने चतुःपञ्चाशदधिकशततमोऽध्यायः । १
सौरधर्मनिरूपणम् आदित्य उवाच साधुसाधु सुरश्रेष्ठ साधु पृष्टोऽस्मि भूधर । शृणुष्वैकमनाः कृष्ण गदतो निखिलं मम । । १ आराधय त्वयं देवो मम रूपमनौपमम् । चतुष्कोणं परं व्योम अद्भुतं गैरिकोज्ज्वलम् । । २ त्वामाराध्य च चक्रांकं शंकरो वृत्तमादरात्
मध्याह्ने त्वं सदा देव भक्त्या मामर्चयस्व वै