पप्रच्छ मम योग्या वै शुक काचिद्वरांगना
मगधेश्वरभूपस्य कन्या चन्द्रवती शुभा
इति श्रुत्वा स नृपतिर्गणेशं द्विजसत्तमम्
गणेशोपि गतस्तूर्णं देशे मागधके शुभे
नमः शिवाय शांताय सर्वाभीष्टप्रदायिने
मृडायानंदरूपाय सर्वदुःखहराय च
इत्युक्तवति विप्रे च तदा चन्द्रवती शुभा 3.2.4.
मम योग्यश्च पुरुषः कश्चिदस्ति महीतले
इति श्रुत्वा तु सा देवी दुर्गां वाञ्छितदायिनीम्
नमोनमो जगन्मातर्मम कार्यप्रदायिनि
त्वं स्वाहा त्वं स्वधा संध्या नमस्तस्यै नमोनमः
इति स्तुत्या प्रसन्नाभूज्जगदंबा जगन्मयी
विवाहं कारयामास मासान्ते सिद्धरूपिणी
एकस्मिन्दिवसे राजन्मेनां मदनमंजरीम्
मेनका प्राह भो राजन्विवाहाश्चेदृशो मताः
तथैव त्रिविधा नारी यथा योग्यो वरो भवेत्
शृणु तत्कारणं राजन्मया दृष्टं यथाऽभवत् 3.2.4.
अनपत्यो देवयाजी तस्य पत्नी पतिव्रता
द्यूतक्रीडापरो नित्यं सुरापाने रतस्सदा
तस्य धर्मं च पितरौ समालोक्य वनं गतौ
मदपालस्तु तनयः कृत्वा सर्वधनव्ययम्
प्राप्तश्चंद्रपुरे रम्ये यत्र हेमपतिः स्थितः
देवयाजी सुतोऽहं वै स्वल्पं वै धनमाहृतम्
महावायु प्रभावेन द्रव्यं तन्मग्नमंभसि
इति श्रुत्वा हेमपतिः स्वपत्नीं काममंजरीम्
चंद्रकांतिं सुतां दास्ये तद्वराय त्वदाज्ञया
स्वगृहे वासयामास मदपालं सुतापतिम् 3.2.4.
आज्ञां देहि धनाध्यक्ष स्वगेहं यामि मा चिरम्
चंद्रकांतिं सदासीं च तस्मै दत्त्वा गृहं ययौ
दासीं हत्वा तदा पत्नीं विसृज्य धनवर्जिताम्