नारदोपसङ्गमनवर्णनम् शतानीक उवाच कथं साम्बः प्रपन्नोऽर्कं केन वा प्रतिपादितः । उग्रं शापं च तं प्राप्य पितरं स किमुक्तवान् । । १ सुमन्तुरुवाच उक्तमेव पुरा वीर यथा शप्तः स यादवः । पित्रा साम्बो महाराज हरिणाम्बुजधारिणा । । २ अथ शापाभिभूतस्तु साम्बः पितरमब्रवीत् । १ विनयावनतो भूत्वा प्राञ्जलिः शिरसा गतः । । ३ किं मयापकृतं देव येन शप्तोस्म्यहं त्वया । अहं त्वदाज्ञया देव त्वरमाणोत्र आगतः । । ४ कस्मान्निपातितः शापो मयि तेऽनपकारिणि । न वै जानाम्यहं किञ्चित्प्रसीद जगतः पते । । ५ शापं नियच्छ मे देव प्रसादं कुरु मे प्रभो । कश्मलेनाभिभूतोऽहं येन मुच्येय किल्बिषात् । । ६ तमुवाच ततः कृष्णः साम्बं बुद्ध्वा ह्यनागसम् । नाहं पुत्र पुनः शक्तो रोगस्यास्य व्यपोहने । । ७ अस्यायं जगतो नाथो द्वादशात्मा दिवाकरः
सहस्ररश्मिरादित्यः शक्तः पुत्र व्यपोहितुम् । । ८ ज्ञातं मयाधुना चैव यथा त्वं नारदेन तु । रोषाद्विसर्जितः पुत्र मत्सकाशं महात्मना । । ९ तस्मात्तमेव पृच्छ त्वं प्रसाद्य ऋषिसत्तमम् । आख्यास्यति स ते देवं शापं यस्तेऽपनेष्यति । । 1.75.१० अथैतत्स पितुर्वाक्यं श्रुत्वा जाम्बवतीसुतः । दीनः १शोकपरीतात्मा ततः सञ्चिन्त्य भारत । । ११ द्वारवत्यां स्थितं विष्णुं कदाचिद्द्रष्टुमागतम् । विनयादुपसङ्गम्य साम्बः पप्रच्छ नारदम् । । १२ भगवन्वेधसः पुत्र सर्वलोकज्ञ सुव्रत । प्रसादं कुरु मे विप्र प्रणतस्य महामते । । १३ ये मे नीरुजं कायं कश्मलं च प्रणश्यति । तं योगं इहि मे विप्र प्रणतस्यास्य सुव्रत । । १४ नारद उवाच यः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च । पूजयित्वाशु तं देवं ततो व्याधिं प्रहास्यसि । । १५ साम्ब उवाच कः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च । कः सर्वगश्च सर्वत्र शरणं यं वज्राम्यहम् । । १६ पितृशापानलेनाहं दह्यमानो महामुने । शान्त्यर्थमस्य कं देवं शरणं च व्रजाम्यहम् । । १७ एतच्छ्रुत्वा तु साम्बस्य वचनं करुणावहम् । हित्वा तु ४कामजं वीर नारदो वाक्यमब्रवीत् । । १८ स्तुत्यो वन्द्यश्च पूज्यश्च नमस्य ईड्य एव च । भास्करो यदुशार्दूल ब्रह्मादीनां सदानघ । । १९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि साम्बोपाख्याने साम्बं प्रति कृष्णशापे साम्बस्य नारदोपसंगमनवर्णनं नाम पञ्चसप्ततितमोऽध्यायः
नारदसाम्बसंवादे सूर्यपरिवारवर्णनम् नारद उवाच कदाचित्पर्यटँल्लोकान्सूर्यलोकमहं गतः । तत्र दृष्टो मया सूर्यः सर्वदेवगणैर्वृतः । । १ गन्धर्वैरप्सरोभिश्च नागैर्यक्षैश्च राक्षसैः । तत्र गायन्ति गन्धर्वा नृत्यन्त्यप्सरसस्तथा । । २ रक्षन्त्युद्गतशस्त्रास्तं यक्षराक्षसपन्नगाः । ऋचो यजूंषि सामानि मूर्तिमन्तीह सर्वशः । । तत्कृतैर्विविधैः स्तोत्रैः स्तुवन्ति ऋषयो रविम् । । ३ मूर्तिमत्यः स्थितास्तत्र तिस्रः संध्याः शुभाननाः । गृहीतवज्रनाराचाः परिवार्य रविं स्थिताः । । ४ अरुणा वर्णतः पूर्वा मध्यमा चेन्दुसन्निभा । तृतीयाक्ष्माजसंकाशा १ संध्या चैव प्रकीर्तिता । । ५ आदित्या वसवो रुद्रा मरुतोथाश्विनौ तथा । त्रिसंध्यं पूजयन्त्यर्कं तथान्ये च दिवौकसः । । ६ ईरयञ्जयशब्दं तु इन्द्रस्तत्रैव तिष्ठति । कविस्तु त्र्यम्बको देवस्त्रिसंध्यं पूजयन्ति वै । । ७ २दिनादावम्बुजाकारं पूजयेदम्बुजासनम् । चक्ररूपं तु मध्याह्ने घृतार्चिः पूजयेत्सदा । । ८ पूजयेत्सगणं रात्रौ विपुलाज्यस्वरूपिणम् । रविं भक्त्या सदा देवं ३कंजार्धकृतशेखरः । । ९ सारथ्यं कुरुते तस्य पतगस्याग्रजः १ सदा । वहमानो रथं दिव्यं कालावयवनिर्मितम् । । 1.76.१० हरितैः सप्तभिर्युक्तं छन्दोभिर्वाजिरूपिभिः । । ११ द्वे भार्ये पार्श्वयोस्तस्य राज्ञीनिक्षुभसंज्ञिता । तथान्यैर्नामभिर्देवाः परिवार्य रविं स्थिताः । । १२ पिङ्गलो लेखकस्तत्र तथान्यो दण्डनायकः । २राजाश्रोषौ च द्वौ द्वारे स्थितौ कल्माषपक्षिणौ । । १३ ततो व्योम चतुःशृङ्गं मेरोः सदृशलक्षणम् । दिण्डिस्तथाग्रतस्तस्य दिक्षु चान्ये स्थिताः सुराः । । १४ एवं सर्वगमं देवं प्रदीप्तं जगति द्विज । ब्रह्माद्यैः संस्तुतं देवं गीर्वाणैर्ऋषभोत्तमम् । । ग्रहेशं भुवनेशानमादित्यं शरणं व्रज । । १५ साम्ब उवाच तत्त्वतः श्रोतुमिच्छामि कथं सर्वगतो रविः । । १६ कति वा रश्मयस्तस्य मूर्तयश्च कति स्मृताः । का राज्ञी निक्षुभा का च कश्चायं दण्डनायकः । । १७ पिङ्गलश्चापि कस्तत्र किं चासौ लिखते सदा । राजाश्रोषौ च कौ तत्र कौ च कल्माषपक्षिणौ । । १८ किं दैवत्यं च तद्व्योम मेरोः सदृशलक्षणम् । को दिण्डिरग्रतस्तत्र के देवा दिक्षु ये स्थिताः । । १९ तत्त्वतो निगमैश्चैव विस्तरेण वदस्व माम । येनाहं तत्त्वतो ज्ञात्वा व्रजामि शरणं द्विज । । 1.76.२० इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने नारदसाम्बसंवादे सूर्यपरिवारवर्णनं नाम षट्सप्ततितमोऽध्यायः
साम्बोपाख्याने सूर्यवर्णनम् नारद उवाच विस्तरेणानुपूर्व्या च सूर्यं निगदतः शृणु । ततः शेषान्प्रवक्ष्येऽहं नमस्कृत्य विवस्वते । । १ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः । । २ गन्धैर्वर्णै रसैर्हीनं शब्दस्पर्शविवर्जितम् । जगद्योनिं महद्भूतं परं ब्रह्मा सनातनम् । । ३ निग्रहं सर्वभूतानामव्यक्तमभवत्किल । अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । । ४ अनाकारमविज्ञेयं तमाहुः पुरुषं परम् । तस्यात्मना सर्वमिदं जगद्व्याप्तं महात्मनः । । ५ तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा । धर्मेश्वर्यकृता बुद्धिर्ब्राह्मी तस्याभिमानिनः । । ६ अव्यक्ताज्जायते तस्य मनसा यद्यदिच्छति । चतुर्मुखस्य ब्रह्मत्वे कालत्वे चान्तकृद्भवेत् । । ७ सहस्रमूर्धा पुरुषस्तिस्रोवस्थाः स्वयम्भुवः । सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः । । ८ सात्त्विकं पुरुषत्वे च गुणवृत्तं स्वयंभुवः । ब्रह्मत्वे सृजते लोकान्कालत्वे चापि संक्षिपेत् । । ९ पुरुषत्वे उदासीनस्तिस्रोऽवस्थाः प्रजापतेः । त्रिधा विभज्य चात्मानं त्रिकालं सम्प्रवर्तते । । 1.77.१० सृजते ग्रसते चैव वीक्षते च त्रिभिः स्वयम् । अग्रे हिरण्यगर्भस्तु प्रादुर्भूतः स्वयम्भुवः । । ११ आदित्यस्यादिदेवत्वादजातत्वादजः स्मृतः । देवेषु स महान्देवो महादेवः स्मृतस्ततः । । १२ सर्वेशत्वाच्च लोकस्य अधीशत्वाच्च ईश्वरः । बृहत्त्वाच्च स्मृतो ब्रह्मा भवत्वाद्भव उच्यते । । १३ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरतः स्मृतः । पुरे शेते च वै यस्मात्तस्मात्पुरुष उच्यते । । १४ नोत्पाद्यत्वादपूर्वत्वात्स्वयंभूरिति विश्रुतः । । १५ हिरण्याण्डगतो यस्माद्ग्रहेशो वै दिवस्पतिः । तस्माद्धिरण्यगर्भोऽसौ देवदेवो दिवाकरः । । १६ आपो नारा इति प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः । अयनं तस्य ता आपस्तेन नारायणः स्मृतः । । १७ अर इत्येष शीघ्रार्थो निपातः कविभिः स्मृतः । आप एवार्णवा भूत्वा न शीघ्रास्तेन ता नराः
१८ एकार्णवे पुरा तस्मिन्नष्टे स्थावरजङ्गमे । नारायणाख्यः पुरुषः सुष्वाप सलिले तदा । । सहस्रशीर्षा ३सुमनाः सहस्राक्षः सहस्रपात् । । १९ सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीपथे यः पुरुषो४ निगद्यते । आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एकः पुरुषः पुराणः । । 1.77.२० हिरण्यगर्भः पुरुषो महात्मा सम्पद्यते वै तमसा परस्तात् । । २१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः
सूर्यमहिमावर्णनम् नारद उवाच तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् । । १ सलिलेनाप्लुतां भूमि दृष्ट्वा कार्यं विचिन्त्य सः । भूत्वा स तु वराहो वै अपः संविशते प्रभुः । । २ सञ्चित्यैवं स देवेशो भूमेरुद्धरणे क्षमः । महीं महार्णवे मग्नामुद्धर्तुमुपचक्रमे । । ३ उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विधार्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयो १जपन्ति । । ४ उद्धृत्योर्वीं स सलिलात्प्रजासर्गमकल्पयत् । मनसा जनयामास पुत्रानात्मसमाञ्छुभान् । । ५ भृग्वङ्गिरसमत्रिं च पुलस्त्यं पुलहं कतुम् । मरीचिमथ दक्षं च वशिष्ठं नवमं तथा । । ६ नव प्रजापतीन्सृष्ट्वा ततः स पुरुषोत्तमः । प्रादुर्भूतोऽदितेः पुत्रः प्रजानां हितकाम्यया । । ७ मरीचात्कश्यपं २पुत्रं यं वेधा जनयज्जले । प्रजापतीनां दशमं तेजसा ब्रह्मणः समम् । । ८ वृक्षकन्याऽदितिर्नाम्ना पत्नी सा कश्यपस्य तु । अण्डं सा जनयामास भूर्भुवःस्वस्त्रिसंयुतम् । । ९ तत्रोत्पन्नः सहस्रांशुर्द्वादशात्मा दिवाकरः । नवयोजनसाहस्रो विस्तारोऽस्य महात्मनः । । विस्तारास्त्रिगुणश्चास्य परिणाहो विभावसोः । । 1.78.१० यथापुण्यं कदम्बस्य समन्तात्केशरैर्वृतम् । तथैव तेजसां गोलं समन्ताद्रश्मिभिर्वृतम् । । ११ सहस्रशीर्षा पुरुषो ब्राह्म योगमुदाहरन् । तैजसस्य च गोलस्य स तु मध्ये व्यवस्थितः । । १२ आदत्ते स तु रश्मीनां सहस्रेण समन्ततः । अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च । । १३ सौरी प्रभा या देवस्य अस्तं याते दिवाकरे । अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च । । विधुऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसभ्भवाः । । ३६ रवेः करसहस्रं यत्प्राङ्मया समुदाहृतम् । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहसंज्ञिताः । । ३७ सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च । सूर्यश्चैवापरो रश्मिर्नाम्ना विष्णुरिति२ स्मृतः । । ३८ ससत्त्वः सर्वबन्धुस्तु जीवायति च वै जगत् । सप्तजः प्रथमस्तत्र कञ्जजश्च तथा परः । । ३९ तारेयश्चापरस्तत्र गुरुः सुमनसां तथा । उग्राह्वः पञ्चमस्तेषां पुत्रोऽन्यो वनमालिनः । । कः शेषः सप्तमस्तेषामेते वै सप्त रश्मयः । । 1.78.४० आदित्यमूलमखिलं त्रैलोक्यं सचराचरम् । भवत्यस्माज्जगत्सर्वं स देवासुरमानुषम् । । ४१ रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्र त्रिदिवौकसाम् । महद्युतिमतः कृत्स्नं तेजो यत्सार्वलौकिकम् । । ४२ सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् । । ४३ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ४४ सूर्यात्प्रसूयते सर्वं तस्मिन्नेव प्रलीयते । भावाभावौ तु लोकानामादित्यान्निःसृतौ पुरा । । ४५ एतत्तु ध्यानिनां ध्यानं मोक्षश्चाप्येव मोक्षिणाम् । अत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात्पुनः प्रजाः । । ४६ क्षणा मुहूर्ता दिवसा निशाः पक्षास्तु नित्यशः । मासाः सम्वत्सराश्चैव ऋतवोऽथ युगानि च । । अथादित्यमृते ह्येषां कालसंख्या न विद्यते । । ४७ कालादृते न नियमा नाग्नेर्विहरणक्रिया । ऋतू नामविभागाच्च पुष्पमूलफलं कुतः । । ४८ अभावो व्यवहाराणां जन्तूनां दिवि चेह च । जगत्प्रतापनमृते भास्करं वारितस्करम् । । ४९ नावृष्ट्या तपते सूर्यो नावृष्ट्या परिवेष्यते । आदित्यस्य च नामानि सामान्यानीह द्वादश । । 1.78.५० द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यनेकशः । आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः । । ५१ मार्तंडो भास्करो भानुश्चित्रभानुर्दिवाकरः । रविर्वै द्वादशश्चैव ज्ञेयः सामान्यनामभिः । । ५२ विष्णुर्धाता भगः पूषा मित्रेन्द्रो वरुणोऽर्यमा । विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादश स्मृताः । । ५३ इत्येते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः । उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् । । ५४ विष्णुस्तपति चैत्रे च वैशाखे चार्यमा तथा । विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा । । ५५ पर्जन्यः श्रावणे मासि वरुणः प्रोष्ठसंज्ञके । इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके । । ५६ मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने । । ५७ तैश्च द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा । दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा । । ५८ द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः । विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव । । ५९ इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः । मित्रवद्भगवत्त्वष्टा सहस्रेण शतेन च । । 1.78.६० उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा । दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । । ६१ एवं रश्मिसहस्रं तु सौर्यं लोकार्थसाधकम् । भिद्यते ऋतुमासैस्तु सहस्रं बहुधा १भृशम् । । ६२ एवं नाम्नां चतुर्विंशदेकस्यैषा प्रकीर्तिता । विस्तरेण सहस्रं तु पुनरेवं प्रकीर्तितम् । । ६३ आसां परमयत्नेन ब्रुवते भिन्नदर्शनाः । तामसा बुद्धिमोहाच्च दृष्टान्तानि ब्रुवन्ति हि । । ६४ ब्रह्माणं कारणं केचित्केचिदाहुर्दिवाकरम् । केचिद्भवं परत्वेन आहुर्विष्णुं तथापरे । । ६५ कारणं तु स्मृता ह्येते नानार्थेषु सुरोत्तमाः । एकः स तु पृथक्त्वेन स्वयंभूरिति विश्रुतः । । ६६ वनमालिनमुग्रेशं दिवि चक्षुरिवान्तकम् । तं स्वयंभूरिति प्रोक्तं स सोपर्णिमनौपमम् । । ६७ यथानुरज्यते वर्णेर्विविधैः स्फाटिको मणिः । तथा गुणवशात्तस्य स्वयंभोरनुरञ्जनम् । । ६८ एको भूत्वा यथा मेघः पृथक्त्वेन प्रतिष्ठितः । वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ६९ नभसः पतितं तोयं याति स्वादान्तरं यथा । भूमे रसविशेषेण तथा गुणवशात्तु सः । । 1.78.७० यथेन्धनवशादग्निरेकस्तु बहुधायते । वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ७१ यथा द्रव्यविशेषाच्च वायुरेकः पृथग्भवेत् । सुगन्धिः पूतिगन्धिर्वा तथा गुणवशात्तु सः । । ७२ यथा वा गार्हपत्योग्निरन्यत्संज्ञान्तरं व्रजेत् । दक्षिणाहवनीयादिब्रह्मादिषु तथा ह्यसौ । । ७३ एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् । तस्माद्भक्तिः सदा कार्या देवे ह्यस्मिन्दिवाकरे । । ७४ एषोऽण्डजोऽधिगश्चैव एष एव भृगुस्तथा । एष रजस्तमश्चैव एष सत्त्वगुणस्तथा । । ७५ एष वेदाश्च यज्ञाश्च सर्वश्चैव न संशयः । सूर्यव्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् । । ७६ १इज्यते पूज्यते चासावत्र यानात्मको रविः । सर्वत्र सविता देवस्तनुभिर्नामभिश्च सः । । ७७ वसत्यग्नौ तथा वाते व्योम्नि तोये तथा विभो । एवंविधो ह्ययं सूर्यः सदा पूज्यो विजानता । । ७८ आदित्यं वेत्ति यस्त्वेवं स तस्मिन्नेव लीयते । अप्येकं वेत्ति यो नाम धात्वर्थनिगमै रवेः । । ७९ स रोगैर्वर्जितः सर्वैः सद्यः पापात्प्रमुच्यते । न हि पापकृतः साम्ब भक्तिर्भवति भास्करे । । 1.78.८० तथा त्वं परया भक्त्या प्रपद्यस्व दिवाकरम् । येन व्याधिविनिर्मुक्तः सर्वान्कामानवाप्स्यसि । । ८१ यथा तव पिता साम्ब यथा वेधा यथा हरः । यथा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम् । । ८२ एकीभूय यथा मेघः पृथक्त्वेन प्रतिष्ठते । वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ८३ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यमहिमवर्णनं नामाष्टसप्ततितमोऽध्यायः
आदित्यमहिमवर्णनम् सुमन्तुरुवाच एतच्छ्रुत्वा तु कार्त्स्न्येन हृष्टो जाम्बवतीसुतः । जातकौतूहलो भूयः परिपप्रच्छ नारदम्
१ साम्ब उवाच अहो सूर्यस्य माहात्म्यं वर्णितं हर्षवर्धनम् । येन मे भक्तिरुत्पन्ना परा ह्यस्मिन्विभावसौ । । २ ततो राज्ञीं महाभागां निक्षुभां च महामुने । दिण्डिनं पिङ्गलादींश्च सर्वान्कथय मे मुने । । ३ नारद उवाच प्रागुक्तेऽर्कस्य द्वे भार्ये राज्ञी निक्षुभसंज्ञिते । तयोर्हि राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता । ।४ सौम्यमासस्य२ सप्तम्यां द्यावार्कः सह युज्यते । माघकृष्णस्य सप्तम्यां मह्या सह भवेद्रविः । । भूरादित्यश्च भगवान्गच्छतः सङ्गमं तथा । । ५ ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् । द्यौर्जलं सूयते गर्भं वर्षास्विह च भूतले । । ६ ततस्त्रैलोक्यभूत्यर्थं३ मही सस्यानि सूयते । सस्योपयोगसंहृष्टा जुह्वत्याहुतयो द्विजाः । । ७ स्वाहाकारस्वधाकारैर्यजन्ति पितृदेवताः । । ८ निक्षुभा सूयते यस्मादन्नौषधिसुधामृतैः । मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता । । ९ यथा राज्ञी द्विधा भूता यस्य चेयं सुता मता । अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः । । 1.79.१० मरीचिर्ब्रह्मणः पुत्रो मरीचेः कश्यपः सुतः । तस्माद्धिरण्यकशिषुः प्रह्लादस्तस्य चात्मजः । । ११ प्रह्लादस्य सुतो नाम्ना विरोचन इति श्रुतः । विरोचनस्य भगिनी संज्ञाया जननी शुभा । । १२ हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता । सा विश्वकर्मणः पुत्री प्राह्लादी प्रोच्यते बुधैः । । १३ अथ नाम्ना सुरूपेति मरीचेर्दुहिता शुभा । पुत्री ह्यङ्गिरसः सा तु जननी तु बृहस्पतेः । । १४ बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी । प्रभासस्य तु सा पत्नी वसूनामष्टमस्य तु । । १५ प्रसूता विश्वकर्माणं सर्वशिल्पकरं वरम् । स वै नाम्रा पुनस्त्वष्टा त्रिदशानां च वार्धकिः । । १६ देवाचार्यश्च तस्येयं दुहिता विश्वकर्मणः । सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी । । १७ राज्ञी संज्ञा च द्यौस्त्वाष्ट्री प्रभा सैव विभाव्यते । तस्यात्तु या तनुच्छाया निक्षुभा सा महीमयी । । १८ सा१ तु भार्या भगवतो मार्तण्डस्य महात्मनः । साध्वी पतिव्रता देवी रूपयौवनशालिनी । । १९ न तु तां नररूपेण सूर्यो भजति वै पुरा । आदित्यस्येह तद्रूपं महता स्वेन तेजसा । । 1.79.२० गात्रेष्वप्रतिरूपेषु नातिकान्तमिवाभवत् । अनिष्पत्रेषु गात्रेषु गोलं दृष्ट्वा पितामहः । । २१ मार्तस्त्वं भव चाण्डस्तु मार्तण्डस्तेन स स्मृतः । देवानां च यतस्त्वादिस्तेनादित्य इति स्मृतः । । २२ अतः परं प्रवक्ष्यामि प्रजास्तस्य महात्मनः । त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । । २३ वर्षाणां तु सहस्रं वै वसमाना पितुर्गृहे । भर्तुः समीपं याहीति पित्रोक्ता सा पुनःपुनः । । २४ अगच्छद्वडवा भूत्वा त्यक्त्वा रूपं यशस्विनी । उत्तरांश्च कुरून्गत्वा तृणान्यनुचचार ह । । २५ पितुः समीपं या भार्या संज्ञा या वचनेन सा । संज्ञाया धारयद्रूपं छाया सूर्यमुपस्थिता । । २६ द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् । आदित्यो जनयामास पुत्रौ कन्यां च रूपिणीम् । । २७ पूर्वजस्य मनोस्तुल्यौ सादृश्येन च तावुभौ । श्रुतश्रवाश्च धर्मज्ञः श्रुतकर्मा तथैव च । । २८ श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्यो भविष्यति । श्रुतकर्मा तु विज्ञेयो ग्रहो यो वै शनैश्चरः । । २९ कन्या च तपती नाम रूपेणाप्रतिरूपिणी । संज्ञा तु पार्थिवी तेषामात्मजानां यथाकरोत् । । 1.79.३० न स्नेहं पूर्वजानां तु तथा कृतवती तु सा । मनुस्तु क्षमते तस्या यमस्तस्या न चक्षमे । । ३१ बहुशो यात्यमानस्तु पितुः पत्न्या सुदुःखितः । स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । । ३२ पदा सन्तर्जयामास संज्ञां वैवस्वतो यमः । तं शशाप ततः क्रोधात्संज्ञा सा पार्थिवी भृशम् । । ३३ पदा तर्जयसे यन्मां पितुर्भार्यां गरीयसीम् । तस्मात्तवैष चरणः पतिष्यति न संशयः । । ३४ यमस्तु तेन शापेन भृशं पीडितमानसः । मनुना सह तन्मातुः पितुः सर्वं न्यवेदयत् । । ३५ स्नेहेन तुल्यमस्मासु माता देव न वर्तते । निःस्नेहाञ्ज्यायसो ह्यस्मात्कनीयां सं बुभूषति । । ३६ तस्या मयोद्यतः पादो न तु देव निपातितः । बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति । । ३७ शप्तोऽहमस्मिंल्लोकेश जनन्या तपतां वर । तव प्रसादाच्चरणस्त्रायतां महतो भयात् । । ३८ रविरुवाच असंशयं महत्पुत्र भविष्यत्यत्र कारणम् । येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशालिनम् । । ३९ सर्वेषामेव शापानां प्रतिघातस्तु विद्यते । न तु मात्राभिशप्तानां क्वचिन्मोक्षो भवेदिह । । 1.79.४० न शक्यमेतन्मिथ्या मे कर्तुं मातुर्वचस्तव । किञ्चित्तेऽहं विधास्यामि पितृस्नेहादनुग्रहम् । ।४ १ कृमयो मांसमादाय यास्यन्ति तु महीतले । कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि । ।४ २ सुमन्तुरुवाच आदित्यस्त्वब्रवीच्छायां किमर्थं तनयावुभौ । तुल्येष्वभ्यधिकः स्नेह एकत्र क्रियते त्वया । । ४३ सा१ तत्पुराभवं तस्मै नाचचक्षे विवस्वते । आत्मानं स समाधाय वक्तुं तस्यामपश्यत् । ।४४ तां शप्तुकामो भगवानुद्यतः कुपितस्ततः । ततश्छाया यथावृत्तमाचचक्षे विवस्वते । । ४५ विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमागतः । सा चापि तं यथान्यायमर्चयित्वा दिवाकरम् । । निर्दग्धुकामं रोषेण सान्त्वयामास तं शनैः ।।४६ विश्वकर्मोवाच तवातितेजसाविष्टमिदं रूपं सुदुःसहम् । असहन्ती तु संज्ञा च वने चरति शाद्वले ।।४७ द्रक्ष्यते तां भवानद्य स्वां मायां शुभचारिणीम् । रूपार्थं भवतोरण्ये चरन्तीं सुमहत्तपः ।।४८ रूपं ते ब्रह्मणो वाक्याद्यदि वै रोचते विभो । प्रशातयामि देवेन्द्र श्रेयोऽर्थं जगतः प्रभो ।।४९ सन्तुष्टस्तस्य तद्वाक्यं बहु मेने महातपाः । ततोऽन्वजानात्त्वष्टारं रूपनिर्वर्तनाय तु ।।1.79.५० विश्वकर्मा ह्यनुज्ञातः शाकद्वीपे विवस्वतः । भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।।५ १ आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । लेखनं नाभ्यनन्दत्तु ततस्तेन निवारितः ।।५२ तत्र तद्भासितं रूपं तेजसा प्रकृतेन तु । कान्तात्कान्ततरं भूत्वा अधिकं शुशुभे ततः ।।५३ ददर्श योगमास्थाय स्वां भार्यां वडवां तथा । अदृश्यां सर्वभूतानां तेजसा स्वेन संवृताम् ।।५४ अश्वरूपेण मार्तण्डस्तां मुखेन समासदत् । मैथुनाय विचेष्टन्तो परपुंसो विशङ्कया ।।५५ सा तं विवस्वतः शुक्रं नासाभ्यां समधारयत् । देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।।५६ नासत्यश्चैव दस्रश्च तौ स्मृतौ नामतोऽश्विनौ । अतः परं स्वकं रूपं दर्शयामास भास्करः ५७ ततस्तु जनयामास संज्ञा सूर्यसुतं शुभम् । रूपेण चात्मनस्तुल्यं रेवतं नाम नामतः । । ५८ पिर्तुगृह्याष्टमं सोऽश्वं जातमात्रः पलायत । स तस्मिन्त्सकृदारूढस्तमश्वं नैव मुञ्जति । । ५९ ततोऽर्केण समादिष्टौ दण्डनायकपिङ्गलौ । अश्वं प्रत्यानयेथां मे मा बलाच्छिद्रतोऽस्य तु । । 1.79.६० पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकाञ्क्षिणौ । न च्छिद्रं तु लभेते तौ तस्याद्यापि महात्मनः । । ६१ प्लवन्गच्छत्यसौ यस्मात्संज्ञायाः शान्तिदः सुतः । रेवृस्तु च गतौ धातू रेवन्तस्तेन स स्मृतः । । ६२ मनुर्यमो यमी चैव सावर्णिः स शनैश्चरः । तपती चाश्विनौ चैव रेवन्तश्च रवेः सुताः । । ६३ एवमेषा पुरा संज्ञा द्वितीया पार्थिवी स्मृता । या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा । । ६४ राजृदीप्तौ स्मृतो धातू राजा राजति यत्सदा । अधिकः सर्वभूतेभ्यो राजते च दिवाकरः । । ६५ अधिकं राजते यस्मात्तस्माद्राजा स उच्यते । राज्ञः पत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता । । ६६ क्षुभ सञ्चलने धातुर्निश्चला तेन निक्षुभा । भवन्तीत्यथ वा यस्मात्स्वर्गीयाः १ क्षुद्विवर्जिताः । । छायां तां विशते दिव्यां स्मृता सा तेन निक्षुभा । । ६७ दृष्ट्वा जनं सदा तात भृशं पीडितमानसम् । धर्मेण रञ्जयामास धर्मराजस्ततः स्मृतः । । ६८ शुद्धेन कर्मणा तात शुभेन परमद्युतिः । पितॄणामाधिपत्यं च लोकपालत्वमाप च । । ६९ साम्प्रतं वर्तते योऽयं मनुर्लोके महामते । यस्यान्ववाये जातस्तु शङ्खचक्रगदाधरः । । 1.79.७० यमस्य भगिनी या तु यमी कन्या यशस्विनी । साभवत्सरितां श्रेष्ठा यमुना लोकपावनी । । ७१ मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः । भविष्यन्स मनुस्तात अष्टमः परिकीर्तितः । । ७२ मेरुपृष्ठे तपो दिव्यमद्यापि चरते प्रभुः । भ्राता शनैभ्ररस्तस्य ग्रहत्वं स तु लब्धवान् । । ७३ तपती नाम या नाम्ना तयोः कन्या गरीयसी । सा बभूव शुभा पत्नी राज्ञः संवरणस्य तु । । ७४ तापी नाम नदी चेयं विन्ध्यमूलाद्विनिःसृता । नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी । । ७५ सौम्यया सङ्गता सा तु सर्वपापभयापहा । वैवस्वती यथा वीर सङ्गता १शिवकान्तया । । ७६ अश्विनौ देववैद्यत्वं लब्धवन्तौ यदूत्तम । तयोः कर्मोपजीवन्ति लोकेस्मिन्भिषजः सदा । । ७७ रेवन्तो नाम योऽर्कस्य रूपेणार्कसमः सुतः । २अश्वानामाधिपत्ये तु योजितः स तु भानुना । । ७८ क्षेमेण गच्छतेऽध्वानं यस्तं पूजयते पथि । सुखप्रसाद्यो मर्त्यानां सदा यदुकुलोद्वह । । ७९ त्वष्टापि तेजसा तेन मार्तण्डस्यैव चाज्ञया । भोजानुत्पादयामास पूजायै सत्य सुव्रत । । 1.79.८० य इदं जन्म देवस्य शृणुयाद्वा पठेत वा । विवस्वतो हि पुत्राणां सर्वेषाममितौजसाम् । । ८१ सर्वपापविनिर्मुक्तो याति सूर्यसलोकताम् । इह राजा भवत्येव पुनरेत्य न संशयः । । ८२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः
आदित्यमहिमावर्णनम् सुमन्तुरुवाच इत्थं श्रुत्वा कथां दिव्यां हेलिमाहात्म्यमाश्रिताम् । साम्बः पप्रच्छ भूयोऽपि नारदं मुनिसत्तमम् । । १ साम्ब उवाच सूर्यपूजाफलं यच्च यच्च दानफलं महत् । प्रणिपाते फलं यच्च गीतवाद्ये च यत् फलम् । । २ भास्करस्य द्विजश्रेष्ठ तन्मे ब्रूहि समन्ततः । येन सम्पूजयाम्येष भानुं देवैः१ सदार्चितम् । ३ नारद उवाच इममर्थं पुरा पृष्टो ब्रह्मा लोकपितामहः । दिण्डिना यदुशार्दूल शृणुष्वैकाग्रमानसः । । ४ सुखासीनं तथा देवं सुरज्येष्ठं पितामहम् । प्रणम्य शिरसा दिण्डिरिदं वचनमब्रवीत् । । ५ दिण्डिरुवाच सूर्यपूजाफलं ब्रूहि ब्रूहि दानफलं तथा । प्रणामे यत्फलं देव यच्चोक्तं तौर्यकत्रये । । ६ इतिहासपुराणाभ्यां कारिते श्रवणे तथा । पुरतो देवदेवस्य यत्फलं स्यात्तदुच्यताम् । । ७ मार्जने लेपने यच्च देवदेवस्य मन्दिरे । भास्करस्य कृते ब्रूहि मम लोकपितामह । । ८ ब्रह्मोवाच स्तुतिजप्योपहारेण पूजया न नरो रवेः । उपवासेन षष्ठ्यां च सर्वपापः प्रमुच्यते । । ९ प्रणिधाय शिरो भूमौ नमस्कारपरो रवेः । तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । । 1.80.१० भक्तियुक्तो नरो यस्तु रवेः कुर्यात्प्रदक्षिणाम् । प्रदक्षिणी कृता तेन सप्तद्वीपा १भवेन्मही । । ११ सूर्यलोकं व्रजेच्चापि इह रोगैश्च मुच्यते । उपानहौ परित्यज्य अन्यथा नरकं व्रजेत् । । १२ सोपानत्को नरो यस्तु आरोहेत्सूर्यमन्दिरम् । स याति नरकं घोरमसिपत्रवनं विभो । । १३ सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् । प्रदक्षिणी कृतास्तेन सर्वे देवा भवन्ति हि । । १४ परितुष्टाश्च ते सर्वे प्रयच्छन्ति गतिं शुभाम् । सर्वे देवा महाबाहो ह्यभीष्टं तु परन्तप । । १५ एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् । सप्तम्यां वा महाबाहो सूर्यलोकं स गच्छति । । १६ अहोरात्रोपवासी स पूजयेद्यस्तु भास्करम् । सप्तम्यां वाथ षष्ठ्यां वा स गच्छेत्परमां गतिम् । । १७ कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः । सर्वरक्तोपहारेण पूजयेद्यस्तु भास्करम् । । १८ पङ्कजैः करवीरैर्वा कुङ्कमोदकचन्दनैः । मोदकैश्च गणश्रेष्ठ सूर्यलोकं स गच्छति । । १९ शुक्लपक्षस्य सप्तम्यामुपवासरतः सदा । सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् । । 1.80.२० जातीमुद्गरकैश्चैव श्वेतोत्पलकदम्बकैः । पायसेन १तथा देवं सवज्रेणार्चयेद्रविम् । । २१ सर्वपापविशुद्धात्मा विधुः कान्त्या न संशयः । हंसयुक्तेन यानेन हंसलोकमवाप्नुते । । २२ दिण्डिरुवाच ब्रूहि मे विस्तराद्देव सप्तमीकल्पमुत्तमम् । उपोष्य सप्तमीं येन गमिष्ये शरणं रवेः । । २३ ब्रह्मोवाच साधु पृष्टोऽस्मि भवता सप्तमीकल्पमुत्तमम् । यथा सहस्रकिरणः पुरा पृष्टोऽरुणेन वै । । २४ कथिताः सप्त सप्तम्यो भानुना श्रेयसे नृणाम् । अरुणस्य गणश्रेष्ठ पृच्छतः कारणान्तरे । । २५ कस्यचित्त्वथ कालस्य देवदेवं दिवाकरम् । ध्यानमाश्रित्य तिष्ठन्तमरुणो वाक्यमब्रवीत् । । २६ किमर्थं देवदेवश ध्यानमाश्रित्य तिष्ठसि । दिनं न याति देवेश कारणं मम कथ्यताम् । । २७ कुरु चङ्क्रमणं देव वहमानो दिवस्पते । इत्येवं भगवान्पृष्ट इदं वचनमब्रवीत् । । २८ शृणु त्वं द्विजशार्दूल यदर्थं ध्यानमाश्रितः । अर्वावसुर्द्विजश्रेष्ठः स चापुत्रः खगोत्तम । । २९ आराधयति मां नित्यं गन्धपुष्पोपहारकैः । पुत्रकामः खगश्रेष्ठ न च जानात्ययं यथा । । 1.80.३० पुत्रदोऽहं भवे येन विधिना पूजितः खग । श्रूयतां च विधिः सर्वे येन प्रीतो भवे नृणाम् । । ३१ सप्तमीकल्पसंज्ञो वै विधीनामुत्तमो विधिः । यस्तु मां पूजयेन्नित्यं तस्य पुत्रान्ददाम्यहम् ।। ३२ गृह्णीष्व सप्तमीकल्पं गत्वा ब्रूहि द्विजोत्तमम् । येनाहं बहुपुत्रत्वं दद्यां तस्य तथा खग । । ३३ श्रुत्वा भानोः क्षणादेव जगाम स खगोत्तमः । कथयामास तत्सर्वं भानोर्वचनमादितः । । ३४ ब्राह्मणस्य खगश्रेष्ठ स च श्रुत्वा द्विजोत्तमः । चकार सप्तमीकल्पं यथाख्यातं खगेन तु । । ३५ ऋद्धिं वृद्धिं तथारोग्यं प्राप्य पुत्रांश्च पुष्कलान् । गतोऽसौ सूर्यलोकं च तेजसा तत्समोभवत् । । ३६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः
विजयासप्तमीवर्णनम् ब्रह्मोवाच जया च विजया चैव जयन्ती चापराजिता । महाजवा च नन्दा च भद्रा चान्या प्रकीर्तिता । । १ शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि । सप्तमी विजया नाम तत्र दत्तं महाफलम् । । २ स्नानं दान तथा होमं उपवासस्तथैव च। सर्वं विजयसप्तम्यां महापातकनाशनम् । । ३ पञ्चम्यामेकभक्तं स्यात्पष्ठ्यां नक्तं प्रचक्षते । उपवासस्तु सप्तम्यामष्टम्यां पारणं भवेत् । । ४ केचिद्देवमुशन्त्येव नेति चान्ये गणाधिप । अभिप्रेतस्तु मे १ षष्ठ्यामुपवासो गणोत्तम । । ५ चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् । उपवासस्तु षष्ठ्यां स्यात्सप्तम्यां पारणं भवेत् । १६ उपवासपरः षष्ठ्यामब्देशं पूजयेद्बुधः । गन्धपुष्पोपहारैश्च भक्त्या श्रद्धासमन्वितः । । ७ प्रकल्प्य पूजां भूमौ तु देवस्य पुरतः स्वपेत् । जपमानस्तु२ गायत्रीं सौरसूक्तमथापि वा । । ८ अक्षरं वा महाश्वेतं षडक्षरमथापि वा । विबुद्धस्त्वथ सप्तम्यां कृत्वा स्नानं गणाधिप । । ९ ग्रहेशं पूजयित्वा तु होमं कृत्वा विधानतः । ब्राह्मणान्भोजयेद्भक्त्या शक्त्या च गणनायक । । 1.81.१ ० शाल्योदनमपूपाश्च खण्डवेष्टांश्च शक्तितः । सघृतं पायसं दद्यात्तथा विप्रेषु शक्तितः । । ११ दत्त्वा च दक्षिणा भक्त्या १ ततो विप्रान्विसर्जयेत् । इत्येषा कथिता देव पुण्या विजयसप्तमी । १२ यामुपोष्य नरो गच्छेत्पदं वैरोचनं परम् । करवीराणि रक्तानि कुङ्कुमं च विलेपनम् । । १३ विजयं धूपमस्यां तु भानोस्तुष्टिकराणि वै । एषा पुण्या पापहरा महापातकनाशिनी । । १४ अत्र दत्तं हुतं चापि क्षीयते न गणाधिप । स्नानं दानं तथा होमः पितृदेवाभिपूजनम् । । १५ सर्वं विजयसप्तम्यां महापातकनाशनम् । आदित्यवारेण युता स्मृता विजयसप्तमी ।१६ इत्येषा कथिता वीर सर्वकामप्रदायिनी । धन्यं यशस्यमायुष्यं कीर्तितं श्रवणं तथा । । १७ स्मरणं तु तथास्यां तु पुण्यदं त्रिपुरान्तक । । १८ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे विजयसप्तमीवर्णनं नामैकाशीतितमोऽध्यायः
नन्दवर्णनम् दिण्डिरुवाच ये त्वादित्यदिने ब्रह्मन्पूजयन्ति दिवाकरम् । स्नानदानादिकं तेषां किं फलं स्याद्ब्रवीतु मे।।१ पुण्या सा सप्तमी प्रोक्ता युक्ता तेन पितामह । विजयेति तथा नाम वर्ण्यतामस्य १ पुण्यता । । २ ब्रह्मोवाच ये त्वादित्यदिने ब्रह्मञ्छ्राद्धं२ कुर्वन्ति मानवाः । सप्तजन्मसु ते जाताः सम्भवन्ति विरोगिणः । । ३ नक्तं कुर्वन्ति ये तत्र मानवाः स्थैर्यमाश्रिताः । जपमाना परं जाप्यमादित्यहदयं परम् । ।४ आरोग्यमिह वै प्राप्य सूर्यलोकं व्रजन्ति ते । उपवासं च ये कुर्युरादित्यस्य दिने सदा । । ५ जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् । अहोरात्रेण नक्तेन त्रिरात्रनियमेन वा । । ६ जपमानो महाश्वेतामीप्सितं लभते फलम् । विशेषतः सूर्यदिने जपमानो गणाधिप । । ७ षडक्षरं३ तथा श्वेतां गच्छेद्वैरोचनं पदम् । द्वादशेह स्मृता वारा आदित्यस्य महात्मनः । । ८ नन्दो भद्रस्तथा सौम्यः कामदः पुत्रदस्तथा । जयो जयन्तो विजय आदित्याभिमुख स्थितः । । ९ हृदयो रोगहा चैव महाश्वेतप्रियोऽपरः । शुक्लपक्षस्य षष्ठ्यां तु माघे मासि गणाधिप । । 1.82.१० यः४ कुर्यात्स भवेद्भूपः सर्वपापभयापहः । अत्र नक्तं स्मृतं पुण्यं घृतेन स्नपनं रवेः । । ११ अगस्त्यकुसुमानीह भानोस्तुष्टिकराणि तु । विलेपनं सुगन्धस्तु श्वेतचन्दनमुत्तमम् । । १२ धूपस्तु गुग्गुलः श्रेष्ठो नैवेद्यं पूपमेव हि । दत्त्वा पूपं तु विप्रस्य ततो भुञ्जीत वाग्यतः । । १३ नक्षत्रदर्शनान्नक्तं केचिदिच्छन्ति मानद
मुहूर्तोनं दिनं केचित्प्रवदन्ति मनीषिणः । । १४ नक्षत्रदर्शनान्नक्तमहम्मन्ये गणाधिप । प्रस्थमात्रं भवेत्पूपं गोधूममयमुत्तमम् । । १५ यवोद्भवं वा कुर्वीत सगुडं सर्पिषान्वितम् । सहिरण्यं च दातव्यं ब्राह्मणे सेतिहासके
१६ भौमे दिव्येऽथ वा देयं न्यसेद्वा पुरतो रवेः । दातव्यो मन्त्रतश्चायं मण्डको३ ग्राह्य एव हि । । १७ भूत्वादित्येन वै भक्त्या आदित्यं तु नमस्य च । आदित्यतेजसोत्पन्नं राज्ञीकरविनिर्मितम् । । श्रेयसे मम विप्र त्वं प्रतीच्छापूपमुत्तमम् । । १८ कामदं सुखदं धर्म्यं धनदं पुत्रदं तथा । सदास्तु ते प्रतीच्छामि मण्डकं भास्करप्रिपम् । । १९ एतौ चैव महामन्त्रौ दानादाने रविप्रियौ । अपूपस्य गणश्रेष्ठ श्रेयसे नात्र संशयः । । 1.82.२० एष नन्दविधिः प्रोक्तो नराणां श्रेयसे विभो । अनेन विधिना यस्तु नरः४ पूजयते रविम् । । सर्वपापविनिर्मुक्तः सूर्यलोके महीयते । । २१ न दरिद्रं न रोगश्च कुले तस्य महात्मनः । योऽनेन पूजयेद्भानुं न क्षयः सन्ततेस्तथा । । २२ सूर्यलोकाच्च्युतश्चासौ राजा भवति भूतले । बहुरत्नसमायुक्त६ स्तेजसा द्विजसन्निभः
२३ पठतां शृण्वतां चेदं विधानं त्रिपुरान्तक । कं १ ददात्यचलं दिव्यमम्बुजामचलां तथा । २४ इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे नन्दविधिवर्णनं नाम द्वयशीतितमोऽध्यायः
भद्रविधिवर्णनम् ब्रह्मोवाच मासि भाद्रपदे वीर शुक्ते पक्षे तु यो भवेत् । षष्ठ्यां गणकुलश्रेष्ठ स भद्रः परिकीर्तितः । । १ तत्र नक्तं तु यः कुर्यादुपवासमथापि वा । हंसयानसमारूढो याति हंससलोकताम् । । २ मालतीकुसुमानीह तथा श्वेतं च चन्दनम् । विजयं च तथा धूपं नैवेद्यं पायसं परम् । । ३ पूजायां भास्करस्येह कुर्यात्त्रिपुरसूदनम् । इत्थं सम्पूज्य देवेशं मध्याह्ने च दिनाधिपम् । ४ दत्त्वा तु दक्षिणां शक्त्या ततो भुञ्जीत वाग्यतः । पायसं गणशार्दूल सगुडं सर्पिषा सह । ५ य एवं पूजयेद्भक्त्या मानवस्तिमिरापहम् । सर्वकामानवाप्नोति पुत्रदारधनादिकान् । । ६ विमुक्तः सर्वपापेभ्यो व्रजद्भानुसलोकताम् । एष भद्रा विधिः प्रोक्तो मया यस्ते गणाधिप ।।७ श्रुत्वा कृत्वा च यत्पापान्मुच्यते मानवो भुवि । । ८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे भद्रविधिवर्णनं नाम त्र्यशीतितमोऽध्यायः
सौम्यविधिवर्णनम् ब्रह्मोवाच नक्षत्रं रोहिणी वीर यदा वारेऽस्य वै भवेत् । यात्यसौ सौम्यतां वीर१ स सौम्यः परिकीर्तितः । । १ स्नानं दानं जपो होमः पितृदेवादितर्पणम् । अक्षयं स्यान्न सन्देहस्त्वत्र वारे महात्मनः । । २ नक्तं समाश्रितो योऽत्र पूजयेद्भास्करं नरः । याति लोकं स देवस्य भास्करस्य न संशयः । । ३ रक्तोत्पलानि वै तत्र तथा रक्तं च चन्दनम् । सुगन्धश्चापि धूपस्तु नैवेद्यं पायसं तथा । । ब्राह्मणाय च दातव्यं भोक्तव्यं चात्मना तथा । । ४ य एवं पूजयेत्सौम्ये चित्रभानुं गवाम्पतिम् । स विमुक्तस्तु पापेभ्यस्त्वाष्ट्रीं कान्तिमवाप्नुयात् । । ५ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे सौम्यविधिवर्णनं नाम चतुरशीतितमोऽध्यायः
कामदविधिवर्णनम् ब्रह्मोवाच प्राप्ते मार्गशिरे मासि शुक्लषष्ठ्यां तु यो भवेत् । स ज्ञेयः कामदो वारः सदेष्टो भास्करस्य तु । । १ तत्र यः पूजयेद्भानुं भक्त्या श्रद्धासमन्वितः । विमुक्तः सर्वपापैस्तु प्राप्नुते नन्दनाधिपम्
२ रक्तचन्दनमिश्राणि करवीराणि सुव्रत । धूपं घृताहुतिं वीर भास्करस्य प्रयोजयेत् । । ३ नैवेद्यं चापि कृशरं सुगन्धं तीक्ष्णमेव च । कृत्वोपवासमथ वा नक्तं त्रिपुरसूदन । । ४ इत्थं प्रपूजितो ह्यत्र भास्करो लोकभास्करः । कामान्ददाति सर्वान्वै अतोयं कामदः स्मृतः । । ५ स पुत्र पुत्रकामस्य धनकामस्य वा धनम् । विद्यार्थिने शुभां विद्यामारोग्यं रोगिणे विभो । । ६ अन्यांश्च विविधान्कामान्मन्त्रैः सम्पूजितो रविः । ददाति गणशार्दूल अतोयं कामदः स्मृतः । । ७ दद्याद्यो मण्डकं चात्र गोपतेर्गोत्रभूषणः । गोत्रारितेजसा३ तुल्यो गोपतेर्गोपुरं व्रजेत् । । ८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे कामदविधिवर्णनं नाम पञ्चाशीतितमोऽध्यायः
जयवारतिथिवर्णनम् ब्रह्मोवाच पञ्चतारं भवेद्यत्र नक्षत्रं ते वृषध्वज । वारे तु देवदेवस्य स वारः पुत्रदः स्मृतः । । १ उपवासो भवेत्तत्र श्राद्धं कार्यं तथा भवेत् । प्राशनं चापि पिण्डस्य मध्यमस्य प्रकीर्तितम् । । २ सोपवासस्तु यो भक्त्या पूजयेदत्र गोपतिम् । धूपमाल्योपहारैस्तु दिव्यगन्धसमन्वितैः । । ३ एवं पूज्य विवस्वन्तं तस्यैव पुरतो निशि । भूमौ स्वपिति वै वीर जपञ्छ्वेतां महामते । । ४ प्रातरुत्थाय च स्नानं कृत्वा दत्त्वार्घ्यमुत्तमम् । रक्तचन्दनसम्मिश्रैः करवीरैर्गणाधिप । । ५ प्रपूज्य ग्रहभूतेशमंशुमन्तं त्रिलोचन । वीरं १ च पूजयित्वा तु ततः श्राद्धं प्रकल्पयेत् । । ६ पञ्चभिर्ब्राह्मणैर्देव दिव्यैभोमैश्च२ सुव्रत । मगसंज्ञौ३ तत्र दिव्यौ ब्राह्मणौ परिकल्पयेत् । । ७ त्रीनत्र ब्राह्मणान्भीमान्प्रकल्प्यान्धकसूदन । कुर्यादेवं ततः श्राद्धं पार्वणं भास्करप्रियम् । । ८ श्राद्धे त्वथ समाप्ते तु दद्यात्पिण्डं तु मध्यमम् । पुरतो देवदेवस्य स्थित्वा मन्त्रेण सुव्रत । । ९ स एष पिण्डो देवेश योऽभीष्टस्तव सर्वदा । अश्नामि पश्यते तुभ्यं तेन मे सन्ततिर्भवेत् । । 1.86.१० प्रसादात्तव देवेश इति मे भावितं मनः । इत्थं सम्पूजितो ह्यत्र भास्करः पुत्रदो भवेत् । । ११ अतोऽयं पुत्रदो वारो देवस्य परिकीर्तितः । एवमत्र सदा यस्तु भास्करं पूजयेन्नरः । । १२ उपवासपरः श्राद्धे स पुत्रं लभते ध्रुवम् । धनं धान्यं हिरण्यं च आरोग्यं सुखदं तथा । । सूर्यलोकं च सम्प्राप्य ततो राजा भवेन्नृषु । । १३ प्रभया द्विजसंकाशः कान्त्या चाम्बुजसन्निभः । वीर्येण गोपतेस्तुल्यो गाम्भीर्ये सागरोपमः । । १४ ( इति पुत्रदविधिवर्णनम्) ब्रह्मोवाच दक्षिणे त्वयने यः स्यात्स जयः परिकीर्तितः । । १५ अत्रोपवासो नक्तं च स्नानं दानं जपस्तथा । भवेच्छतगुणं देव भास्करप्रीतये कृतम् । । १६ तस्मान्नक्तादि कर्तव्यं यत्स्याच्छतगुणं विभो । । १७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे जयवारतिथिवर्णनं नाम षडशीतितमोऽध्यायः
जयन्तविधिवर्णनम् ब्रह्मोवाच जयन्तो ह्युत्तरे ज्ञेयश्चायने गणनायक । वारो देवस्य यः स्याद्वै तत्र पूज्यो दिवाकरः । । १ पूजितस्तत्र देवेशः सहस्रगुणितं फलम् । ददाति देवशार्दूल स्नानदानादिकर्मणाम् । । २ घृतेन पयसा यत्र स्नानमिक्षुरसेन तु । विलेपनं कुङ्कुमं तु प्रशस्तं भास्करे प्रियम् । । ३ धूपक्रिया गुग्गुलेन नैवेद्ये मोदकः स्मृतः । इत्थं सम्पूज्य देवेशं कुर्याद्धोमं ततस्तिलैः । । ब्राह्मणान्भोजयेत्पश्चान्मोदकांस्तिलशष्कुलीः । । ४ इत्थं यः पूजयेद्भानुं मन्त्रेणैव गणाधिप । सहस्रगुणितं तस्य फलं देवो ददाति वै । । ५. स्नानदानजपादीनामुपवासस्य वै विभो । । ६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे जयन्तविधिवर्णनं नाम सप्ताशीतितमोऽध्यायः
विजयवारविधिवर्णनम् ब्रह्मोवाच शुक्लपक्षस्य सप्तम्यां प्राजापत्यर्क्षसंयुतः । स ज्ञेयो विजयो नाम सर्वपापभयापहः । । १ तत्र कोटिगुणं सर्वफलं पुण्यस्य कर्मणः । ददाति भगवान्देवः पूजितश्चन्दनाधिपः । । २ स्नानं दानं जपो होमः पितृदेवादिपूजनम् । नक्तं चाप्युपवासस्तु सर्वमत्र दिवाकरः । । ३ कुर्यात्कोटिगुणं सर्वं पूजितो ह्यत्र गोपतिः । तस्मादत्र सदा देवं पूजयेद्भक्तिमान्नरः । । ४ सर्वेशं सप्तद्वीपेशं सप्तसैन्धववाहनम् । सप्तम्यां तु समाराध्य सप्तप्रकृतिसम्भवम् । ।५ सप्तलोकाधिपत्यं तु प्राप्नुते सप्तरश्मिभिः । । ६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे विजयवारविधिवर्णनं नामाष्टाशीतितमोऽध्यायः
आदित्याभिमुखविधिवर्णनम् ब्रह्मोवाच कृष्णपक्षस्य सप्तम्यां माघमासे भवेत्तु यः । सादित्याभिमुखो१ ज्ञेयः शृणु चास्य विधिं परम् । । १ कृत्वैकभक्तं कृष्णस्य वारे त्रिपुरसूदन
प्रातः कृत्वा ततः स्नानं पूजयित्वा दिवाकरम् । । २ आदित्याभिमुखस्तिष्ठेद्यावदस्तमनं रवेः । जपमानो महाश्वेतां लाभमाश्रित्य सुव्रत । । ३ चतुर्हस्तमृजं श्लक्ष्णमव्रणं सुसमं दृढम् । रक्तचन्दनवृक्षस्य स्तम्भं कृत्वा गणाधिप । । ४ तमाश्रित्य महाभक्त्या देवदेवं दिवाकरम् । पश्यमानो जपञ्श्वेतां तिष्ठेदस्तमनाद्रवेः । । ५ गन्धपुष्पोपहारैस्तु पूजयित्वा दिवाकरम् । ब्राह्मणे दक्षिणां दत्त्वा ततो भुञ्जीत वाग्यतः । । ६ इत्थमेतं तु यः कुर्यादादित्यप्रीतये नरः । भानुमांस्तस्य प्रीतः स्यात्सर्वं प्रीतो ददादि हि । । ७ धनं धान्यं तथा पुत्रमारोग्यं भार्गवो यशः । तस्मात्सम्पूजयेदत्र गीर्वाणाधिपतिं हर । । ८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे आदित्याभिमुखविधिवर्णनं नाम नवाशीतितमोऽध्यायः
हृदयवारविधिवर्णनम् ब्रह्मोवाच रविसङ्क्रमणे यः स्याद्रवेर्वारो गणाधिप । स ज्ञेयो हृदयो नाम आदित्यहदयप्रियः । । १ तत्र नक्तं समाश्रित्य देवं सम्पूज्य भक्तितः । गत्वा च सदने भानोरादित्याभिमुखस्थितः । । २ जपेदादित्यहदयं सङ्ख्ययाष्टशतं बुधः । अथ वास्तमनं यावद्भास्करं चिंतयेद्धृदि । । ३ गृहमेत्य ततो विप्रान्भोजयेच्छक्तितः शिव । भुक्त्वा तु पायसं वीर ततो भूमौ स्वपेद्बुधः । । ४ योऽत्र सम्पूयेद्भानुं भक्त्या श्रद्धासमन्वितः । स कामाँल्लभते सर्वान्भास्कराद्धृदयस्थितान् । । ५ तेजसा यशसा तुल्यः प्रभयैषां महात्मनः । शक्रगोपाण्डजानां तु गोपतेर्गोवृषेक्षण । । ६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे हृदयवारविधिवर्णनं नाम नवतितमोऽध्यायः
रोगहरविधिवर्णनम् ब्रह्मोवाच पूष्णो भवेद्यदा ऋक्षं भवेच्च भगदैवतम् । वासरः स महान्प्रोक्तः सर्वरोगभयापहः । । १ योऽत्र पूजयते भानुं शुभगन्धविलेपनैः । सर्वरोगविनिर्मुक्तो याति भानुसलोकताम् । । २ अर्कपत्रपुटे कृत्या पुष्पाण्यर्कस्य सुव्रत । देवस्य पुरतो रात्रौ भक्त्या यः स्थापयेद्बुधः । । ३ पूजयित्वार्कपुष्पैस्तु अर्कमर्कप्रियं सदा । प्राशयित्वार्कपुष्पं१ तु दत्त्वा विप्राय दक्षिणाम् । । ४ भक्त्या च पायसं वीर रात्रौ स्वपिति भूतले । अनेन विधिना यस्तु पूजयेदत्र वै रविम् । । ५ स मुक्तः सर्वरोगैस्तु३ गच्छेद्दिनकरालयम्
तस्मादपि व्रजेल्लोकं फुंकाररवहेतिनः । । ६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यकल्पे रोगहरविधिवर्णनं नामैकनवतितमोऽध्यायः
महाश्वेतवारविधिवर्णनम् ब्रह्मोवाच यस्त्वादित्यग्रहस्यास्य वारो देवस्य सुव्रत । शस्यः प्रोक्तः प्रियो लोके ख्यातो गोश्रुतिभूषणः । । १ यस्तु पूजयते तस्मिन्पतङ्गं पतगप्रियम् । गन्धपुष्पोपहारैस्तु सूर्यलोकं स गच्छति । । २ सोपवासो गणश्रेष्ठ आदित्यग्रहणे शुचिः । जपमानो महाश्वेतां खपोषमथ वा शिवम् । । ३ पूजयेज्जगतामीशं तमोनाशनमाशुगम् । पूजयित्वा खपोषं तु महाश्वेतां ततो जपेत् । ।४ पूजयित्वा महाश्वेतां रविं देवं समर्चयेत्
महाश्वेतां प्रतिष्ठाप्य गन्धपुष्पैः सुपूजिताम् । । ५ तस्या एव बहिः२ कार्यं स्थण्डिलं सुसमाहितः । शुचौ भूमिविभागे तु वीरं संस्थाप्य यत्नतः । । ६ कुर्याद्धोमं तिलैः स्नातः सर्पिषा च विशेषतः । आदित्यग्रहवेलायां जपेञ्छ्वेतां महामते । । ७ मुक्ते दिनकरे पश्चात्स्नानं कृत्वा समाहितः । पूजयित्वा महाश्वेतां खगोल्कं३ च ग्रहाधिपम् । । ८ ब्राह्मणान् वाचयित्वा च ततो भुञ्जीत वाग्यतः । आदित्यग्रहयुक्तेऽस्मिन्वारे त्रिपुरसूदन । । ९ यत्कर्म क्रियते पुण्यं तत्सर्वं शुभदं भवेत् । स्नानदानजपादीनां कर्मणां गोवृषध्वज । । 1.92.१० अनन्तं हि फलं तेषां भवत्यस्मिन्न संशयः । कृतानां तु गणश्रेष्ठा भास्करस्य वचो यथा । । ११ तस्माद्द्विजगणैः कार्यं पुण्यकर्मविचक्षणैः । एकभक्तं च नक्तं च उपवासं गणाधिप । । १२ ये वादित्यदिने कुर्युस्ते यान्ति परमं पदम् । धर्म्यं पुण्यं यशस्यं च पुत्रीयं कामदं तथा । । १३ तस्मिन्दानमपूपस्य गोदानेन समं भवेत् । द्वादशैते महाबाहो वीरभानोर्महात्मनः । । १४ तुष्टिदाः कथितास्तुभ्यं सर्वपापभयापहाः । पठतां शृण्वतां तात कुर्वतां च विशेषतः । । १५ कृत्वैकमेषां विधिवद्वारं वृषभवाहन । वृषादित्रितयं प्राप्य चात्रिजामचलां तथा । । १६ ततो याति परं लोकं वृषकेतो महात्मनः । तेजसाम्बुजसंकाशः प्रभयाण्डजसन्निभः । । १७ पत्रिहेतिसमो वीर्ये कान्त्या चन्द्रसमप्रभः । । १८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे महाश्वेतवारविधिवर्णनं नाम द्विनवतितमोऽध्यायः
भानुमहिमवर्णनम् ब्रह्मोवाच येषां धर्मक्रियाः सर्वाः सदैवोद्दिश्य भास्करम् । न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । । १ देवायतनभूमेस्तु गोमयेनोपलेपनम् । यः करोति नरो भक्त्या सद्यः पापात्प्रमुच्यते । । २ श्वेतया रक्तया वापि पीतमृत्तिकयापि वा । उपलेपनकर्ता वै चिन्तितं लभते फलम् । । ३ चित्रभानुं विरञ्च्यैव१ कुसुमैर्यः सुगन्धिभिः । पूजयेत्सोपवासस्तु स कामानीप्सिताँल्लभेत् । । ४ घृतेन दीपकं ज्वाल्य तिलतैलेन वा रवेः । प्रयाति सूर्यलोकं स दीपकोटिशतैर्वृतः । । ५ दीपतैलप्रदानेन न याति नरकं नरः । दीपतैलं तिलाश्चैव२ महापातकनाशनाः । । ६ दीपं ददाति यो नित्यं भास्करायतनेषु३ वै । चतुष्पथेषु तीर्थेषु रूपौजस्वी ह जायते । । ७ यस्तु कारयते४ दीपं रवेर्भक्तिसमन्वितः । स कामानीप्सितान्प्राप्य वृन्दारकपुरं व्रजेत् । । ८ यः समालभते सूर्यं चन्दनागुरुकुङ्कुमैः । कर्पूरेण विमिश्रैश्च तथा कस्तूरिकान्वितैः । । ९ शुभं कालं कोटिशतं विहृत्य५ च भवालये । पुनः सञ्जायते भूमौ राजराजो न संशयः । । सर्वकामसमृद्धात्मा सर्वलोकनमस्कृतः । । 1.93.१० चन्दनोदकमिश्रैश्च दत्त्वार्घ्यं कुसुमै रवेः । सपुत्रपौत्रपत्नीकः स्वर्गलोके महीयते